"ऋग्वेदः सूक्तं ३.१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ६८:
सोम॑स्य मा त॒वसं॒ वक्ष्य॑ग्ने॒ वह्निं॑ चकर्थ वि॒दथे॒ यज॑ध्यै ।
 
दे॒वाँ अच्छा॒ दीद्य॑द्यु॒ञ्जे अद्रिं॑ शमा॒ये अ॑ग्ने त॒न्वं॑ जुषस्व ॥१
 
सोम॑स्य । मा॒ । त॒वस॑म् । वक्षि॑ । अ॒ग्ने॒ । वह्नि॑म् । च॒क॒र्थ॒ । वि॒दथे॑ । यज॑ध्यै ।
 
दे॒वान् । अच्छ॑ । दीद्य॑त् । यु॒ञ्जे । अद्रि॑म् । श॒म्ऽआ॒ये । अ॒ग्ने॒ । त॒न्व॑म् । जु॒ष॒स्व॒ ॥१
 
सोम॑स्य । मा। तवसं । वक्षि । अग्ने। वह्निं । चकर्थ। विदथे । यजध्यै।।
Line ७९ ⟶ ८३:
प्राञ्चं॑ य॒ज्ञं च॑कृम॒ वर्ध॑तां॒ गीः स॒मिद्भि॑र॒ग्निं नम॑सा दुवस्यन् ।
 
दि॒वः श॑शासुर्वि॒दथा॑ कवी॒नां गृत्सा॑य चित्त॒वसे॑ गा॒तुमी॑षुः ॥२
 
प्राञ्च॑म् । य॒ज्ञम् । च॒कृ॒म॒ । वर्ध॑ताम् । गीः । स॒मित्ऽभिः॑ । अ॒ग्निम् । नम॑सा । दु॒व॒स्य॒न् ।
 
दि॒वः । श॒शा॒सुः॒ । वि॒दथा॑ । क॒वी॒नाम् । गृत्सा॑य । चि॒त् । त॒वसे॑ । गा॒तुम् । ई॒षुः॒ ॥२
 
प्रांचं । यज्ञं । चकृम। वर्धतां । गीः । समित्ऽभिः। अग्निं । नमसा । दुवस्यन्।
Line ९० ⟶ ९८:
मयो॑ दधे॒ मेधि॑रः पू॒तद॑क्षो दि॒वः सु॒बन्धु॑र्ज॒नुषा॑ पृथि॒व्याः ।
 
अवि॑न्दन्नु दर्श॒तम॒प्स्व१॒॑न्तर्दे॒वासो॑ अ॒ग्निम॒पसि॒ स्वसॄ॑णाम् ॥३
 
मयः॑ । द॒धे॒ । मेधि॑रः । पू॒तऽद॑क्षः । दि॒वः । सु॒ऽबन्धुः॑ । ज॒नुषा॑ । पृ॒थि॒व्याः ।
 
अवि॑न्दन् । ऊं॒ इति॑ । द॒र्श॒तम् । अ॒प्ऽसु । अ॒न्तः । दे॒वासः॑ । अ॒ग्निम् । अ॒पसि॑ । स्वसॄ॑णाम् ॥३
 
मयः। दधे। मेधिरः। पूतऽदक्षः। दिवः। सुऽबंधुः । जनुषा। पृथिव्याः ।।
Line १०१ ⟶ ११३:
अव॑र्धयन्सु॒भगं॑ स॒प्त य॒ह्वीः श्वे॒तं ज॑ज्ञा॒नम॑रु॒षं म॑हि॒त्वा ।
 
शिशुं॒ न जा॒तम॒भ्या॑रु॒रश्वा॑ दे॒वासो॑ अ॒ग्निं जनि॑मन्वपुष्यन् ॥४
 
अव॑र्धयन् । सु॒ऽभग॑म् । स॒प्त । य॒ह्वीः । श्वे॒तम् । ज॒ज्ञा॒नम् । अ॒रु॒षम् । म॒हि॒ऽत्वा ।
 
शिशु॑म् । न । जा॒तम् । अ॒भि । आ॒रुः॒ । अश्वाः॑ । दे॒वासः॑ । अ॒ग्निम् । जनि॑मन् । व॒पु॒ष्य॒न् ॥४
 
अवर्धयन्। सुऽभगं । सप्त। यह्वीः। श्वेतं । जज्ञानं । अरुषं । महिऽत्वा ।
Line ११२ ⟶ १२८:
शु॒क्रेभि॒रङ्गै॒ रज॑ आतत॒न्वान्क्रतुं॑ पुना॒नः क॒विभिः॑ प॒वित्रैः॑ ।
 
शो॒चिर्वसा॑न॒ः पर्यायु॑र॒पां श्रियो॑ मिमीते बृह॒तीरनू॑नाः ॥५
 
शु॒क्रेभिः॑ । अङ्गैः॑ । रजः॑ । आ॒ऽत॒त॒न्वान् । क्रतु॑म् । पु॒ना॒नः । क॒विऽभिः॑ । प॒वित्रैः॑ ।
 
शो॒चिः । वसा॑नः । परि॑ । आयुः॑ । अ॒पाम् । श्रियः॑ । मि॒मी॒ते॒ । बृ॒ह॒तीः । अनू॑नाः ॥५
 
शुक्रेभिः । अंगैः। रजः । आऽततन्वान्। क्रतुं । पुनानः। कविऽभिः । पवित्रैः ।
Line १२३ ⟶ १४३:
व॒व्राजा॑ सी॒मन॑दती॒रद॑ब्धा दि॒वो य॒ह्वीरव॑साना॒ अन॑ग्नाः ।
 
सना॒ अत्र॑ युव॒तय॒ः सयो॑नी॒रेकं॒ गर्भं॑ दधिरे स॒प्त वाणीः॑ ॥६
 
व॒व्राज॑ । सी॒म् । अन॑दतीः । अद॑ब्धाः । दि॒वः । य॒ह्वीः । अव॑सानाः । अन॑ग्नाः ।
 
सनाः॑ । अत्र॑ । यु॒व॒तयः॑ । सऽयो॑नीः । एक॑म् । गर्भ॑म् । द॒धि॒रे॒ । स॒प्त । वाणीः॑ ॥६
 
वव्राज। सीं । अनदतीः । अदब्धाः। दिवः। यह्वीः। अवसानाः । अनग्नाः।
Line १३५ ⟶ १५९:
स्ती॒र्णा अ॑स्य सं॒हतो॑ वि॒श्वरू॑पा घृ॒तस्य॒ योनौ॑ स्र॒वथे॒ मधू॑नाम् ।
 
अस्थु॒रत्र॑ धे॒नव॒ः पिन्व॑माना म॒ही द॒स्मस्य॑ मा॒तरा॑ समी॒ची ॥७
 
स्ती॒र्णाः । अ॒स्य॒ । स॒म्ऽहतः॑ । वि॒श्वऽरू॑पाः । घृ॒तस्य॑ । योनौ॑ । स्र॒वथे॑ । मधू॑नाम् ।
स्तीर्णाः । अस्य। संऽहतः । विश्वरूपाः । घृतस्य । योनौ । स्रवथे । मधूनां ।।
 
अस्थुः॑ । अत्र॑ । धे॒नवः॑ । पिन्व॑मानाः । म॒ही इति॑ । द॒स्मस्य॑ । मा॒तरा॑ । स॒मी॒ची इति॑ स॒म्ऽई॒ची ॥७
 
स्तीर्णाः । अस्य। संऽहतः । विश्वरूपाः । घृतस्य । योनौ । स्रवथे । मधूनां ।।
 
अस्थुः । अत्र । धेनवः । पिन्वमानाः । मही इति । दस्मस्य । मातरा। समीची इति संऽईची ॥७॥
Line १४६ ⟶ १७४:
ब॒भ्रा॒णः सू॑नो सहसो॒ व्य॑द्यौ॒द्दधा॑नः शु॒क्रा र॑भ॒सा वपूं॑षि ।
 
श्चोत॑न्ति॒ धारा॒ मधु॑नो घृ॒तस्य॒ वृषा॒ यत्र॑ वावृ॒धे काव्ये॑न ॥८
 
ब॒भ्रा॒णः । सू॒नो॒ इति॑ । स॒ह॒सः॒ । वि । अ॒द्यौ॒त् । दधा॑नः । शु॒क्रा । र॒भ॒सा । वपूं॑षि ।
 
श्चोत॑न्ति । धाराः॑ । मधु॑नः । घृ॒तस्य॑ । वृषा॑ । यत्र॑ । व॒वृ॒धे । काव्ये॑न ॥८
 
बभ्राणः । सूनो इति। सहसः । वि। अद्यौत् । दधानः । शुक्रा। रभसा । वपूंषि।
Line १५७ ⟶ १८९:
पि॒तुश्चि॒दूध॑र्ज॒नुषा॑ विवेद॒ व्य॑स्य॒ धारा॑ असृज॒द्वि धेनाः॑ ।
 
गुहा॒ चर॑न्तं॒ सखि॑भिः शि॒वेभि॑र्दि॒वो य॒ह्वीभि॒र्न गुहा॑ बभूव ॥९
 
पि॒तुः । चि॒त् । ऊधः॑ । ज॒नुषा॑ । वि॒वे॒द॒ । वि । अ॒स्य॒ । धाराः॑ । अ॒सृ॒ज॒त् । वि । धेनाः॑ ।
 
गुहा॑ । चर॑न्तम् । सखि॑ऽभिः । शि॒वेभिः॑ । दि॒वः । य॒ह्वीभिः॑ । न । गुहा॑ । ब॒भू॒व॒ ॥९
 
पितुः । चित् । ऊधः । जनुषा। विवेद। वि। अस्य। धाराः । असृजत् । वि। धेनाः ।
Line १६८ ⟶ २०४:
पि॒तुश्च॒ गर्भं॑ जनि॒तुश्च॑ बभ्रे पू॒र्वीरेको॑ अधय॒त्पीप्या॑नाः ।
 
वृष्णे॑ स॒पत्नी॒ शुच॑ये॒ सब॑न्धू उ॒भे अ॑स्मै मनु॒ष्ये॒३॒॑ नि पा॑हि ॥१०
 
पि॒तुः । च॒ । गर्भ॑म् । ज॒नि॒तुः । च॒ । ब॒भ्रे॒ । पू॒र्वीः । एकः॑ । अ॒ध॒य॒त् । पीप्या॑नाः ।
 
वृष्णे॑ । स॒पत्नी॒ इति॑ स॒ऽपत्नी॑ । शुच॑ये । सब॑न्धू॒ इति॒ सऽब॑न्धू । उ॒भे इति॑ । अ॒स्मै॒ । म॒नु॒ष्ये॒३॒॑ इति॑ । नि । पा॒हि॒ ॥१०
 
पितुः । च । गर्भं। जनितुः । च। बभ्रे। पूर्वीः । एकः । अधयत् । पीप्यानाः ।
Line १७९ ⟶ २१९:
उ॒रौ म॒हाँ अ॑निबा॒धे व॑व॒र्धापो॑ अ॒ग्निं य॒शस॒ः सं हि पू॒र्वीः ।
 
ऋ॒तस्य॒ योना॑वशय॒द्दमू॑ना जामी॒नाम॒ग्निर॒पसि॒ स्वसॄ॑णाम् ॥११
 
उ॒रौ । म॒हान् । अ॒नि॒ऽबा॒धे । व॒व॒र्ध॒ । आपः॑ । अ॒ग्निम् । य॒शसः॑ । सम् । हि । पू॒र्वीः ।
 
ऋ॒तस्य॑ । योनौ॑ । अ॒श॒य॒त् । दमू॑नाः । जा॒मी॒नाम् । अ॒ग्निः । अ॒पसि॑ । स्वसॄ॑णाम् ॥११
 
उरौ। महान् । अनिऽबाधे । ववर्ध। आपः । अग्निं । यशसः । सं। हि । पूर्वीः ।
Line १९० ⟶ २३४:
अ॒क्रो न ब॒भ्रिः स॑मि॒थे म॒हीनां॑ दिदृ॒क्षेयः॑ सू॒नवे॒ भाऋ॑जीकः ।
 
उदु॒स्रिया॒ जनि॑ता॒ यो ज॒जाना॒पां गर्भो॒ नृत॑मो य॒ह्वो अ॒ग्निः ॥१२
 
अ॒क्रः । न । ब॒भ्रिः । स॒म्ऽइ॒थे । म॒हीना॑म् । दि॒दृ॒क्षेयः॑ । सू॒नवे॑ । भाःऽऋ॑जीकः ।
 
उत् । उ॒स्रियाः॑ । जनि॑ता । यः । ज॒जान॑ । अ॒पाम् । गर्भः॑ । नृऽत॑मः । य॒ह्वः । अ॒ग्निः ॥१२
 
अक्रः । न। बभ्रिः । संऽइथे। महीनां। दिदृक्षेयः । सूनवे । भाःऽऋजीकः ।
Line २०१ ⟶ २४९:
अ॒पां गर्भं॑ दर्श॒तमोष॑धीनां॒ वना॑ जजान सु॒भगा॒ विरू॑पम् ।
 
दे॒वास॑श्चि॒न्मन॑सा॒ सं हि ज॒ग्मुः पनि॑ष्ठं जा॒तं त॒वसं॑ दुवस्यन् ॥१३
 
अ॒पाम् । गर्भ॑म् । द॒र्श॒तम् । ओष॑धीनाम् । वना॑ । ज॒जा॒न॒ । सु॒ऽभगा॑ । विऽरू॑पम् ।
 
दे॒वासः॑ । चि॒त् । मन॑सा । सम् । हि । ज॒ग्मुः । पनि॑ष्ठम् । जा॒तम् । त॒वस॑म् । दु॒व॒स्य॒न् ॥१३
 
अपां। गर्भं। दर्शतं । ओषधीनां । वना। जजान । सुऽभगा। विऽरूपं ।
Line २१२ ⟶ २६४:
बृ॒हन्त॒ इद्भा॒नवो॒ भाऋ॑जीकम॒ग्निं स॑चन्त वि॒द्युतो॒ न शु॒क्राः ।
 
गुहे॑व वृ॒द्धं सद॑सि॒ स्वे अ॒न्तर॑पा॒र ऊ॒र्वे अ॒मृतं॒ दुहा॑नाः ॥१४
 
बृ॒हन्तः॑ । इत् । भा॒नवः॑ । भाःऽऋ॑जीकम् । अ॒ग्निम् । स॒च॒न्त॒ । वि॒ऽद्युतः॑ । न । शु॒क्राः ।
 
गुहा॑ऽइव । वृ॒द्धम् । सद॑सि । स्वे । अ॒न्तः । अ॒पा॒रे । ऊ॒र्वे । अ॒मृत॑म् । दुहा॑नाः ॥१४
 
बृहंतः । इत्। भानवः। भाःऽऋजीजीकं । अग्निं। सचंत । विद्युतः। न। शुक्राः ।।
Line २२३ ⟶ २७९:
ईळे॑ च त्वा॒ यज॑मानो ह॒विर्भि॒रीळे॑ सखि॒त्वं सु॑म॒तिं निका॑मः ।
 
दे॒वैरवो॑ मिमीहि॒ सं ज॑रि॒त्रे रक्षा॑ च नो॒ दम्ये॑भि॒रनी॑कैः ॥१५
 
ईळे॑ । च॒ । त्वा॒ । यज॑मानः । ह॒विःऽभिः॑ । ईळे॑ । स॒खि॒ऽत्वम् । सु॒ऽम॒तिम् । निऽका॑मः ।
 
दे॒वैः । अवः॑ । मि॒मी॒हि॒ । सम् । ज॒रि॒त्रे । रक्ष॑ । च॒ । नः॒ । दम्ये॑भिः । अनी॑कैः ॥१५
 
ईळे। च। त्वा । यजमानः । हविःऽभिः। ईळे। सखिऽत्वं । सुऽमतिं । निऽकामः ।
Line २३४ ⟶ २९४:
उ॒प॒क्षे॒तार॒स्तव॑ सुप्रणी॒तेऽग्ने॒ विश्वा॑नि॒ धन्या॒ दधा॑नाः ।
 
सु॒रेत॑सा॒ श्रव॑सा॒ तुञ्ज॑माना अ॒भि ष्या॑म पृतना॒यूँरदे॑वान् ॥१६
 
उ॒प॒ऽक्षे॒तारः॑ । तव॑ । सु॒ऽप्र॒नी॒ते॒ । अ॒ग्ने॒ । विश्वा॑नि । धन्या॑ । दधा॑नाः ।
 
सु॒ऽरेत॑सा । श्रव॑सा । तुञ्ज॑मानाः । अ॒भि । स्या॒म॒ । पृ॒त॒ना॒ऽयून् । अदे॑वान् ॥१६
 
उपऽक्षेतारः । तव । सुऽप्रनीते । अग्ने । विश्वानि । धन्या । दधानाः ।
Line २४५ ⟶ ३०९:
आ दे॒वाना॑मभवः के॒तुर॑ग्ने म॒न्द्रो विश्वा॑नि॒ काव्या॑नि वि॒द्वान् ।
 
प्रति॒ मर्ताँ॑ अवासयो॒ दमू॑ना॒ अनु॑ दे॒वान्र॑थि॒रो या॑सि॒ साध॑न् ॥१७
 
आ । दे॒वाना॑म् । अ॒भ॒वः॒ । के॒तुः । अ॒ग्ने॒ । म॒न्द्रः । विश्वा॑नि । काव्या॑नि । वि॒द्वान् ।
 
प्रति॑ । मर्ता॑न् । अ॒वा॒स॒यः॒ । दमू॑नाः । अनु॑ । दे॒वान् । र॒थि॒रः । या॒सि॒ । साध॑न् ॥१७
 
आ। देवानां । अभवः । केतुः । अग्ने। मंद्रः। विश्वानि । काव्यानि । विद्वान्।
Line २५६ ⟶ ३२४:
नि दु॑रो॒णे अ॒मृतो॒ मर्त्या॑नां॒ राजा॑ ससाद वि॒दथा॑नि॒ साध॑न् ।
 
घृ॒तप्र॑तीक उर्वि॒या व्य॑द्यौद॒ग्निर्विश्वा॑नि॒ काव्या॑नि वि॒द्वान् ॥१८
 
नि । दु॒रो॒णे । अ॒मृतः॑ । मर्त्या॑नाम् । राजा॑ । स॒सा॒द॒ । वि॒दथा॑नि । साध॑न् ।
 
घृ॒तऽप्र॑तीकः । उ॒र्वि॒या । वि । अ॒द्यौ॒त् । अ॒ग्निः । विश्वा॑नि । काव्या॑नि । वि॒द्वान् ॥१८
 
नि । दुरोणे । अमृतः । मर्त्यानां । राजा । ससाद । विदथानि । साधन् ।
Line २६७ ⟶ ३३९:
आ नो॑ गहि स॒ख्येभिः॑ शि॒वेभि॑र्म॒हान्म॒हीभि॑रू॒तिभिः॑ सर॒ण्यन् ।
 
अ॒स्मे र॒यिं ब॑हु॒लं संत॑रुत्रं सु॒वाचं॑ भा॒गं य॒शसं॑ कृधी नः ॥१९
 
आ । नः॒ । ग॒हि॒ । स॒ख्येभिः॑ । शि॒वेभिः॑ । म॒हान् । म॒हीभिः॑ । ऊ॒तिऽभिः॑ । स॒र॒ण्यन् ।
 
अ॒स्मे इति॑ । र॒यिम् । ब॒हु॒लम् । सम्ऽत॑रुत्रम् । सु॒ऽवाच॑म् । भा॒गम् । य॒शस॑म् । कृ॒धि॒ । नः॒ ॥१९
 
आ। नः। गहि। सख्येभिः। शिवेभिः। महान्। महीभिः। ऊतिऽभिः। सरण्यन् ।
Line २७८ ⟶ ३५४:
ए॒ता ते॑ अग्ने॒ जनि॑मा॒ सना॑नि॒ प्र पू॒र्व्याय॒ नूत॑नानि वोचम् ।
 
म॒हान्ति॒ वृष्णे॒ सव॑ना कृ॒तेमा जन्म॑ञ्जन्म॒न्निहि॑तो जा॒तवे॑दाः ॥२०
 
ए॒ता । ते॒ । अ॒ग्ने॒ । जनि॑म । सना॑नि । प्र । पू॒र्व्याय॑ । नूत॑नानि । वो॒च॒म् ।
 
म॒हान्ति॑ । वृष्णे॑ । सव॑ना । कृ॒ता । इ॒मा । जन्म॑न्ऽजन्मन् । निऽहि॑तः । जा॒तऽवे॑दाः ॥२०
 
एता। ते। अग्ने। जनिम । सनानि । प्र। पूर्व्याय । नूतनानि। वोचं ।।
Line २८९ ⟶ ३६९:
जन्म॑ञ्जन्म॒न्निहि॑तो जा॒तवे॑दा वि॒श्वामि॑त्रेभिरिध्यते॒ अज॑स्रः ।
 
तस्य॑ व॒यं सु॑म॒तौ य॒ज्ञिय॒स्यापि॑ भ॒द्रे सौ॑मन॒से स्या॑म ॥२१
 
जन्म॑न्ऽजन्मन् । निऽहि॑तः । जा॒तऽवे॑दाः । वि॒श्वामि॑त्रेभिः । इ॒ध्य॒ते॒ । अज॑स्रः ।
 
तस्य॑ । व॒यम् । सु॒ऽम॒तौ । य॒ज्ञिय॑स्य । अपि॑ । भ॒द्रे । सौ॒म॒न॒से । स्या॒म॒ ॥२१
 
जन्मन्ऽजन्मन् । निऽहितः । जातऽवेदाः । विश्वामित्रेभिः। इध्यते । अजस्रः ।
Line ३०० ⟶ ३८४:
इ॒मं य॒ज्ञं स॑हसाव॒न्त्वं नो॑ देव॒त्रा धे॑हि सुक्रतो॒ ररा॑णः ।
 
प्र यं॑सि होतर्बृह॒तीरिषो॒ नोऽग्ने॒ महि॒ द्रवि॑ण॒मा य॑जस्व ॥२२
 
इ॒मम् । य॒ज्ञम् । स॒ह॒सा॒ऽव॒न् । त्वम् । नः॒ । दे॒व॒ऽत्रा । धे॒हि॒ । सु॒क्र॒तो॒ इति॑ सुऽक्रतो । ररा॑णः ।
 
प्र । यं॒सि॒ । हो॒तः॒ । बृ॒ह॒तीः । इषः॑ । नः॒ । अ॒ग्ने॒ । महि॑ । द्रवि॑णम् । आ । य॒ज॒स्व॒ ॥२२
 
इमं । यज्ञं। सहसाऽवन्। त्वं । नः । देवऽत्रा। धेहि। सुक्रतो इति सुऽक्रतो । रराणः।
Line ३११ ⟶ ३९९:
इळा॑मग्ने पुरु॒दंसं॑ स॒निं गोः श॑श्वत्त॒मं हव॑मानाय साध ।
 
स्यान्नः॑ सू॒नुस्तन॑यो वि॒जावाग्ने॒ सा ते॑ सुम॒तिर्भू॑त्व॒स्मे ॥२३
 
इळा॑म् । अ॒ग्ने॒ । पु॒रु॒ऽदंस॑म् । स॒निम् । गोः । श॒श्व॒त्ऽत॒मम् । हव॑मानाय । सा॒ध॒ ।
 
स्यात् । नः॒ । सू॒नुः । तन॑यः । वि॒जाऽवा॑ । अ॒ग्ने॒ । सा । ते॒ । सु॒ऽम॒तिः । भू॒तु॒ । अ॒स्मे इति॑ ॥२३
 
इळां । अग्ने । पुरुऽदंसं । सनिं । गोः । शश्वत्ऽतमं । हव॑मानाय । साध।
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.१" इत्यस्माद् प्रतिप्राप्तम्