"ऋग्वेदः सूक्तं १.१२५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४३:
तेन । प्रऽजाम् । वर्धयमानः । आयुः । रायः । पोषेण । सचते । सुऽवीरः ॥१
 
अत्रेतिहासमाचक्षते । दैर्घतमसः कक्षीवान्नाम ऋषिः ब्रह्मचर्यं चरिष्यन् वेदाभ्यासाय गुरुकुले चिरकालमुषित्वा वेदान् सम्यगधीत्य व्रतानि च चरित्वा तेनानुज्ञातः पुनः स्वगृहं प्रति प्रयास्यन् मध्ये मार्गे रात्रौ विश्रान्तः । प्रभाते भावयव्यस्य पुत्रः स्वनयो नाम राजा अनुचरैः संक्रीडमानः अकस्मात् कक्षीवतः अन्तिकमाससाद । स च रभसा प्रतिबुद्धः सहसोत्तस्थौ । तं च राजा पाणिं गृहीत्वा स्वकीये आसने उपवेश्य अस्य सौन्दर्यमवगत्य स्वकन्याप्रदानमनाः पप्रच्छ भगवन् कस्य पुत्रः किंनामा त्वमिति । स च पृष्टो मातरं पितरं च स्ववृत्तान्तं च आचचक्षे। स च राजा संभाव्यः इत्यवगत्य मुदितमनाः स्वगृहं प्राप्य अस्मै मधुपर्कमारचय्य वस्त्रमाल्यादिभिः पूजयित्वा सरथा दश कन्याः शतनिष्कानश्वशतं पुंगवानां शतं गवां षष्ट्युत्तरसहस्रं पुनरेकादशरथांश्च प्रादात् । स च सर्वमनुक्रमेण प्रतिगृह्य दीर्घतमसोऽन्तिकमागत्य तस्मै प्रादर्शयत् ।। ननु कक्ष्या नाम अश्वबन्धनी रज्जुः । तद्वान् कक्षीवान् । अश्वबन्धनं च राज्ञ एवोचितम् । अतोऽस्य राजन्यत्वात् प्रतिग्रहो नोपपद्यते । याजनाध्यापने चैव विशुद्धाच्च प्रतिग्रहः ' ( मनु. १०. ७६ ) इत्युक्तत्वात् । तस्मात् ब्राह्मणस्यैवाधिकारो न तु क्षत्रियस्येति । नैष दोषः । यद्यप्यसौ कलिङ्गाख्यस्य राज्ञः पुत्रस्तथापि तेन कलिङ्गेन स्वयं वृद्धत्वात् अपत्योत्पादनाय सामर्थ्यमलभमानेन तदुत्पादनाय याचितो दीर्घतमा ऋषिः उशिग्नामिकाम् अपत्योत्पादनाय प्रेषितया राजमहिष्या अतिजरटेन महर्षिणा सह रन्तुं लज्जमानया स्ववस्त्राभरणैरलंकृत्य स्वप्रतिनिधित्वेन प्रेषिताम् उशिग्नामिकां योषितं दासीमित्यवगत्य मन्त्रपूतेन जलेनाभिषिच्य ऋषिपुत्रीं कृत्वा तया सह रेमे । तदुत्पन्नः कक्षीवान्नाम ऋषिः । एतत्सर्वमस्माभिः पूर्वाध्याये नासत्याभ्याम् ( ऋ. सं. [[ऋग्वेदः सूक्तं १.११६|१. ११६]] ) इत्यत्र सूक्ते विस्तरेण प्रतिपादितम् । अतः अस्य क्षत्रियसंबन्धात् कक्षीवानिति नाम उपपन्नम्। दीर्घतमसः परमर्षेः उत्पन्नत्वेन ब्राह्मणत्वात् प्रतिग्रहोऽपि उपपन्न एव । इदमादि सूक्तद्वयं स्वनयस्य राज्ञो दानप्रशंसाख्यानप्रतिपादकम् । ननु अनुक्रमण्यां ' स्वनयस्य दानस्तुतिः' इति ‘ दानतुष्टो भावयव्यं तुष्टाव ' इति चोभयत्र स्तोतव्यं भिन्नमेवानुगम्यते इत्युच्यते । उत्तरसूक्तस्य प्रथमायाम् ऋचि ‘ अधिक्षियतो भाव्यस्य ' इति दातुर्भावयव्यस्य श्रूयमाणत्वात् तत्प्राथम्यमुपजीव्य पृथगुपात्तम् । वस्तुतस्तु पितुर्नाम्ना पुत्रस्य व्यवहर्तव्यत्वात् तथा ' आ रुद्रासः' इत्यादौ बहुशः प्रयोगदर्शनात् ‘स्वनयेन दत्ता' इति तत्रैव सूक्ते स्वनयस्यापि श्रूयमाणत्वाच्च उभयत्रापि दातृप्रतिग्रहीत्रोरेकत्वेनैकमेव दानप्रशंसारूपमाख्यानमिति प्रसिद्धम् । स च कक्षीवान् आनीतं सर्वं पितुर्निवेदयन् परोक्षेणैव दानप्रकारं प्रशंसति । स्वनयो नाम राजा “प्रातरित्वा प्रातरेव आत्मनः सकाशमागतः सन् “रत्नं रमणीयं निष्कादिकं “प्रातः प्रभातकाले “दधाति अस्मत्संनिधौ स्थापयति ददाति । “तं स्थापितं सर्वं “चिकित्वान् चेतनावान् अदुष्टमित्यवगतवान् “प्रतिगृह्य स्वीकृत्य “नि “धत्ते । पितुः समीपे स्थापयति । अनन्तरं “तेन दत्तेन निष्कादिना “प्रजां पुत्रभृत्यादिरूपां “वर्धयमानः पोषयन् “आयुः जीवितं च वर्धयन् “सुवीरः शोभनैर्वीरैः पुत्रभृत्यादिभिरुपेतः सन् “रायस्पोषेण धनानां पुनःपुनर्वर्धनेन “सचते । असौ राजा संगच्छतामिति तव दातुराशिषं प्रार्थयते ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१२५" इत्यस्माद् प्रतिप्राप्तम्