"ऋग्वेदः सूक्तं ३.१७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३५:
स॒म्ऽइ॒ध्यमा॑नः । प्र॒थ॒मा । अनु॑ । धर्म॑ । सम् । अ॒क्तुऽभिः॑ । अ॒ज्य॒ते॒ । वि॒श्वऽवा॑रः ।
 
शो॒चिःऽके॑शः । घृ॒तऽनि॑र्निक् । पा॒व॒कः । सु॒ऽय॒ज्ञः । अ॒ग्निः । य॒जथा॑य । दे॒वान् ॥१
 
सम्ऽइध्यमानः । प्रथमा । अनु । धर्म । सम् । अक्तुऽभिः । अज्यते । विश्वऽवारः ।
 
शोचिःऽकेशः । घृतऽनिर्निक् । पावकः । सुऽयज्ञः । अग्निः । यजथाय । देवान् ॥१
 
कतः स्तौति । “धर्म । धारणात् धर्म । अग्नेः यज्ञनिर्वाहकतया तद्धारकत्वाद्धर्माग्निः । तथा च मन्त्रः----’ धर्माणमग्निं विदथस्य साधनम् ' ( ऋ. सं. १०. ९२. २) इति । तादृशोऽग्निः “प्रथमा प्रथमं यज्ञोपक्रमे “अनु अग्न्यायतनेष्वनुक्रमेण “समिध्यमानः सम्यक् प्रज्वाल्यमानः । यद्वा । अनु धर्म धर्मसाधनभूतेषु यज्ञेषु प्रथमं समिध्यमानः । “विश्ववारः विश्वैः सर्वैर्यजमानैर्यष्टव्यतया वरणीयः “शोचिष्केशः शोचींषि ज्वालाः केशा यस्य स तथोक्तः । “घृतनिर्णिक् घृतस्य तापनद्वारा विलापनेन शोधकः । “पावकः अस्मदीयपापशोधकः । “सुयज्ञः शोभनयज्ञोपेतः । एवंभूतः “अग्निः “देवान् अस्माभिर्यजनीयान् देवान् “यजथाय यष्टुम् “अक्तुभिः अञ्जनसाधनैर्घृतादिभिः “सम् “अज्यते सम्यक् सिच्यते ॥ प्रथमा । ‘सुपां सुलुक्' इति सुपो डादेशः । धर्म । ‘ धृञ् धारणे' इत्यस्मात् “ अन्येभ्योऽपि दृश्यन्ते' इति मनिन् । ह्रस्वत्वं छान्दसम् । नित्स्वरः । अक्तुभिः । 'अञ्जू व्यक्तिगतिम्रक्षणेषु' । अज्यत एभिरिति बाहुलकत्वात् क्तुः करणे । कित्त्वादुपधालोपः । प्रत्ययस्वरः । अज्यते । स एव धातुः । कर्मणि यक् । “ अनिदिताम् ' इत्युपधालोपः। विश्ववारः । विश्वैर्यजमानैर्होतृद्वारा वारो वारणं यस्येत्यत्र ‘वृञ् वरणे ' इत्यस्य ण्यन्तस्य रूपं वारः । ‘ बहुव्रीहौ विश्वं संज्ञायाम्' इति पूर्वपदान्तोदात्तत्वम् । घृतनिर्णिक् । ‘ णिजिर् शौचपोषणयोः । क्विप् । घृतं नेनेक्तीति द्वितीयातत्पुरुषत्वात् पूर्वपदस्वरः । यजथाय । ‘ यज देवपूजासंगतिकरणदानेषु । अरमादौणादिकः अथप्रत्ययः । तादर्थ्ये चतुर्थी । प्रत्ययस्वरः ॥
पङ्क्तिः ५०:
यथा॑ । अय॑जः । हो॒त्रम् । अ॒ग्ने॒ । पृ॒थि॒व्याः । यथा॑ । दि॒वः । जा॒त॒ऽवे॒दः॒ । चि॒कि॒त्वान् ।
 
ए॒व । अ॒नेन॑ । ह॒विषा॑ । य॒क्षि॒ । दे॒वान् । म॒नु॒ष्वत् । य॒ज्ञम् । प्र । ति॒र॒ । इ॒मम् । अ॒द्य ॥२
 
यथा । अयजः । होत्रम् । अग्ने । पृथिव्याः । यथा । दिवः । जातऽवेदः । चिकित्वान् ।
 
एव । अनेन । हविषा । यक्षि । देवान् । मनुष्वत् । यज्ञम् । प्र । तिर । इमम् । अद्य ॥२
 
हे “अग्ने त्वं “यथा “पृथिव्याः यजमानभूतायाः पृथिवीदेवतायाः पूर्वं होता सन् “होत्रं होमसाधनं हविः “अयजः अयाजीः "जातवेदः जातप्रज्ञ हे अग्ने “चिकित्वान् कर्म विषयज्ञानवान् त्वं “यथा च “दिवः यजमानभूताया द्युदेवताया होता भूत्वा हविरयजः । “एव एवं त्वमस्मिन् कर्मणि होता सन् "अनेन अस्माभिर्दीयमानेन “हविषा “देवान “यक्षि यज । किंच त्वम् “अद्य इदानीम् अस्माभिः क्रियमाणम् “इमं “यज्ञं “प्र “तिर अनुष्ठानसंपूर्त्या पारं गमय । तत्र दृष्टान्तः “मनुष्वत् इति । यथा मनोः यज्ञमनुष्ठानसंपूर्त्या पारमनैषीस्तद्वदिमं यज्ञं पारं नयेत्यर्थः ॥ यथा । ' प्रकारवचने थाल्' इति थाल् । ‘ लिति' इति प्रत्ययात्पूर्वस्योदात्तत्वम् । अयजः । यजेर्लङि रूपम् । यच्छब्दयोगादनिघातः । होत्रम् । “हु दानादनयोः'। 'हुयामाश्रुभसिभ्यस्त्रन ! इति त्रन्प्रत्ययेनान्तोदात्त: । दिवः । ‘ उडिदम्' इति विभक्तेरुदात्तत्वम् । चिकित्वान् । ‘कित ज्ञाने' इत्यस्य क्वसौ रूपम् । प्रत्ययस्वरः । अनेन । इदंशब्दस्य तृतीयैकवचने 'अनाप्यकः ' ( पा. सू. ७. २. ११२ ) इत्यनादेशः । यक्षि । यजेर्लेटि रूपम् । मनुष्वत् । तत्र तस्येव ' इति वतिः । ‘ नभोऽङ्गिरोमनुषां वत्युपसंख्यानम्' इति भसंज्ञात्वात् रुत्वाभावः । प्रत्ययस्वरः । तिर । तरतेर्लोटि व्यत्ययेन शः । ‘ ऋत इद्धातोः' इति इत्वम् । निघातः ॥
पङ्क्तिः ६५:
त्रीणि॑ । आयूं॑षि । तव॑ । जा॒त॒ऽवे॒दः॒ । ति॒स्रः । आ॒ऽजानीः॑ । उ॒षसः॑ । ते॒ । अ॒ग्ने॒ ।
 
ताभिः॑ । दे॒वाना॑म् । अवः॑ । य॒क्षि॒ । वि॒द्वान् । अथ॑ । भ॒व॒ । यज॑मानाय । शम् । योः ॥३
 
त्रीणि । आयूंषि । तव । जातऽवेदः । तिस्रः । आऽजानीः । उषसः । ते । अग्ने ।
 
ताभिः । देवानाम् । अवः । यक्षि । विद्वान् । अथ । भव । यजमानाय । शम् । योः ॥३
 
हे “जातवेदः जातप्रज्ञ “तव “त्रीण्यायूंषि त्रिविधानि आज्यौषधिसोमात्मकान्यन्नान्याहारतया कल्पितानि हे “अग्ने “तिस्रः “उषसः एकाहाहीनसत्रगता उषसः उषोऽभिमानिन्यस्तिस्रो देवताः “ते तव “आजानीः जनयित्र्यो मातरः । यद्वा उषोऽभिमानिन्यो देवतास्तवाजानीस्त्वामनुजातास्तिस्रः स्वसारः । तथा च स्वसॄः प्रकृत्य मन्त्रः----’ प्रजामेका रक्षत्यूर्जमेका राष्ट्रमेका रक्षति' इति । “ताभिः उषोऽभिमानिनीभिर्देवताभिः सहितस्त्वम् “अवः अस्माभिर्दीयमानं हविर्लक्षणमन्नं “देवानां “यक्षि यष्टव्यदेवानां प्रयच्छ । “अथ अनन्तरं “विद्वान् जानंस्त्वं “यजमानाय “शं “भव सुखहेतुर्भव । "योः च सुखस्य मिश्रयिता च भव ॥ तव । युष्मदस्मदोर्ङसि' इत्याद्युदात्तः । तिस्रः । त्रिशब्दस्य स्त्र्यर्थे ' त्रिचतुरोः स्त्रियाम् ' इति तिसृ इत्यादेशः । अचि र ऋतः' इति रेफादेशः । ‘ तिसृभ्यो जसः' इति विभक्तेरुदात्तत्वम् । आजानीः । ‘ जन जनने' । जनिघसिभ्यामिण् ' इति कर्तरि इण् । णित्त्वादुपधावृद्धिः । ‘ वा छन्दसि ' इति सवर्णदीर्घः । कृदुत्तरपदप्रकृतिस्वर:। अवः । ‘ अव रक्षणे ' । ' असुन्' इत्यसुन् । नित्स्वरः । यक्षि । यजेर्दानार्थस्य लेटि रूपम् । यजमानाय । ‘ पूङ्यजोः शानन्' ( पा. सू. ३. २. १२८ ) इति यजेः शानन् । नित्स्वरः । योः । यु मिश्रणे ' इत्यस्मात् “ अन्येभ्योऽपि दृश्यन्ते ' इति विच् । आर्धधातुकलक्षणो गुणः । कृदुत्तरपदप्रकृतिस्वरः ॥
पङ्क्तिः ८०:
अ॒ग्निम् । सु॒ऽदी॒तिम् । सु॒ऽदृश॑म् । गृ॒णन्तः॑ । न॒म॒स्यामः॑ । त्वा॒ । ईड्य॑म् । जा॒त॒ऽवे॒दः॒ ।
 
त्वाम् । दू॒तम् । अ॒र॒तिम् । ह॒व्य॒ऽवाह॑म् । दे॒वाः । अ॒कृ॒ण्व॒न् । अ॒मृत॑स्य । नाभि॑म् ॥४
 
अग्निम् । सुऽदीतिम् । सुऽदृशम् । गृणन्तः । नमस्यामः । त्वा । ईड्यम् । जातऽवेदः ।
 
त्वाम् । दूतम् । अरतिम् । हव्यऽवाहम् । देवाः । अकृण्वन् । अमृतस्य । नाभिम् ॥४
 
“जातवेदः जातस्य सर्वस्य वेदितर्हे अग्ने “गृणन्तः त्वद्विषयां स्तुतिं कुर्वाणा वयम् “अग्निम् अङ्गनादिगुणोपेतं “सुदीतिं शोभनदीप्तिम् अत एव “सुदृशं सर्वैः सुदर्शनम् “ईड्यं स्तुत्यम् एवंविधं “त्वा त्वां “नमस्यामः हविर्भिः पूजयामः । किंच “देवाः अस्माभिर्यजनीया इन्द्रायो देवाः "अरतिम् । न विद्यते विषयेषु रतिः प्रीतिर्यस्यासावरतिः । विषयेष्वसक्तम् अत एव “अमृतस्य देवान्नभूतायाः सुधायाः “नाभिं नाभिस्थानं “त्वां तादृशं “हव्यवाहं "दूतम् “अकृण्वन् । हविषां वोढारं दूतमकुर्वन् । दूतो हि द्विविधो वार्ताहारी कार्यकारी चेति । तत्र त्वां कार्यकारिणं दूतमकार्षुरिति भावः ।। सुदीतिम् । ' दीङ् क्षये ' । दीयते विनाश्यते आभिस्तम इति करणे क्तिन् । दीतयो दीप्तयः ।। बहुव्रीहौ ' नञ्सुभ्याम् ' इत्युत्तरपदान्तोदात्तत्वम् । सुदृशम् । “ दृशिर् प्रेक्षणे' । तस्माच्छक्यार्थे खल् । ' संज्ञापूर्वको विधिरनित्यः' इति गुणाभावः । ‘ लिति' इति प्रत्ययात्पूर्वस्योदात्तत्वम् । गृणन्तः । गृणातिरर्चतिकर्मा । नमस्यामः । नमसः पूजायां : नमो वरिवश्चित्रङः क्यच् ' इति क्यच् । तदन्ताल्लटि रूपम् । पादादित्वान्न निघातः । दूतम् । ‘टुदु उपतापे । दुतनिभ्यां दीर्घश्च' ( उ. सू. ३. ३७० ) इति क्तः । तत्संनियोगेन धातोर्दीर्घः । दूतः इतस्ततः संचारीत्यर्थः । प्रत्ययस्वरः । अरतिम् । “ रमु क्रीडायाम् ' । भावे क्तिन् । अकृण्वन् । ‘ कृवि हिंसाकरणयोः' इत्यस्य लङि ‘ धिन्विकृण्व्योर च' इत्युप्रत्ययोऽकारश्चान्तादेशः । निघातः ॥
पङ्क्तिः ९५:
यः । त्वत् । होता॑ । पूर्वः॑ । अ॒ग्ने॒ । यजी॑यान् । द्वि॒ता । च॒ । सत्ता॑ । स्व॒धया॑ । च॒ । श॒म्ऽभुः ।
 
तस्य॑ । अनु॑ । धर्म॑ । प्र । य॒ज॒ । चि॒कि॒त्वः॒ । अथ॑ । नः॒ । धाः॒ । अ॒ध्व॒रम् । दे॒वऽवी॑तौ ॥५
 
यः । त्वत् । होता । पूर्वः । अग्ने । यजीयान् । द्विता । च । सत्ता । स्वधया । च । शम्ऽभुः ।
 
तस्य । अनु । धर्म । प्र । यज । चिकित्वः । अथ । नः । धाः । अध्वरम् । देवऽवीतौ ॥५
 
हे “अग्ने “त्वत् त्वत्तोऽपि “पूर्वः प्रथमभावी “यजीयान् अतिशयेन यष्टा “यः यः कश्चित् “होता होमनिष्पादकः “द्विता द्वैधं मध्यमे चोत्तमे च स्थाने “स्वधया सोमाख्येनान्नेन सह “सत्ता निषण्णः सन् “शंभुः यष्टॄणां सुखभूः अभूत् । द्वितीयपादमेवं यास्को व्याचख्यौ-’ द्विता च सत्ता स्वधया च शंभुः । द्वैधं सत्ता मध्यमे च स्थान उत्तमे च । शंभुः सुखभूः ' ( निरु. ५. ३ ) इति । “चिकित्वः धर्मविषयचेतनावन् हे अग्ने “तस्य यस्त्वत्तोऽपि पूर्वभावी होता निरूपितस्तस्य होतुः “अनु “धर्म धर्माननु तेनानुष्ठितधर्मानुपलक्ष्य “प्र “यज प्रकर्षेण देवान् पूजय । “अथ अनन्तरं हे अग्ने त्वं “नः अस्माकं संबन्धिनम् “अध्वरम् इमं यज्ञं “देववीतौ देवानां प्रीत्यर्थं “धाः विधेहि ॥ यजीयान् । यष्टृशब्दस्य ' तुश्छन्दसि ' इतीयसुन् । तस्मिन् “ तुरिष्ठेमेयःसु ' इति तृचो लोपः । नित्त्वादाद्युदात्तः । द्विता । द्विशब्दात् ' संख्याया विधार्थे धा' इति धाप्रत्ययः । धकारस्य तकाश्छान्दसः । प्रत्ययस्वरः । सत्ता । “षद्लृ विशरणगत्यवसादनेषु । अस्य ताच्छीलिकस्तृन् । नित्स्वरः । स्वधया । स्वर्ग लोकं दधाति यजमानस्येति स्वधा । ‘ आतोऽनुपसर्गे कः' इति कप्रत्ययः । कृदुत्तरपदप्रकृतिस्वरत्वम् । शंभुः । शं सुखमस्माद्भवतीति । ‘ भू सत्तायाम् । विप्रसंभ्यो ड्वसंज्ञायाम् ' इत्यत्र मितद्र्वादेरुपसंख्यानात् डुप्रत्ययः । डित्त्वाट्टिलोपः । यज । यजेर्लोटि रूपम् । चिकित्वः । ‘ कित ज्ञाने' इत्यस्य क्वसौ रूपम् । ‘ मतुवसो रु संबुद्धौ छन्दसि ' इति नकारस्य रुः । अथा नः । ‘ निपातस्य° ' इति दीर्घः । धाः । ‘ डुधाञ् धारणपोषणयोः' इत्यस्य छान्दसे लुङि रूपम् । अडभावश्छान्दसः । देववीतौ । देवानां वीतिः अशनं यत्र प्रीतौ सा प्रीतिः देववीतिः । वी कान्त्यादिषु इत्यस्मात् भावे क्तिन् । बहुव्रीहौ पूर्वपदप्रकृतिस्वर: ॥ ॥ १७ ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.१७" इत्यस्माद् प्रतिप्राप्तम्