"काठकसंहिता (विस्वरः)/स्थानकम् १९" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १९:
अन्वग्निरुषसामग्रमख्यदित्यनुक्शात्या आगत्य वाज्यध्वानँ सर्वा मृधो विधूनुत इति मृध एवैतयापहत आक्रम्य वाजिन् पृथिवीमग्निमिच्छ रुचा त्वमित्यैच्छद्वा एतं पूर्वया प्रजापतिरविन्ददुत्तरयेच्छत्येव पूर्वया विन्दत्युत्तरया द्यौस्ते पृष्ठं पृथिवी सधस्थमिति वज्री वा अश्वः प्राजापत्यो लोमाभिरुभयादतः पशूनति दद्भिरन्यतोदतो वज्रेणैव भ्रातृव्यमवगृह्णाति यत्र वै यज्ञस्यानुरूपं क्रियते तत् पशवोऽनुरूपा जायन्ते ।। उत्क्रामोदक्रमीदित्यनुरूपाभ्यामुत्क्रमयति तस्मात् पशवोऽनुरूपा जायन्ते द्वाभ्यां द्विपाद्यजमानः प्रतिष्ठित्यै यां वा अनग्ना अध्वर्युराहुतिं जुहोत्यन्धोऽध्वर्युर्भवति रक्षाँसि यज्ञं घनन्त्यग्निर्वै वरुणानीरभ्यकामयत तस्य तेजः परापतत् तद्धिरण्यमभवद्यद्धिरण्यमुपास्य जुहोत्यग्निमत्येव जुहोति समृद्ध्यै नान्धोऽध्वर्युर्भवति रक्षाँसि यज्ञं घ्नन्ति जिघर्म्यग्निं मनसा घृतेनेति मनो वै वाचः क्षेपीयो मनसैवाहुतिमाप्नोति प्रतिक्षियन्तं भुवनानि विश्वेति तस्मादेष सर्वाः प्रजाः प्रत्यङ् क्षियते व्यचिष्ठमन्नं रभसं विदानमित्यन्नमेवास्मै स्वदयत्या त्वा जिघर्मि वचसा घृतेनेति पूर्वमेवोदितमनुवदत्यरक्षसा मनसा तज्जुषेथा इति रक्षसामपहत्यै मर्यश्रीस्स्पृहयद्वर्णो अग्निरित्यपचितिमेवास्मिन् दधाति द्वाभ्यां जुहोति द्विपाद्यजमानः प्रतिष्ठित्यै ॥ यज्ञमुखे यज्ञमुखे वै यज्ञं रक्षाँसि जिघाँसान्ति यत् परिलिखति रक्षसामपहत्यै तिसृभिः परिलिखति त्रय इमे लोका एभ्य एव लोकेभ्यो रक्षाँस्यपहन्ति परि वाजपतिः कविरिति गायत्र्या परिलिखति ब्रह्म वै गायत्री ब्रह्मणैवैनं परिगृह्णाति परि त्वाग्ने पुरं वयमित्यनुष्टुभा वाग्वा अनुष्टुप् सर्वाणि च्छन्दाँसि परिभूर्वाचैव सर्वाणि च्छन्दाँसि परिगृह्णाति त्वमग्ने द्युभिरिति त्रिष्टुभा वीर्यं वै त्रिष्टुब् वीर्येणैवैनं परिगृह्णात्यनुष्टुभा मध्यतः परिलिखति वाग्वा अनुष्टुब् वाचमेव मध्यतो दधाति तस्मान्मध्यतो वाग्वदति तेजो वै गायत्री यज्ञोऽनुष्टुबिन्द्रियं त्रिष्टुप् तेजसा चैवेन्द्रियेण च यज्ञमुभयत आत्मन् परिगृह्णाति ॥३॥
 
सावित्राभ्यां खनति प्रसूत्यै धूममेव पूर्वेण विन्दति ज्योतिरुत्तरेण द्वाभ्यां द्विपाद्यजमानः प्रतिष्ठित्या अपां पृष्ठमसि योनिरग्नेरिति पुष्करपर्णमादत्तेऽपाँ ह्येतत् पृष्ठं योनिरग्नेः पुष्करपर्णेन संभरति स्वेनैवैनं योनिना संभरति शान्त्या अनुद्दाहाय कृष्णाजिनेन संभरति यज्ञो वै कृष्णाजिनं यज्ञेनैव यज्ञँ संभरत्यस्कन्दाय न हि यज्ञे यज्ञस्स्कन्दत्येतद्वै ब्रह्मणो रूपं यत् कृष्णाजिनं ब्रह्मणा चैवैनमृक्सामाभ्यां च संभरति शर्म च स्थो वर्म च स्थ इति सँस्तृणातीयं वै पुष्करपर्णमसौ कृष्णाजिनमिमे एवैतत् सँस्तृणात्यच्छिद्रे बहुले उभे इत्यच्छिद्रे हीमे बहुले उभे व्यचस्वती इति तस्मादिमे व्यचस्वती भर्तमग्निं पुरीष्यमिति पुरीष्यो ह्येष संवसाथाँ स्वर्विदौ समीची उरसा त्मनेति तस्मादिमे नाना सती समीची अग्निमन्तर्भरिष्यन्ती ज्योतिष्मन्तमजस्रमिदिति ज्योतिरेवास्मिन्नजस्रं दधाति पुरीष्योऽसि विश्वभरा इति पुरीष्यो ह्येष विश्वभरा अथर्वा त्वा प्रथमो निरमन्थदग्न इति प्रजापतिर्वा अथर्वा प्रजापतिरेतमग्रेऽमन्थत् प्रजापतिरेवैनं जनयति तमु त्वा दध्यङ्ङृषिरिति दध्यङ् वा आथर्वणस्तेजस्व्यासीत् तेनैवैनँ संभरति तमु त्वा पाथ्यो वृषेति पूर्वमेवोदितमनुवदति चतसृभिस्संवपति । चत्वारि वै छन्दाँसि च्छन्दोभिरेवैनँ संवपति गायत्रीभिर्ब्राह्मणस्य संवपेद्गायत्रो हि ब्राह्मणस्त्रिष्टुब्भी राजन्यस्य त्रैष्टुभो हि राजन्यो जगतीभिर्वैश्यस्य जागतो हि वैश्यो यथाछन्दसमेवोभयीभिस्संवपेद्य कामयेत वसीयान् स्यादिति तेजो वै गायत्रीन्द्रियं त्रिष्टुप् तेजश्चैवास्मिन्निन्द्रियं च समीची दधात्यष्टाभिस्संवपत्यष्टाक्षरा गायत्री गायत्रोऽग्निर्यावानेवाग्निस्तँ संभरति सीद होतरिति देवता एवास्मिन् सँसादयति नि होतेति मनुष्यानेव सँसीदस्वेति वयाँस्येव जनिष्ट हि जेन्यो अग्रे अह्नामिति देवमनुष्यानेवास्मिन् सँसन्नान् प्रजनयति।।४।।
सावित्राभ्यां खनति प्रसूत्यै धूममेव पूर्वेण विन्दति ज्योतिरुत्तरेण द्वाभ्यां द्विपाद्यजमानः प्रतिष्ठित्या अपां पृष्ठमसि योनिरग्नेरिति पुष्करपर्णमादत्तेऽपाँ ह्येतत् पृष्ठं योनिरग्नेः पुष्करपर्णेन संभरति
अपो देवीरुप सृज मधुमतीरित्योषधीनां प्रतिष्ठित्यै तासामास्थानादुज्जिहतामोषधयस्सुपिप्पला इति तस्मादोषधयः फलं गृह्णन्ति सं ते वायुर्मातरिश्वा दधात्विति तस्माद्वायुर्वृष्टिं वहति प्राणो वै वायुः प्राणमेवास्मिन् दधाति तस्मै देव वषडस्तु तुभ्यमिति षड्वा ऋतव ऋतुष्वेव वृष्टिं दधाति तस्मादृतुमृतुं वर्षति यत् प्रत्यक्षं वषट् कुर्याद्यातयामा वषट्कारस्स्याद्यन्न वषट् कुर्याद्रक्षाँसि यज्ञँ हन्युस्तस्मै देव वषडस्तु तुभ्यमिति परोक्षं न यातयामा वषट्कारो भवति न रक्षाँसि यज्ञं घ्नन्ति ।। यदाज्येन जुहुयाच्छुचा पृथिवीमर्पयेदपो निनयति शान्त्या अनुद्दाहाय सुजातो ज्योतिषेत्येतर्हि वा एष जायते यर्हि संभ्रियते जात एवास्मिञ्जयोतिर्दधाति शर्म वरूथमासदत् स्वरिति ब्रह्म वै शर्म वरूथं ब्रह्मण्येवैनं प्रतिष्ठापयति वासो अग्ने विश्वरूपँ संव्ययस्व विभावस इति च्छन्दाँसि वा अग्नेर्वासश्छन्दोभिरेवैनं परिदधात्यनुष्टुब् वा अग्नेः प्रिया तनूः प्रिययैवैनं तन्वा परिदधाति वेदुको वासो भवति य एवं वेद । वरुणमेनिर्वा एप उपनद्ध उदुतिष्ठ स्वध्वरोर्ध्व ऊ षु ण ऊतये इत्युर्ध्वामेव वरुणमेनिमुत्सुवति द्वाभ्यां द्विपाद्यजमानः प्रतिष्ठित्यै स जातो गर्भो असि रोदस्योरितीमे वै रोदसी अनयोरेष गर्भोऽनयोरेवैनं प्रतिष्ठापयत्यग्ने चारुर्विभृत ओषधीष्विति तस्मादग्निस्सर्वा अन्वोषधीः प्र मातृभ्यो अधि कनिक्रदद्गा इत्योषधयो वा एतस्य मातरस्ताभ्य एवैनमधिप्रणयति स्थिरो भव वीड्वङ्ग इति गर्दभ एव स्थेमानं दधाति तस्मादेष पशूनां भारभारितमश्शिवो भव प्रजाभ्यो मानुषीभ्यस्त्वमङ्गिर इत्यभि वा एष एतर्हि प्रजाश्शोचयति शान्त्यै ।। मा द्यावापृथिवी अभि शुचो मान्तरिक्षं मा वनस्पतीनित्येभ्य एवैनं लोकेभ्यश्शमयति प्रैतु वाजी कनिक्रददिति समष्ट्यै मा पाद्यायुषः पुरेत्यायुरेवास्मिन् दधाति तस्माद्गर्दभस्सर्वमायुरेति तस्माद्गर्दभे प्रमीते बिभ्यति वृषाग्निं वृषणं भरन्निति वृषा ह्येष वृषाणं भरत्यपां गर्भँ समुद्रियमित्यपाँ ह्येष गर्भस्समुद्रियोऽग्न आयाहि वीतय । इत्यग्निना वै देवा इदमग्रे व्यायन् वीत्यै प्रच्युतो वा एष एतर्ह्यायतनादगतः प्रतिष्ठाँ स यजमानं चैवाध्वर्युं च ध्यायत्यृतँ सत्यमृतँ सत्यमितीयं वा ऋतमसौ सत्यमनयोरेवैनं प्रतिष्ठापयत्योषधयः प्रतिगृह्णीताग्निमेतँ शिवमायन्तमभ्यत्र युष्मानित्योषधयो वा एतस्य भागधेयं ताभिरेवैनँ सम्यञ्चं दधात्यथो याभ्य एनं प्रच्यावयति तास्वेनं प्रतिष्ठापयति । पुष्पवतीस्सुपिप्पला इति तस्मादोषधयः फलं गृह्णन्ति द्वाभ्यामुपावहरति द्विपाद्यजमानः प्रतिष्ठित्यै वि पाजसेति वि स्रंसयति वरुणमेनिमेव विष्यत्यापो हि ष्ठा मयोभुव इत्यप उपसृजत्यापश्शान्ताश्शान्ताभिरेवास्य शुचँ शमयति तिसृभिस्त्रिवृद्वा अग्निर्यावानेवाग्निस्तस्य शुचँ शमयत्यजलोमैस्सँसृजत्येषा वा अग्नेः प्रिया तनूर्यदजा प्रिययैवैनं तन्वा सँसृजति शर्कराभिर्धृत्या अर्म्यैः कपालैस्सँसृजत्यारण्यानेव पशूञ्शुचार्पयति यद्ग्राम्यैस्सँसृजेद् ग्राम्यान् पशूञ्शुचार्पयेत् तस्मादेते समावत् पशूनां प्रजायमानानां कनिष्ठाश्शुचा ह्येत ऋताः ॥५॥
 
मित्रस्सँसृज्य पृथिवीमिति वरुणमेनिर्वा एषा मित्रेणैव वरुणमेनिमुपैति रुद्रस्सँसृज्य पृथिवीँ सँसृष्टां वसुभी रुद्रैरित्येताभिर्वा एतां देवताभिः प्रजापतिस्समसृजत् ताभिरेवैनाँ सँसृजति प्रान्यैर्यच्छत्यन्वन्यैर्मन्त्रयते मिथुनमेव करोत्यथो मध्यत एव यज्ञस्याशिषमवरुन्द्धे मखस्य शिरोऽसीति
यज्ञो वै मखो यज्ञस्यैव शिरः करोति वसवस्त्वा कुर्वन्तु गायत्रेण च्छन्दसेत्येताभिर्वा एतां देवताभिः प्रजापतिरकरोत् ताभिरेवैनां करोति त्र्युद्धं करोति त्रय इमे लोका इमानेव लोकानाप्नोति पञ्चोद्धिं करोति पाङ्क्तो यज्ञो यज्ञमेवावरुन्द्धे ।। धारया मयि प्रजामित्याशीरेवैषा छन्दसां दोहोऽरत्निमात्रीं कुर्यात् पुरुषेण वै यज्ञस्संमितो यज्ञपुरुषासंमितां यावद्बाहुभ्यां पर्याप्नुयात् तावतीं कुर्यादेतावद्वै पुरुषे वीर्यं वीर्येण संमितां प्रादेशमात्रीं कुर्यादेतावद्वै मुखं मुखं देवानामग्निर्मुखेन संमितामपरिमितां कुर्यादपरिमितस्यावरुद्ध्यै चतुस्स्तनां कुर्याददित्या दोहाय षट्स्तनामृतूनां दोहायाष्टास्तनां गायत्र्या दोहाय द्विस्तनां द्यावापृथिव्योर्दोहाय नवाश्रिमभिचरणीयां कुर्यात् त्रिवृद्वज्रो वज्रमेव भ्रातृव्याय प्रहरत्यदित्या रास्नास्यदितिस्ते बिलं गृह्णात्विति यजुषा बिलं करोत्ययजुषा हि मनुष्याः कुर्वन्ति मानुषेणेवैनां पात्रेण व्यावर्तयन्ति यद्वा एषा पुरा पक्तोर्भिद्येतार्तिं यजमान आर्छेद्धन्येतास्य यज्ञः कृत्वाय सा महीमुखामिति देवताभ्य एवैनाँ संप्रयच्छति वसवस्त्वा धूपयन्तु गायत्रेण च्छन्दसेत्येताभिर्वा एतां देवताभिः प्रजापतिरधूपयत् ताभिरेवैनां धूपयत्यश्वशकेन धूपयति प्राजापत्यो वा अश्वो यज्ञः प्रजापतिस्सयोनित्वाय सप्तभिर्धूपयति शिरो वा एतद्यज्ञस्य यदुखा सप्त प्राणाश्शीर्षन्नेव प्राणान् दधाति तस्मात् सप्त शीर्षण्याः प्राणाः ॥६॥
 
अदितिस्त्वा देवी विश्वदेव्यावतीतीयं वा अदितिरदित्यैवादित्यां खनत्यस्या अक्रूरंकाराय न हि स्वस्स्वँ हिनस्ति देवानां त्वा पत्नीरिति देवानां वा एतां पत्नीरग्रेऽत्रादधुस्ताभिरेवैनां दधाति धिषणास्त्वेति विद्या वै धिषणा विद्ययैवैनामभीन्द्धे वरुत्रीस्त्वेति होत्रा वै वरुत्रीर्हौत्राभिरेवैनाँ श्रपयति ग्नास्त्वेति च्छन्दाँसि वै ग्नाश्छन्दोभिरेवैनां पचति जनयस्त्वाच्छिन्नपत्रा इति देवानां वै पत्नीर्जनयस्ता एतामग्रेऽपचँस्ताभिरवैनां पचति ।। द्विष्पचन्त्वित्याह तस्माद् द्विस्संवत्सरस्य सस्यं पच्यते षड्भिः पचति षड्वा ऋतव ऋतुभिरेतां देवानां पत्नीरपचँस्तैरेवैनां पचति वरुणमेनिर्वा एषाभीद्धा मित्रस्य चर्षणीधृत इति मित्रेणैव वरुणमेनिमुपैति देवस्त्वा सवितोद्वपत्विति सावित्र्योद्वपति प्रसूत्या अव्यथमाना पृथिव्यामाशा दिश आपृणेति तस्मादग्निस्सर्वा दिशो विभात्युत्तिष्ठ बृहती भवोर्ध्वा तिष्ठ ध्रुवा त्वमिति दृँहत्येवैनां यद्वा एषा भिद्येतार्तिं यजमान आर्छेद्धन्येतस्य यज्ञो मित्रैतां त उखां परिददामीति ब्रह्म वै मित्रो ब्रह्मण एवैनां परिददाति ॥ यदि भिद्येत तैः कपालैस्सँसृज्यान्यां कुर्यात् सैव ततो यज्ञस्य निष्कृतिर्वसवस्त्वाच्छृन्दन्तु गायत्रेण च्छन्दसेति च्छन्दोभिर्वा एषा क्रियते छन्दोभिर्धूप्यते छन्दोभिः पच्यते । छन्दाँस्येव च्छन्दोभिराच्छृन्दन्ति स्वेनायतनेनासुर्यं वै पात्रम
नाच्छृणं यदाच्छृणत्ति देवत्रैव करोत्यजक्षीरेणाच्छृणत्ति सा ह्याग्नेयीतमा समृद्ध्या अथो परमेणैव पयसा ।।७।।
 
अथैतेऽग्निभ्यः कामेभ्यः पशव आलभ्यन्ते कामा वा अग्नयस्सर्वानेवैतैः कामानभिजयति सर्वान् कामान् स्पृणोति यत् पशून्नालभेतानवरुद्धा अस्य पशवस्स्युर्यत् संस्थापयेद्यातयामानि शीर्षाणि स्युर्यन्न सँस्थापयेद्यज्ञं विच्छिन्द्याद्यत् पशूनालभते तेनैव पशूनवरुन्द्धे यत् पर्यग्निकृतानुत्सृजति शीर्ष्णामयातयामत्वायैकेन सँस्थापयति यज्ञस्य संतत्या अविच्छेदाय प्राजापत्येन यज्ञो वै प्रजापतिर्यज्ञ एवं यज्ञं प्रतिष्ठापयति न यज्ञं विच्छिनत्त्यैन्द्रा वा एते पशवो ये मुष्करा यदैन्द्रास्सन्तोऽग्निभ्य आलभ्यन्ते देवताभ्यस्समदं करोत्याग्नेयीस्त्रिष्टुभो याज्यानुवाक्याः कुर्यादैन्द्रीर्वै त्रिष्टुभस्तेनैवैन्द्राः क्रियन्ते न देवताभ्यस्समदं करोत्यथैष वायव्यश्वेतस्तूपरस्सर्वान् वा एष पशून् प्रत्यालभ्यते यत्तूपरोऽश्वं तेन पशूनां प्रत्यालभ्यते यच्छ्मश्रुणः पुरुषं तेन यदष्टाशफोऽष्टाशफान् पशूँस्तेन नियुत्वती याज्यानुवाक्ये कुर्याद्यजमानस्य धृत्या अनुन्मादाय यन्न नियुत्वती स्यातामुद्वा माद्येद्यजमानः प्र वा पतेद्वायुमती शुक्रवती वायुर्वा अग्नेस्तेजस्तस्माद्यद्र्यङ्वातो वाति तदग्निरन्वेति स्वमेव तत् तेजोऽन्वेति वायुर्वै पशूनां प्रियं धाम प्राणो वायुर्यद्वायव्य एतमेवैनमभिसंजानानाः पशव उपतिष्ठन्ते वायव्या कार्या३ प्राजापत्या३ इति मीमाँसन्ते यद्वायव्यां कुर्यात् प्रजापतेरियाद्यत् प्राजापत्यां वायोरियाद्य एवं कश्चाग्नौ पशुरालभ्यते तस्याग्नये वैश्वानराय पुरोडाशं कुर्याद्यद्वायव्यः पशुस्तेन वायोर्नैति यत् प्राजापत्यः पुरोडाशस्तेन प्रजापतेर्नैति यद् द्वादशकपालो द्वादशमासस्संवत्सरस्संवत्सरोऽग्निर्वैश्वानरस्तेन वैश्वानरत्वान्नैति ॥८॥
 
आग्नावैष्णवमेकादशकपालं निर्वपत्यग्निर्वै सर्वा देवता विष्णुर्यज्ञो देवताश्चैव यज्ञं चालभते मुखं वै देवानामग्निः परोऽन्तो विष्णुर्यज्ञस्यैवान्तौ समग्रहीदथादित्येभ्यो घृते चरुरादित्या वा इत उत्तमा अमुं लोकमायन्नादित्या इमाः प्रजा आदित्यानां नेदिष्ठिनीस्स्वामेव देवतामुपैति घृते भवति घृतभागा ह्यादित्या अथाग्नये वैश्वानराय द्वादशकपालस्संवत्सरो वा अग्निर्वैश्वानरो द्वादशमासस्संवत्सरस्संवत्सरस्याप्त्यै ।। योऽयोनिमग्निं चिनुते यजमानस्य योनिमनु प्रविशति स एनं निर्दहति संवत्सरो वा अग्निर्वैश्वानरस्संवत्सरोऽग्नेर्योनिर्यदग्नये वैश्वानराय योनिमन्तमेवैनं चिनुत एषा वा अग्नेः प्रिया तनूर्या वैश्वानरी यदग्नये वैश्वानराय प्रियाया एवास्य तन्वे हविष्कृत्वा प्रियां तन्वमादत्ते कामो वा अग्निर्वैश्वानरो यदग्नये वैश्वानराय निर्वपत्यश्नुते तं कामं यस्मै कामाय दीयते यद् द्वादशकपालो द्वादशमासस्संवत्सरो या वै प्रजा भ्रँशन्ते संवत्सरात् ता भ्रँशन्ते याः प्रतितिष्ठन्ति संवत्सरे ताः प्रतितिष्ठन्ति संवत्सर एव प्रतिष्ठायाग्निं बिभर्ति ॥९॥
 
षडाधीतयजूँषि जुहोति षड्वा ऋतव ऋतुभिरेवैनं दीक्षयत्यृतुभिरस्या वीर्यमुद्यच्छते सप्तैतानि जुहोति सप्त प्राणाः प्राणैरेवैनं दीक्षयति नाना जुहोति तस्मान्नानावीर्याः प्राणाश्चक्षुश्श्रोत्रं वागनुष्टभोत्तमं जुहोति वाग्वा अनुष्टुब् वाचमेवोत्तमां दधाति तस्माद्वाक् प्राणानामुत्तमा विहितं वदत्यनुष्टुब् वै सर्वाणि च्छन्दाँसि पशवश्छन्दाँस्यन्नं पशवः पशूनेवान्नाद्यमवरुन्द्धे यज्ज्योतिषि प्रवृणक्ति भूतं तेनावरुन्द्धे यदङ्गारेषु भविष्यत् तेनाङ्गारेषु प्रवृज्या भविष्यद्धि भूयो भूतान्मा सु भित्था मा सु रिष इति दृँहत्येवैनामरिष्टा त्वमुदिहि यज्ञे अस्मिन्निति समष्ट्यै द्वाभ्यां प्रवृणक्ति द्विपाद्यजमानः प्रतिष्ठित्यै ॥ परीध्या बुभूषतो गर्भो दीक्षितोऽत इव वा एष भवत्यत एवैनं जनयति मथित्वा गतश्रेरवदध्याद्भूतो हि स स्वामेव देवतामुपैत्यन्यत आहृत्यावदध्याद्यं कामयेत भ्रातृव्यमस्मै जनयेयमिति भ्रातृव्यमेवास्मै जनयति भृज्जनादवदध्यादन्नकामस्य भृज्जने वा अन्नं क्रियते सयोन्येवान्नमवरुन्द्धे यो वृक्ष उपरि दीप्येत तस्यावदध्यात् स्वर्गकामस्यैष वा अग्नीनाँ स्वर्ग्यस्स्वर्गस्य लोकस्य समष्ट्यै द्र्वनस्सर्पिरासुतिरिति कृमुकं लिखितं घृतेनाक्त्वावदधात्यग्नेर्वै प्रिया तनूस्तया कृमुकं प्राविशत् तेजो घृतं प्रियामेवास्य तन्वं तेजसा समनक्ति मुञ्जानवदधात्यूर्ग्वै मुञ्जा ऊर्जमेवास्मा अपिदधाति परस्या अधि संवत इत्यौदुम्बरीमूर्ग्वा उदुम्बर ऊर्जमेवास्मा अपिदधाति परमस्याः परावत इति वैकङ्कतीमग्नेर्वै सृष्टस्य विकङ्कतं भा आर्छत् तदेवावरुन्द्धे यदग्ने कानि कानि चेति न ह स्म वै पुराग्निरपरशुवृक्णं दहति तदस्मा एताभिः प्रयोग ऋषिरस्वदयद्यदेताभिस्समिध आदधातीध्ममेवास्मै स्वदयति स्वदितमस्यान्नं भवति य एवं वेद च्छन्दाँसि वा अग्नेर्योनिर्यच्छन्दोभिरादधाति स्वेनैवैनं योनिनानुबिभर्ति रात्रीं रात्रीमप्रयावं भरन्त इत्याशिषमेवाशास्ते नाभा पृथिव्यास्समिधानो अग्निमिति पृतना एवैतया जयति । यास्सेना अभीत्वरीरित्यग्निं वै जातं रक्षाँस्यजिघाँसँस्ते देवा एता ऋचोऽपश्यँस्ताभिरस्माद्रक्षाँस्यपाघ्नन् यदेताभिस्समिध आदधाति रक्षसामपहत्या अथैतन्मालिम्लवं देवाश्च वा असुराश्चास्पर्धन्त ते देवा एतन्मालिम्लवमपश्यँस्तेनासुरानभ्यभवन् यदेतेन समिध आदधाति भ्रातृव्यस्याभिभूत्यै तस्माद्याँ समामग्निं चिन्वन्ति ग्राहुकास्स्तेनं भवन्ति यास्सेना अभीत्वरीरित्यौदुम्बरीं देवा वै यत्रोर्जं व्यभजन्त तत उदुम्बरोऽजायत जातायैवास्मा ऊर्जमपिदधाति दँष्ट्राभ्यां मलिम्लूनग्न इत्याश्वत्थीमेष वै वनस्पतीनाँ सपत्नसाहो विजित्यै यर्हि दँष्ट्राभ्यामिति ब्रूयाद्यं द्विष्यात् तं मनसा ध्यायेन्मनो वै वाचः क्षेपीय आहुतिमेवैनं भूतामग्नयेऽपिदधाति ये जनेषु मलिम्लव इति वैकङ्कतीमग्नेर्वै सृष्टस्य विकङ्कतं भा आर्छत् तदेवावरुन्द्धे यो अस्मभ्यमरातीयादिति