"ऋग्वेदः सूक्तं १०.९०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४३७:
एषा ऋचा ऋग्वेदे [[ऋग्वेदः सूक्तं १.१६४|१.१६४.५०]] अपि विद्यमाना अस्ति। अस्याः सायणभाष्ये कथनमस्ति यत् आदित्याश्चैवेहासन्नङ्गिरसश्च तेऽग्रेऽग्निनाग्निमयजन्त ते स्वर्गं लोकमायन्'(ऐ. ब्रा. [[ऐतरेय ब्राह्मणम्/पञ्चिका १ (प्रथम पञ्चिका)|१. १६]])
}}। यथा विदितमस्ति, अङ्गिरसां यज्ञः मन्दगत्या प्रचलति, श्वःसुत्यया, आदित्यानां त्वरितगत्या, अद्यसुत्यया। अतएव अयं संभवमस्ति यत् यज्ञेन यज्ञं शब्दौ मन्दगति एवं तीव्रगतियज्ञयोः वाचकौ स्तः। तैत्तिरीयब्राह्मणं [[तैत्तिरीयब्राह्मणम् (विस्वरपाठः)/काण्डः ३/प्रपाठकः ०९|३.९.१९]] तः संकेतं मिलति यत् एकः यज्ञः निष्कामयज्ञः अस्ति, द्वितीयः कामनापरकः।
 
ऋग्वेद [[ऋग्वेदः सूक्तं १.१६४|१.१६४.४३]] ऋचा अस्ति - शकमयं धूममारादपश्यं विषूवता पर एनावरेण । उक्षाणं पृश्निमपचन्त वीरास्तानि धर्माणि प्रथमान्यासन् ॥४३॥ अत्र कथनमस्ति - उक्षाणं पृश्निमपचन्त वीरास्तानि धर्माणि प्रथमानि आसन्। अयं अर्धर्चः यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् इति अर्धर्चस्य तुल्यं अस्ति। सायणभाष्यानुसारेण उक्षा - फलसेचनसमर्थः। जगद्व्यवहारे बहवः कार्याः, अनुष्ठानाः भवन्ति ये त्वरितफलदायकाः सन्ति। धारणा अस्ति यत् शक्तिपूजा त्वरितफलदायी अस्ति, न शिवपूजा। डा. [https://commons.wikimedia.org/wiki/File:Dr._Fatah_Singh.jpg फतहसिंहानुसारेण] पृश्निशब्दः चित्र-विचित्रस्य, जगद्व्यवहारस्य बोधकः अस्ति। नायं सात्त्विकव्यवहारः। किन्तु या संसारव्यवहारस्य प्रथमानुभूतिः अस्ति, तत् मिथ्या नास्ति, तस्याः पाचनं, परिपाकं एव यज्ञमस्ति। एते धर्माः प्रथमानि सन्ति। काशिकानुसारेण धर्मशब्दः पुंल्लिंगः अस्ति, धर्माणि नपुंसकः।
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.९०" इत्यस्माद् प्रतिप्राप्तम्