"ऋग्वेदः सूक्तं १.१३९" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १३३:
पथाऽइव । यन्तौ । अनुऽशासता । रजः । अञ्जसा । शासता । रजः ॥४
 
हे “दस्रा दस्रावश्विनौ “अचेति वक्ष्यमाणं युष्मच्चेष्टितं ज्ञायते सर्वैः । किं तदिति तदुच्यते । “नाकं स्वर्गं “वि “ऋण्वथः विशेषेण गच्छथः ॥ ‘ ऋणु गतौ । तानादिकः । लेटि अडागमः । यज्ञसंपूर्त्यनन्तरमिति यावत् । उशब्दोऽवधारणे । यद्वा । नाकम् । अकं दुःखम् । तद्रहितं यज्ञमृण्वथः। विशेषेण गच्छथ एव । तदर्थं “वां “रथयुजः युष्मत्संबन्धिनो रथस्य योजयितारः सारथथः “दितिष्टिषु“दिविष्टिषु स्वर्गस्यैषणेषु द्योतनात्मकस्य यज्ञस्यैषणेषु गमनेषु वा निमित्तभूतेषु “युञ्जते अश्वान् योजयन्ति रथे । युक्ते रथे वा युष्मान् । ते एव विशेष्यन्ते । दिविष्टिषु दिवो गमनेषु निरालम्बाकाशगमनेषु “अध्वस्मानः रथस्य तदाश्रितस्य च ध्वंसमकुर्वाणाः । किंच हे “दस्रा अश्विनौ “वां युवयोः “बन्धुरे बन्धुरत्रययुक्ते। युगबन्धनाधारः काष्ठविशेषो बन्धुरम् । तादृशत्रययुक्तत्वं रथो यो वां त्रिवन्धुरः' (ऋ. सं. ८. २२. ५) इत्यादिषु प्रसिद्धम् । “हिरण्यये हिरण्मये “रथे “अधि तादृशस्य रथस्योपरि “स्थाम अस्थापयाम ।। छान्दसे लङि ‘ बहुलं छन्दसि ' इति अडभावः। आद्युदात्तश्छान्दसः ॥ कीदृशौ'। “पथेव सुपथेन मार्गेण निरालम्बे आकाशे’ “रजः रञ्जनात्मकं स्वर्गं प्रति “यन्तौ गच्छन्तौ । ‘लोका रजांस्युच्यन्ते । इत्युक्तत्वात् । “अनुशासता अननुकूलाञ्छत्रून् अनुशासतौ विधेयीकुर्वन्तौ ॥ शासेः शतरि • जक्षित्यादयः' इति अभ्यस्तत्वात् ‘ अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् ॥ किंच “अञ्जसा मुख्यत्वेन प्रकृष्टं “रजः उदकं वृष्टिलक्षणं “शासता शासतौ बलाद्विधेयीकुर्वन्तौ ।।
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१३९" इत्यस्माद् प्रतिप्राप्तम्