"ऋग्वेदः सूक्तं ३.१६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ३७:
अ॒यम् । अ॒ग्निः । सु॒ऽवीर्य॑स्य । ईशे॑ । म॒हः । सौभ॑गस्य ।
 
रा॒यः । ई॒शे॒ । सु॒ऽअ॒प॒त्यस्य॑ । गोऽम॑तः । ईशे॑ । वृ॒त्र॒ऽहथा॑नाम् ॥१
 
अयम् । अग्निः । सुऽवीर्यस्य । ईशे । महः । सौभगस्य ।
 
रायः । ईशे । सुऽअपत्यस्य । गोऽमतः । ईशे । वृत्रऽहथानाम् ॥१
 
उत्कीलः स्तौति । “अयं यजनीयत्वेन अङ्गुल्या निर्दिश्यमानः “अग्निः “सुवीर्यस्य शोभन सामर्थ्योपेतस्य “महः महतः “सौभगस्य सौभाग्यस्य "ईशे ईष्टे । ईश्वरो भवति । सर्वस्य बलारोग्यहेतुतया सौभाग्यकारित्वात् । तथा “गोमतः गवादिपशुयुक्तस्य “स्वपत्यस्य शोभनापत्यस्य “रायः धनस्य “ईशे ईष्टे । पुत्रपश्वाद्युद्देशेन क्रियमाणकर्मफलसंपादकत्वेन तत्स्वामित्वात् । तथैवंभूतोऽग्निः “वृत्रहथानाम्। हननं हथः । शत्रुभूतपापविनाशनानामपि “ईशे ईष्टे । त्वयि समर्पितकर्मणामस्माकं त्वत्र्रसादात् पापक्षयो भवतीति तस्यापि स्वामी ॥ ईशे । ‘ ईश ऐश्वर्ये'। अदादित्वाच्छपो लुक् । ‘ लोपस्त आत्मनेपदेषु' इति तलोपः । पादादित्वादनिघातः । सौभगस्य । सुभगस्य भावः सौभगम् । उद्गात्रादित्वादञ् । सर्वविधीनां छन्दसि विकल्पितत्वात् अत्र 'हृद्भग°' इत्यादिना प्राप्ताया उत्तरपदवृद्धेरभावः । रायः । ‘ उडिदम्' इत्यादिना विभक्तेरुदात्तत्वम् । ईशे । निघातः । स्वपत्यस्य । ‘ नञ्सुभ्याम् ' इत्युत्तरपदान्तोदात्तत्वम् । वृत्रहथानाम् । ‘वृतु वर्तने ' । अस्मात् ' स्फायितञ्चिवञ्चि°' इत्यादिना रक्प्रत्ययः । कित्त्वादगुणः । ‘हन हिंसागत्योः' इत्यस्मात् ' हनिकुषिनीरमिकाशिभ्यः' इति क्थन् । कित्त्वादनुनासिक़लोपः । कृदुत्तरपदप्रकृतिस्वरः ॥
पङ्क्तिः ५२:
इ॒मम् । न॒रः॒ । म॒रु॒तः॒ । स॒श्च॒त॒ । वृध॑म् । यस्मि॑न् । रायः॑ । शेऽवृ॑धासः ।
 
अ॒भि । ये । सन्ति॑ । पृत॑नासु । दुः॒ऽध्यः॑ । वि॒श्वाहा॑ । शत्रु॑म् । आ॒ऽद॒भुः ॥२
 
इमम् । नरः । मरुतः । सश्चत । वृधम् । यस्मिन् । रायः । शेऽवृधासः ।
 
अभि । ये । सन्ति । पृतनासु । दुःऽध्यः । विश्वाहा । शत्रुम् । आऽदभुः ॥२
 
“नरः कर्मणां नेतारो हे “मरुतः देवा यूयं “वृधं पशुपुत्रादिवर्धकम् “इमम् अस्माभिः स्तूयमानम् इमम् अग्निं “सश्चत हविरानयनार्थं सेवध्वम् । कीदृशोऽग्निः इत्याकाङ्क्षायामाह। “यस्मिन् देवे “रायः धनानि “शेवृधासः दानभोगाद्युपयोगेन सुखस्य वर्धकानि “अभि अभितः “सन्ति । “ये च देवाः “पृतनासु सेनासु तदुपलक्षितेषु संग्रामेषु “दूढ्यः दुष्टध्यानोपेतानात्मनो हिंसकाञ्छत्रून् अभि सन्ति अभिभवन्ति । ये च “विश्वाहा विश्वान्यहानि यस्मिन्नखण्डे काले तस्मिन् सर्वदा “शत्रुम् आत्मनो द्वेष्टारम् “आदभुः आदभ्नुवन्ति हिंसन्ति । एवंभूतास्ते सर्वे मरुतो यूयं तमिममग्निं सेवध्वमिति पूर्वेणान्वयः॥ सश्चत । षस्ज संगे ' इत्यस्मात् लोटि रूपम् । जकारस्य व्यत्ययेन चकारः । निघातः । शेवृधासः । वर्णव्यत्ययः । शं सुखं वर्धयतीति। असुन्' इत्यसुन् । गुणाभावश्छान्दसः। ‘ गतिकारकयोरपि पूर्वपदप्रकृतिस्वरत्वं च ' इत्यौणादिकसूत्रात् पूर्वपदप्रकृतिस्वरः । सन्ति । ' अस भुवि ' । दूढ्यः । ‘ ध्यै चिन्तायाम् ' । ‘ अन्येभ्योऽपि दृश्यते' इति क्विप् । दृशिग्रहणात्संप्रसारणम् । ‘ दुरो दाशनाशदभध्येषूत्वं वक्तव्यमुत्तरपदादेः ष्टुत्वं च ' इति उत्वढत्वे । ‘ छन्दस्युभयथा' इति शसीयाङादेशं बाधित्वा यणादेशः । कृदुत्तरपदप्रकृतिस्वरेणान्तोदात्तः । शसः सुप्तत्वात् अनुदात्तत्वे कृते ‘ उदात्तस्वरितयोर्यणः इति शसः स्वरितत्वम् । आदभुः । ‘ दम्भु दम्भे' । अस्माल्लिट्युसि रूपम् । श्रन्थिग्रन्थिदम्भिस्वञ्जीनामुपसंख्यानम् ' इति किद्वद्भावादनुनासिकलोपः। ‘ द्विर्वचनप्रकरणे छन्दसि वेति वक्तव्यम् ' ( का. ६. १. ८) इति द्विर्वचनाभावः । यद्वृत्तयोगादनिघातः । ‘ सतिशिष्टस्वरो बलीयान्' इति प्रत्ययस्वरः ॥
पङ्क्तिः ६७:
सः । त्वम् । नः॒ । रा॒यः । शि॒शी॒हि॒ । मीढ्वः॑ । अ॒ग्ने॒ । सु॒ऽवीर्य॑स्य ।
 
तुवि॑ऽद्युम्न । वर्षि॑ष्ठस्य । प्र॒जाऽव॑तः । अ॒न॒मी॒वस्य॑ । शु॒ष्मिणः॑ ॥३
 
सः । त्वम् । नः । रायः । शिशीहि । मीढ्वः । अग्ने । सुऽवीर्यस्य ।
 
तुविऽद्युम्न । वर्षिष्ठस्य । प्रजाऽवतः । अनमीवस्य । शुष्मिणः ॥३
 
हे “अग्ने “सः तथाविधः “त्वं “नः अस्मान् "रायः । तृतीयार्थे षष्ठी । धनेन "शिशीहि तीक्ष्णान् कुरु । अस्मान् धनसमृद्धान् कुरु । किंच "तुविद्युम्न बहुधनोपेत अत एव “मीढ्वः मीढ्वन् कामानां सेक्तः हे अग्ने त्वं “वर्षिष्ठस्य वृद्धतमस्य प्रभूतस्य “प्रजावतः अपत्ययुक्तस्य “अनमीवस्य आरोग्यहेतोः अत एव “शुष्मिणः बलहेतोः “सुवीर्यस्य शोभनसामर्थ्ययुक्तस्य अन्नस्य संबन्धिनोऽस्मान् कुरु । यद्वा । एतत्सर्वं रैविशेषणतया योजनीयम् । एताः षष्य्िस्तृतीयाथें । एतदुक्तं भवति । धनेन अपत्यारोग्यशरीरबलोपेतेन अन्नेन च अस्मान् समृद्धान् कुर्विति ॥ शिशीहि । ‘शिञ् निशाने ' इत्यस्य लोटि ‘ बहुलं छन्दसि' इति विकरणस्य श्लुः। ‘ वा छन्दसि ' इति विकल्पेन ङित्त्वात् ‘अङितश्च' इति हेर्धिरादेशो न भवति । दीर्घश्छान्दसः । निघातः । मीढ्वः । ‘ मिह सेचने ' इत्यस्य क्वसौ ‘दाश्वान्साह्वान्मीढ्वांश्च' इति निपातनात् ढत्वम् उपधादीर्घश्च । संबुद्धौ नुमि कृते हल्ङयादिलोपे संयोगान्तलोपे च कृते ‘ मतुवसो रु° संबुद्धौ छन्दसि ' इति रुः । पादादित्वादाद्युदात्तः ॥
पङ्क्तिः ८२:
चक्रिः॑ । यः । विश्वा॑ । भुव॑ना । अ॒भि । स॒स॒हिः । चक्रिः॑ । दे॒वेषु॑ । आ । दुवः॑ ।
 
आ । दे॒वेषु॑ । यत॑ते । आ । सु॒ऽवीर्ये॑ । आ । शंसे॑ । उ॒त । नृ॒णाम् ॥४
 
चक्रिः । यः । विश्वा । भुवना । अभि । ससहिः । चक्रिः । देवेषु । आ । दुवः ।
 
आ । देवेषु । यतते । आ । सुऽवीर्ये । आ । शंसे । उत । नृणाम् ॥४
 
“यः अयमग्निः “चक्रिः सर्वस्य जगतः कर्ता स च “विश्वा “भुवना विश्वानि भुवनानि “अभि अभिविशति । ‘ तत्सृष्ट्वा तदेवानुप्राविशत् ' ( तै. उ. २. ६ ) इति श्रुतेः । “चक्रिः कर्ता सोऽग्निः “सासहिः पुरोडाशादिहविर्भारसहनशीलः सन् “दुवः अस्माभिर्दत्तं हविः "देवेषु यजनीयदेवेषु “आ आनयति । स चाग्निः “देवेषु देवनशीलेषु स्तोतृषु “आ “यतते आभिमुख्येन गच्छति । यद्वा विश्वानि भुवनानि चक्रिः अभिसासहिरभिभवनशीलः । आकारश्चार्थे । देवेषु च दुवः परिचरणं चक्रिः कर्ता । यः एवंभूतः स आयतते इत्यादि पूर्ववत् । "उत अपि च “नृणां यज्ञस्य नेतॄणां शस्त्रिणां “शंसे । शंसनं शंसः शस्त्रम् । तस्मिन् सोऽग्निः “आ आगच्छति । तथा नृणां मनुष्याणां “सुवीर्ये शोभनवीर्योपेतयुद्धे तद्रक्षणार्थम् “आ आगच्छति । अनेनाग्नेः सर्वव्यापकता प्रतिपादिता भवति ॥ चक्रिः । ‘ डुकृञ् करणे' ।' आदृगमहनजनः किकिनौ लिट् च ' इति किन्प्रत्ययः । लिङ्वद्भावात् द्विर्वचनम् । कित्त्त्वात् गुणाभावः । नित्स्वरः । सासहिः । ‘ षह मर्षणे ' इत्यस्मात् यङन्तात् ‘सहिवहिचलिपतिभ्यो यङन्तेभ्यः किकिनौ ' ( पा. म. ३.२.१७१.४ ) इति किः । प्रत्ययस्वरः । यतते । ‘ यती प्रयत्ने । यद्वृत्तयोगादनिघातः । शंसे। भावे घञ् । ञित्स्वरः । नृणाम् । “नृ च' इति विकल्पेन दीर्घाभावः । ‘ नामन्यतरस्याम् ' इति विभक्तेरुदात्तत्वम् । विश्वेत्यादिषु ‘ न लोकाव्यय ' इति षष्ठीप्रतिषेधः ॥
पङ्क्तिः ९७:
मा । नः॒ । अ॒ग्ने॒ । अम॑तये । मा । अ॒वीर॑तायै । री॒र॒धः॒ ।
 
मा । अ॒गोता॑यै । स॒ह॒सः॒ । पु॒त्र॒ । मा । नि॒दे । अप॑ । द्वेषां॑सि । आ । कृ॒धि॒ ॥५
 
मा । नः । अग्ने । अमतये । मा । अवीरतायै । रीरधः ।
 
मा । अगोतायै । सहसः । पुत्र । मा । निदे । अप । द्वेषांसि । आ । कृधि ॥५
 
“सहसस्पुत्र बलस्य पुत्र हे “अग्ने त्वं “नः अस्मान् “अमतये शत्रुभूताय दारिद्र्याय “मा “रीरधः संसिद्धान् विषयभूतान् मा कुरु। तथा “अवीरतायै अपुत्रतायै । ‘वीरशब्देन तद्वान् लक्ष्यते । वीरस्य भावो वीरता । न वीरता अवीरता । तस्यै । अस्मान् अपुत्रताया विषयभूतान् “मा कुरु । तथा त्वमस्मान् “अगोतायै गवादिपशुसंपत्यभावस्य विषयभूतान “मा कुरु । किंच अस्मान् “निदे निन्दाया विषयभूतान् “मा कुरु मा विधेहि । तथा त्वं “द्वेषांसि कर्मापराधनिमित्तान् द्वेषांश्च “अप “आ “कृधि अपाकुरु निवारय ।। अवीरतायै । वीर अस्य सन्तीति वीरः । अर्शआदित्वादच् । तस्य भावो वीरता । ‘ तस्य भावस्त्वतलौ ' इति तल् । न वीरता अवीरता । नञः स्वरे प्राप्ते ‘ परादिश्छन्दसि बहुलम् ' इति नञुत्तरस्य आदेरुदात्तता । रीरधः । ‘राध साध संसिद्धौ' । अस्माण्ण्यन्ताच्छान्दसे लुङि ‘णिश्रिद्रुस्रुभ्यः ' इति च्लेश्चङादेशः । ‘ णेरनिटि ' इति णिलोपः । ‘ णौ चङ्युपधायाः इत्युपधाह्वस्वः । ‘ चङि' इति द्विर्वचनम् ।' सन्वल्लघुनि चङ्परे ' इति सन्वद्भावः । ‘ सन्यतः । इत्यभ्यासस्येत्वम् । तस्य दीर्घो लघोः' इति दीर्घः । ‘ न माङ्योगे ' इत्यडभावः । निघातः ।। अगोतायै । गोशब्देन गोमान् लक्ष्यते । न गौरगौः । अगोर्भावोऽगोता। ‘ तस्य भावः' इति तल् । लित्स्वरः । सहसस्पुत्र। ‘ सुबामन्त्रिते पराङ्गवत्स्वरे' ' इति पराङ्गवद्भावात् सहसस्पुत्र इत्येतयोः सर्वानुदात्तत्वम् । निदे । ‘ णिदि कुत्सायाम् । अस्मात्संपदादित्वाद्भावे क्विप् । “ अनित्यमागमशासनम् ' इति नुमभावः । ‘सावेकाचः' इति विभक्तेरुदात्तता ॥
पङ्क्तिः ११२:
श॒ग्धि । वाज॑स्य । सु॒ऽभ॒ग॒ । प्र॒जाऽव॑तः । अग्ने॑ । बृ॒ह॒तः । अ॒ध्व॒रे ।
 
सम् । रा॒या । भूय॑सा । सृ॒ज॒ । म॒यः॒ऽभुना॑ । तुवि॑ऽद्युम्न । यश॑स्वता ॥६
 
शग्धि । वाजस्य । सुऽभग । प्रजाऽवतः । अग्ने । बृहतः । अध्वरे ।
 
सम् । राया । भूयसा । सृज । मयःऽभुना । तुविऽद्युम्न । यशस्वता ॥६
 
“सुभग शोभनधनोपेत हे “अग्ने त्वम् “अध्वरे अस्माभिः क्रियमाणेऽस्मिन् अग्निष्टोमादिकर्मणि “बृहतः महतः प्रभूतस्य “प्रजावतः अपत्योपेतस्य “वाजस्य अन्नस्य “शग्धि ईशिषे । तादृशमन्नमस्मिन् अध्वरेऽस्मभ्यं देहि । किंच "तुविद्युम्न बहुधनयुक्त हे अग्ने “मयोभुना। मय इति सुखनाम ‘शेवृधं मयः' (नि. ३. ६. ७) इति तन्नामसु पाठात् । तद्दानाद्युपयोगहेतुतया सुखस्य भावकेन अत एव “यशस्वता कीर्तिमता “भूयसा अतिप्रभूतेन “राया एवंविधेन धनेनास्मान् “सं “सृज संयोजय ॥ शग्धि। शक्लृ शक्तौ ' इत्यस्य लोटि ‘ बहुलं छन्दसि ' इति विकरणस्य लुक् । ‘ हुझल्भ्यो हेर्धिः' इति धिरादेशः । हेरपित्त्वादुदात्तता । राया । ‘ ऊडिदम्' इति विभक्तेरुदात्तत्वम् । भूयसा । बहुशब्दात् द्विवचनविभज्योपपदे' इतीयसुन् । “ बहोर्लोपो भू च बहोः' इतीयसुनः सर्वस्य लोपे प्राप्ते आदेः परस्य' ( पा. सू. १.१.५४ ) इति प्रत्ययस्यादेर्लोपो बहोः भूरादेशश्च। नित्स्वरः । सृज ।' सृज विसर्गे '। तुदादिः । लोटि रूपम् । निघातः । मयोभुना । ‘भू सत्तायाम्' इत्यस्मात् औणादिको डुप्रत्ययः । तुविद्युम्न । पादादित्वादनिघातः ॥ ॥ १६ ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.१६" इत्यस्माद् प्रतिप्राप्तम्