"ऋग्वेदः सूक्तं ७.११" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ३५:
म॒हान् । अ॒सि॒ । अ॒ध्व॒रस्य॑ । प्र॒ऽके॒तः । न । ऋ॒ते । त्वत् । अ॒मृताः॑ । मा॒द॒य॒न्ते॒ ।
 
आ । विश्वे॑भिः । स॒ऽरथ॑म् । या॒हि॒ । दे॒वैः । नि । अ॒ग्ने॒ । होता॑ । प्र॒थ॒मः । स॒द॒ । इ॒ह ॥१
 
महान् । असि । अध्वरस्य । प्रऽकेतः । न । ऋते । त्वत् । अमृताः । मादयन्ते ।
 
आ । विश्वेभिः । सऽरथम् । याहि । देवैः । नि । अग्ने । होता । प्रथमः । सद । इह ॥१
 
हे अग्ने त्वम् “अध्वरस्य “प्रकेतः प्रज्ञापनः सन् “महानसि । “त्वत् “ऋते त्वया विना “अमृताः देवाः “न “मादयन्ते न माद्यन्ति। “विश्वेभिः विश्वैः “देवैः “सरथं यथा भवति “आ “याहि च । “इह आस्तीर्णे बर्हिषि “प्रथमः मुख्यः "होता आह्वाता सन् “नि “सद निषीद च ॥
पङ्क्तिः ५२:
त्वाम् । ई॒ळ॒ते॒ । अ॒जि॒रम् । दू॒त्या॑य । ह॒विष्म॑न्तः । सद॑म् । इत् । मानु॑षासः ।
 
यस्य॑ । दे॒वैः । आ । अस॑दः । ब॒र्हिः । अ॒ग्ने॒ । अहा॑नि । अ॒स्मै॒ । सु॒ऽदिना॑ । भ॒व॒न्ति॒ ॥२
 
त्वाम् । ईळते । अजिरम् । दूत्याय । हविष्मन्तः । सदम् । इत् । मानुषासः ।
 
यस्य । देवैः । आ । असदः । बर्हिः । अग्ने । अहानि । अस्मै । सुऽदिना । भवन्ति ॥२
 
हे "अग्ने “अजिरं प्रगामिनं “त्वां “मानुषासः मानुषाः “हविष्मन्तः यजमानाः “सदमित् सदैव “दूत्याय दूतकर्मणे हविर्वहनाय “ईळते याचन्ते । किमर्थमित्यत आह । “यस्य हविष्मतः “बर्हिः “देवैः सार्धम् “आसदः त्वमधितिष्ठसि “अस्मै हविष्मते "अहानि “सुदिना सुदिनानि शोभनदिनानि “भवन्ति ॥
पङ्क्तिः ६७:
त्रिः । चि॒त् । अ॒क्तोः । प्र । चि॒कि॒तुः॒ । वसू॑नि । त्वे इति॑ । अ॒न्तः । दा॒शुषे॑ । मर्त्या॑य ।
 
म॒नु॒ष्वत् । अ॒ग्ने॒ । इ॒ह । य॒क्षि॒ । दे॒वान् । भव॑ । नः॒ । दू॒तः । अ॒भि॒श॒स्ति॒ऽपावा॑ ॥३
 
त्रिः । चित् । अक्तोः । प्र । चिकितुः । वसूनि । त्वे इति । अन्तः । दाशुषे । मर्त्याय ।
 
मनुष्वत् । अग्ने । इह । यक्षि । देवान् । भव । नः । दूतः । अभिशस्तिऽपावा ॥३
 
हे “अग्ने “त्वे त्वयि “अन्तः मध्ये “अक्तोः अह्नः। यद्यप्यक्तुरिति रात्रेर्नाम तथाप्यत्राज्यन्ते व्यज्यन्ते रूपादीन्यस्मिन्नित्यह्नो नाम । “त्रिः त्रिवारं त्रिषु सवनेषु “वसूनि हवींषि “दाशुषे हविषां प्रदात्रे मर्त्याय मनुष्याय । तदर्थमित्यर्थः। “प्र “चिकितुः प्रवेदयन्त्यृत्विजः । यद्वा । अक्तोरह्नि त्रिस्त्रीन् अग्निमश्वमजं च त्वय्यन्तर्निहितानि प्र चिकितुः । अविदन्नित्यर्थः । अपि च "मनुष्वत् मनोरिव “इह ममास्मिन् यज्ञे “दूतः त्वं “देवान् “यक्षि यज । "नः अस्माकम् “अभिशस्तिपावा अभिशस्तेः अभिशंसकात् शात्रवात् पावा रक्षिता “भव ॥
पङ्क्तिः ८२:
अ॒ग्निः । ई॒शे॒ । बृ॒ह॒तः । अ॒ध्व॒रस्य॑ । अ॒ग्निः । विश्व॑स्य । ह॒विषः॑ । कृ॒तस्य॑ ।
 
क्रतु॑म् । हि । अ॒स्य॒ । वस॑वः । जु॒षन्त॑ । अथ॑ । दे॒वाः । द॒धि॒रे॒ । ह॒व्य॒ऽवाह॑म् ॥४
 
अग्निः । ईशे । बृहतः । अध्वरस्य । अग्निः । विश्वस्य । हविषः । कृतस्य ।
 
क्रतुम् । हि । अस्य । वसवः । जुषन्त । अथ । देवाः । दधिरे । हव्यऽवाहम् ॥४
 
“बृहतः महतः “अध्वरस्य कौटिल्यरहितस्य यज्ञस्य “अग्निः “ईशे ईष्टे । “विश्वस्य सर्वस्य “कृतस्य संस्कृतस्य “हविषः च “अग्निः एवेष्टे । “हि यस्मात् “अस्य अग्नेः “क्रतुं कर्म “वसवः देवाः “जुषन्त सेवन्ते । “अथ अपि च “देवाः अग्निं “हव्यवाहं हव्यानां वोढारं “दधिरे चक्रिर इत्यर्थः ॥
पङ्क्तिः ९७:
आ । अ॒ग्ने॒ । व॒ह॒ । ह॒विः॒ऽअद्या॑य । दे॒वान् । इन्द्र॑ऽज्येष्ठासः । इ॒ह । मा॒द॒य॒न्ता॒म् ।
 
इ॒मम् । य॒ज्ञम् । दि॒वि । दे॒वेषु॑ । धे॒हि॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥५
 
आ । अग्ने । वह । हविःऽअद्याय । देवान् । इन्द्रऽज्येष्ठासः । इह । मादयन्ताम् ।
 
इमम् । यज्ञम् । दिवि । देवेषु । धेहि । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥५
 
हे “अग्ने “हविरद्याय हविषां भक्षणाय "देवान् “आ “वह । किमर्थमित्यत आह । “इह अस्मिन् यज्ञे “इन्द्रज्येष्ठासः इन्द्रप्रमुखा देवाः “मादयन्ताम् । “इमं “यज्ञम् इदं यष्टव्यं हविः “दिवि स्थितेषु “देवेषु “धेहि निधेहि । देवान्वेह नयेदं हविर्वा देवेषु नयेति भावः । अन्तिमः पादो व्याख्यातचरः ॥॥ १४ ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.११" इत्यस्माद् प्रतिप्राप्तम्