"ऋग्वेदः सूक्तं ५.२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ४७:
कु॒मा॒रम् । मा॒ता । यु॒व॒तिः । सम्ऽउ॑ब्धम् । गुहा॑ । बि॒भ॒र्ति॒ । न । द॒दा॒ति॒ । पि॒त्रे ।
 
अनी॑कम् । अ॒स्य॒ । न । मि॒नत् । जना॑सः । पु॒रः । प॒श्य॒न्ति॒ । निऽहि॑तम् । अ॒र॒तौ ॥१
 
कुमारम् । माता । युवतिः । सम्ऽउब्धम् । गुहा । बिभर्ति । न । ददाति । पित्रे ।
 
अनीकम् । अस्य । न । मिनत् । जनासः । पुरः । पश्यन्ति । निऽहितम् । अरतौ ॥१
 
शाट्यायनब्राह्मणोक्त इतिहास इहोच्यते । राजा त्रैवृष्ण ऐक्ष्वाकः त्र्यरुणोऽभवदस्य च ॥ पुरोहितो वृशो जान ऋषिरासीत्तदा खलु । संगृह्णन्ति रथान् राज्ञां रक्षणाय पुरोहिताः ॥ त्र्यरुणस्य वृशो रश्मिं संजग्राह पुरोहितः । कुमारो वर्त्मनि क्रीडन्रथचक्रेण घातितः॥ छिन्नः कुमारश्चक्रेण ममाराथ पुरोहितः । त्वं हन्तास्येति राजानं राजा चापि पुरोहितम् ॥ त्वं हन्तास्य कुमारस्य नाहमित्यब्रवीत्तदा । यतस्त्वं रथवेगस्य नियन्तातस्त्वया हतः ॥ रथस्वामी यतो राजन् तस्मात्त्वं तस्य घातकः । एवं विवदमानौ ताविक्ष्वाकून्प्रष्टुमागतौ ॥ तौ पप्रच्छतुरिक्ष्वाकून् केनासौ निहतो द्विजः। तेऽब्रुवन्रथयन्तारं हन्तारं वृशसंज्ञकम् ॥ स वृशो वार्शसाम्ना तं कुमारं समजीवयत् । एवमाख्याय तत्रैव पुनरन्यदुदीरितम् ॥ यत इक्ष्वाकवो रागात् हन्तारमृषिमब्रुवन् । तस्मात्तेषां गृहेष्वग्नेस्तेजो निर्गतमेषु च ॥ गृहे पाकादयो नासन् तत्कारणमचिन्तयन् । वृशं कुमारहन्तारं यदवोचाम तेन नः ॥ अपाक्रमद्धरो वहेराह्वयाम वृशं वयम् । इति संचिन्त्य तमृषिमाह्वयामासुरादरात् ॥ समागत्य ततः शीघ्रं तेषामग्नेर्हरो भवेत् । इति वार्शेन साम्नासावकामयत पूर्ववत् ॥ एवं गायन् स ऋषिर्ब्रह्महत्यां भार्याजातां त्रसदस्योर्नृपस्य । पिशाचवेषां हर आदाय चाग्नेर्गृहान्नीत्वा कशिपौ स्थापयन्तीम् ॥ दृष्ट्वा सम्यक् तद्धरस्तोषयित्वा साम्ना पश्चाद्योजयामास चाग्निम् । ततः सतेजाः संजातोऽभवत्पाकादि पूर्ववत् ॥ एवं शाट्यायनेनोक्तं ताण्डकोक्तमथोच्यते । वृशः पुरोधा अभवत्त्रसदस्योर्महीपतेः ॥ स रथं धावयन्नाजा ब्राह्मणस्य कुमारकम् । चिच्छेद रथचक्रेण प्रमादात्सोऽब्रवीद्वशम् ॥ पुरोहिते वर्तमाने त्वयि मां हन्तिरागता। एषा त्वयापनेतव्या ऋषिमित्यब्रवीन्नृपः ॥ स ऋषिर्वार्शसाम्रा तं कुमारमुदजीवयत् ॥ "माता कुमारस्योत्पादयित्री "युवतिः यौवनोपेता "कुमारं पथि संचरन्तं "समुब्धं चक्रेण हतं "गुहा गुहायां “बिभर्ति धारयति । "न "ददाति "पित्रे तस्य जनकाय । यद्वा । माता सर्वस्य निर्मात्री पृथिवी समुब्धं सम्यक् निगूढं गुहा बिभर्ति न ददाति पित्रे । "अस्य कुमारस्य "अनीकं रूपं "मिनत् हिंसितं “जनासः जनाः “न पश्यन्ति । किंतु “अरतौ अरमणे देशे "निहितं स्थितं "पुरः पुरोदेशे पश्यन्ति । अथवायं वृशेन पुनरुज्जीवितः कुमार आत्मानमपरोक्षतया वक्ति कथयति । जानः वा तं जीवयित्वा वक्ति। अथवा। सूक्तस्य आग्नेयत्वात् कुमार इत्यग्निरुच्यते । तं माता अरणिर्युवतिर्मिश्रयन्ती समुब्धं निगूढं गुहायां बिभर्ति पित्रे उत्पादकाय यजमानाय न ददाति । अस्याग्नेर्मिनत् हिंसत् दाहकमनीकं तेजो जना न पश्यन्ति । किंतु अरतौ अरण्यां हितं पश्यन्ति ॥
पङ्क्तिः ६२:
कम् । ए॒तम् । त्वम् । यु॒व॒ते॒ । कु॒मा॒रम् । पेषी॑ । बि॒भ॒र्षि॒ । महि॑षी । ज॒जा॒न॒ ।
 
पू॒र्वीः । हि । गर्भः॑ । श॒रदः॑ । व॒वर्ध॑ । अप॑श्यम् । जा॒तम् । यत् । असू॑त । मा॒ता ॥२
 
कम् । एतम् । त्वम् । युवते । कुमारम् । पेषी । बिभर्षि । महिषी । जजान ।
 
पूर्वीः । हि । गर्भः । शरदः । ववर्ध । अपश्यम् । जातम् । यत् । असूत । माता ॥२
 
अत्राग्नेरुत्पाद्यमानत्वात् कुमारशब्देन व्यवहारः । हे "युवते “त्वं "कमेतं "कुमारं "पेषी हिंसिका पिशाचिका सती “बिभर्षि । एवं वृशाख्यो महर्षिः कशिपुनाच्छन्नम् अग्नेर्हरो ब्रूते । त्वयानुत्पादितत्वात् धारणमनुचितमित्यर्थः। "महिषी महती पूजनीयारणिः एनं "जजान अजनयत् । तदेवाह। "गर्भः शिशोर्ग्राहकोऽरण्याः संबन्धी गर्भः “हि यस्मात् "पूर्वीः "शरदः गताननेकान् संवत्सरान् "ववर्ध ववृधे । अहं च ततो "जातम् "अपश्यम् । "यत् यस्मात् "माता अरणिः "असूत उदपादयत् । राजकुमारपक्षे हे युवते भूदेवि कमेतं कुमारं पेषी सती बिभर्षि । अवशिष्टं कुमारजननपरतया योज्यम् । एवमुत्तरत्रापि कुमाराग्निहरसोः परत्वेन यथोचितं व्याख्येयम् ॥
पङ्क्तिः ७७:
हिर॑ण्यऽदन्तम् । शुचि॑ऽवर्णम् । आ॒रात् । क्षेत्रा॑त् । अ॒प॒श्य॒म् । आयु॑धा । मिमा॑नम् ।
 
द॒दा॒नः । अ॒स्मै॒ । अ॒मृत॑म् । वि॒पृक्व॑त् । किम् । माम् । अ॒नि॒न्द्राः । कृ॒ण॒व॒न् । अ॒नु॒क्थाः ॥३
 
हिरण्यऽदन्तम् । शुचिऽवर्णम् । आरात् । क्षेत्रात् । अपश्यम् । आयुधा । मिमानम् ।
 
ददानः । अस्मै । अमृतम् । विपृक्वत् । किम् । माम् । अनिन्द्राः । कृणवन् । अनुक्थाः ॥३
 
“हिरण्यदन्तं हिरण्यसदृशदन्तस्थानीयज्वालोपेतं “शुचिवर्णं प्रदीप्तवर्णम् "आयुधा आयुधानि आयुधस्थानीयान् स्फुलिङ्गान् ज्वाला वा “मिमानं निर्मिमाणमग्निम् “आरात् समीपे "क्षेत्रात् क्षेत्रे देशे “अपश्यं पश्येयम् । एवं वृशः कामयते । अहम् "अस्मै अग्नये "अमृतम् अविनाश्यमृतत्वसाधनं वा "विपृक्वत् सर्वतो व्याप्तं हविः स्तोत्रं वा ददानः दातास्मि । "माम् "अनिन्द्राः । इन्द्रः परमैश्वर्योऽग्निः । तद्रहिता अनिन्द्राः । इन्द्रमयजन्त इत्यर्थः । अनुक्थाः अस्तुतय इन्द्रमस्तुवन्तश्च “किं “कृणवन् किं कुर्युः ॥
पङ्क्तिः ९२:
क्षेत्रा॑त् । अ॒प॒श्य॒म् । स॒नु॒तरिति॑ । चर॑न्तम् । सु॒ऽमत् । यू॒थम् । न । पु॒रु । शोभ॑मानम् ।
 
न । ताः । अ॒गृ॒भ्र॒न् । अज॑निष्ट । हि । सः । पलि॑क्नीः । इत् । यु॒व॒तयः॑ । भ॒व॒न्ति॒ ॥४
 
क्षेत्रात् । अपश्यम् । सनुतरिति । चरन्तम् । सुऽमत् । यूथम् । न । पुरु । शोभमानम् ।
 
न । ताः । अगृभ्रन् । अजनिष्ट । हि । सः । पलिक्नीः । इत् । युवतयः । भवन्ति ॥४
 
अहं वृश इदानीं “क्षेत्रात् क्षेत्रे “सनुतः । अन्तर्हितनामैतत् । निगूढं "चरन्तम् अरण्यां “यूथं “न गवां समूहमिव "सुमत् स्वयमेव “पुरु बहु “शोभमानम् “अपश्यं पश्यामि । पुरा हरसः पिशाच्याक्रमणकाले “ताः ज्वाला निर्वीर्याः "न “अगृभ्रन् नागृह्णन्त नराः । इदानीं 'सः अग्निः "अजनिष्ट “हि । हरसा प्रादुरभूत् खलु। अत एव हेतोः “पलिक्नीरित् पलिक्न्यः पलिता जीर्णाः ज्वाला एवेदानीं “युवतयो “भवन्ति ॥
पङ्क्तिः १०७:
के । मे॒ । म॒र्य॒कम् । वि । य॒व॒न्त॒ । गोभिः॑ । न । येषा॑म् । गो॒पाः । अर॑णः । चि॒त् । आस॑ ।
 
ये । ई॒म् । ज॒गृ॒भुः । अव॑ । ते । सृ॒ज॒न्तु । आ । अ॒जा॒ति॒ । प॒श्वः । उप॑ । नः॒ । चि॒कि॒त्वान् ॥५
 
के । मे । मर्यकम् । वि । यवन्त । गोभिः । न । येषाम् । गोपाः । अरणः । चित् । आस ।
 
ये । ईम् । जगृभुः । अव । ते । सृजन्तु । आ । अजाति । पश्वः । उप । नः । चिकित्वान् ॥५
 
“के “मे मदीयं “मर्यकं मर्त्यसंघं राष्ट्रं "गोभिः सह “वि "यवन्त वियुक्तमकुर्वन् । गा भृत्यांश्च व्ययोजयन्। "येषां “गोपाः अस्माकं गोपयिता: “अरणश्चित् अभिगन्ता “न “आस बभूव। सोऽयमग्निः । "ये द्वेषिणः "ईम् एनं जनसंघं राष्ट्रं "जगृभुः गृह्णन्ति । “ते “अव “सृजन्तु नश्यन्तु । किंच “चिकित्वान् चेतनावान् अस्मद्विषयज्ञानवानग्निः “नः अस्माकं “पश्वः पशून् “उप “आजाति उपागच्छति ॥
पङ्क्तिः १२२:
व॒साम् । राजा॑नम् । व॒स॒तिम् । जना॑नाम् । अरा॑तयः । नि । द॒धुः॒ । मर्त्ये॑षु ।
 
ब्रह्मा॑णि । अत्रेः॑ । अव॑ । तम् । सृ॒ज॒न्तु॒ । नि॒न्दि॒तारः॑ । निन्द्या॑सः । भ॒व॒न्तु॒ ॥६
 
वसाम् । राजानम् । वसतिम् । जनानाम् । अरातयः । नि । दधुः । मर्त्येषु ।
 
ब्रह्माणि । अत्रेः । अव । तम् । सृजन्तु । निन्दितारः । निन्द्यासः । भवन्तु ॥६
 
“वसां वसतां प्राणिनां "राजानं स्वामिनं “जनानां प्राणिनां “वसतिम् आवासभूतं त्र्यरुणमुक्तलक्षणमग्निं वा “अरातयो “नि "दधुः अगोपयन् “मर्त्येषु लोकेषु मध्ये। “अत्रेः अत्रिगोत्रस्य वृशस्य “ब्रह्माणि मन्त्राः स्तोत्राणि वा “तं कुमारम् अग्निं वा "अव “सृजन्तु । अथवा अत्रेः अत्रिगोत्रस्य कुमारं ब्रह्माणि । यद्वा । वृशस्य ब्रह्माण्यत्रेत्रिगोत्रम् ॥ कर्मणि षष्ठी ॥ तं कुमारमव सृजन्तु विसृजन्तु । “निन्दितारः अस्मन्निन्दकाः “निन्द्यासः अस्माभिर्निन्द्याः “भवन्तु । अत्रेर्ब्रह्माणीत्येतत् उपजीव्य वृशमप्यात्रेयं वदन्ति। आत्रेयः कुमार इति पक्षे स एव प्राणमयम् आत्मानमवसृजन्त्वित्याशास्ते ॥१४॥
पङ्क्तिः १३९:
शुनः॒ऽशेप॑म् । चि॒त् । निऽदि॑तम् । स॒हस्रा॑त् । यूपा॑त् । अ॒मु॒ञ्चः॒ । अश॑मिष्ट । हि । सः ।
 
ए॒व । अ॒स्मत् । अ॒ग्ने॒ । वि । मु॒मु॒ग्धि॒ । पाशा॑न् । होत॒रिति॑ । चि॒कि॒त्वः॒ । इ॒ह । तु । नि॒ऽसद्य॑ ॥७
 
शुनःऽशेपम् । चित् । निऽदितम् । सहस्रात् । यूपात् । अमुञ्चः । अशमिष्ट । हि । सः ।
 
एव । अस्मत् । अग्ने । वि । मुमुग्धि । पाशान् । होतरिति । चिकित्वः । इह । तु । निऽसद्य ॥७
 
हे अग्ने “निदितं नितरां बद्धं “शुनःशेपम् ऋषिं “सहस्रात् अनेकरूपात् “यूपात् "अमुञ्चः अमोचयः। “चित् इति पूरणः। शुनःशेपमिति पदस्य मध्ये पदान्तरस्य संहितायां व्यत्ययेनावस्थितिः । “सः ऋषिः "अशमिष्ट हि शान्तवान् खलु । यद्वा । स हि यस्मादशमिष्ट । स्तुतिकर्मैतत् । अस्तावीत् । तस्मादमुञ्च इति संबन्धः। “एव एवम् “अस्मत् अस्मत्तः "पाशान् “वि “मुमुग्धि विमोचय । हे "होतः हे “चिकित्वः चेतनावन् “अग्ने “इह “तु वेद्यां “निषद्य अवस्थाय ॥
पङ्क्तिः १५४:
हृ॒णी॒यमा॑नः । अप॑ । हि । मत् । ऐयेः॑ । प्र । मे॒ । दे॒वाना॑म् । व्र॒त॒ऽपाः । उ॒वा॒च॒ ।
 
इन्द्रः॑ । वि॒द्वान् । अनु॑ । हि । त्वा॒ । च॒चक्ष॑ । तेन॑ । अ॒हम् । अ॒ग्ने॒ । अनु॑ऽशिष्टः । आ । अ॒गा॒म् ॥८
 
हृणीयमानः । अप । हि । मत् । ऐयेः । प्र । मे । देवानाम् । व्रतऽपाः । उवाच ।
 
इन्द्रः । विद्वान् । अनु । हि । त्वा । चचक्ष । तेन । अहम् । अग्ने । अनुऽशिष्टः । आ । अगाम् ॥८
 
हे अग्ने “हृणीयमानः क्रुध्यंस्त्वं “मत् मत्तः “अप “ऐयेः “हि अपागाः खलु ॥ ‘ ई गतौ' इत्यस्मात् श्यन्विकरणात् लङि मध्यमे छान्दसे परस्मैपद आडागमे वृद्धौ व्यत्ययेन श्यनोऽकारस्य एकारे च कृते रूपम् ॥ “मे मह्यं “देवानां “व्रतपाः कर्मणः पालकः “इन्द्रः “प्र “उवाच “हि । स एव “विद्वान् “त्वा “अनु “चचक्ष त्वां ददर्श । “तेन “अनुशिष्टः अहं हे “अग्ने त्वाम् “आगाम् इति । एवं वृश आह ॥
पङ्क्तिः १६९:
वि । ज्योति॑षा । बृ॒ह॒ता । भा॒ति॒ । अ॒ग्निः । आ॒विः । विश्वा॑नि । कृ॒णु॒ते॒ । म॒हि॒ऽत्वा ।
 
प्र । अदे॑वीः । मा॒याः । स॒ह॒ते॒ । दुः॒ऽएवाः॑ । शिशी॑ते । शृङ्गे॒ इति॑ । रक्ष॑से । वि॒ऽनिक्षे॑ ॥९
 
वि । ज्योतिषा । बृहता । भाति । अग्निः । आविः । विश्वानि । कृणुते । महिऽत्वा ।
 
प्र । अदेवीः । मायाः । सहते । दुःऽएवाः । शिशीते । शृङ्गे इति । रक्षसे । विऽनिक्षे ॥९
 
अयम् “अग्निः “ज्योतिषा तेजसा “बृहता महता “वि “भाति विशेषेण दीप्यते । अथ तथाभूतः सन् "महित्वा स्वमहत्त्वेन "विश्वानि सर्वाणि पदार्थजातानि "आविः “कृणुते प्रकटीकरोति । एवं प्रवृद्धोऽग्निः "अदेवीः अदेवनशीला आसुरीः "मायाः "दुरेवाः दुःखगमनाः' “प्र “सहते अभिभवति । किंच "शिशीते तीक्ष्णीकरोति । “शृङ्गे शृङ्गाणि । शृङ्गसदृशीर्हिंसिका वा ज्वालाः शिशीते तीक्ष्णीकरोति । किमर्थम् । “रक्षसे “विनिक्षे रक्षसो नाशाय । ‘निश्यति श्रङ्गे रक्षसो विनिक्षणनाय' (निरु. ४. १८) इति यास्कः ॥
पङ्क्तिः १८४:
उ॒त । स्वा॒नासः॑ । दि॒वि । स॒न्तु॒ । अ॒ग्नेः । ति॒ग्मऽआ॑युधाः । रक्ष॑से । हन्त॒वै । ऊं॒ इति॑ ।
 
मदे॑ । चि॒त् । अ॒स्य॒ । प्र । रु॒ज॒न्ति॒ । भामाः॑ । न । व॒र॒न्ते॒ । प॒रि॒ऽबाधः॑ । अदे॑वीः ॥१०
 
उत । स्वानासः । दिवि । सन्तु । अग्नेः । तिग्मऽआयुधाः । रक्षसे । हन्तवै । ऊं इति ।
 
मदे । चित् । अस्य । प्र । रुजन्ति । भामाः । न । वरन्ते । परिऽबाधः । अदेवीः ॥१०
 
“उत अपि च "अग्नेः "स्वानासः शब्दं कुर्वाणा ज्वालाः “दिवि “षन्तु द्युलोके प्रादुर्भवन्तु । किमर्थम् । “तिग्मायुधाः तीक्ष्णायुधस्थानीया ज्वालाः । “रक्षसे “हन्तवा “उ रक्षसो हननाय । उ इति पूरणः । “मदे “चित् हर्षे सति “अस्य अग्नेः “भामाः क्रोधा दीप्तयो वा “प्र “रुजन्ति प्रकर्षेण भङ्गं गच्छन्ति पीडयन्ति वा रक्षांसि । “परिबाधः परितो बाधिकाः “अदेवीः अदेवनाः आसुर्यः सेनाः “न “वरन्ते न वारयन्त्येनम् ॥
पङ्क्तिः १९९:
ए॒तम् । ते॒ । स्तोम॑म् । तु॒वि॒ऽजा॒त॒ । विप्रः॑ । रथ॑म् । न । धीरः॑ । सु॒ऽअपाः॑ । अ॒त॒क्ष॒म् ।
 
यदि॑ । इत् । अ॒ग्ने॒ । प्रति॑ । त्वम् । दे॒व॒ । हर्याः॑ । स्वः॑ऽवतीः । अ॒पः । ए॒न॒ । ज॒ये॒म॒ ॥११
 
एतम् । ते । स्तोमम् । तुविऽजात । विप्रः । रथम् । न । धीरः । सुऽअपाः । अतक्षम् ।
 
यदि । इत् । अग्ने । प्रति । त्वम् । देव । हर्याः । स्वःऽवतीः । अपः । एन । जयेम ॥११
 
हे "तुविजात बहुभावमापन्नाग्ने “ते त्वदर्थम् “एतं “स्तोमम् एतत् स्तोत्रं “विप्रः मेधावी स्तोता “रथं “न रथमिव “धीरः “स्वपाः शोभनकर्माहम् “अतक्षं समपादयम् । हे अग्ने “देव “त्वं “यदीत् एनं स्तोमं “प्रति हर्याः प्रतिकामयेथाः । तर्हि स्वर्वतीः स्वरणवतीर्व्याप्तिमतीः "अपः “एना एनेन “जयेम प्राप्नुयाम ॥
पङ्क्तिः २१४:
तु॒वि॒ऽग्रीवः॑ । वृ॒ष॒भः । व॒वृ॒धा॒नः । अ॒श॒त्रु । अ॒र्यः । सम् । अ॒जा॒ति॒ । वेदः॑ ।
 
इति॑ । इ॒मम् । अ॒ग्निम् । अ॒मृताः॑ । अ॒वो॒च॒न् । ब॒र्हिष्म॑ते । मन॑वे । शर्म॑ । यं॒स॒त् । ह॒विष्म॑ते । मन॑वे । शर्म॑ । यं॒स॒त् ॥१२
 
तुविऽग्रीवः । वृषभः । ववृधानः । अशत्रु । अर्यः । सम् । अजाति । वेदः ।
 
इति । इमम् । अग्निम् । अमृताः । अवोचन् । बर्हिष्मते । मनवे । शर्म । यंसत् । हविष्मते । मनवे । शर्म । यंसत् ॥१२
 
“तुविग्रीवः बहुज्वालः प्रभूतग्रीवो वा “वृषभः वर्षिता कामानां “ववृधानः वर्धमानोऽग्निः “अर्यः अरेः “वेदः धनम् “अशत्रु अकण्टकं “समजाति संयोजयति । “इतीमम् अर्थम् “अग्निम् “अमृताः अन्ये देवाः “अवोचन् । यस्मादेवं तस्मात् “बहिष्मते यागवते “मनवे मनुष्याय यजमानाय “शर्म सुखं “यंसत् यच्छतु । "हविष्मते च “शर्म “यंसत् ॥ ॥ १५ ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_५.२" इत्यस्माद् प्रतिप्राप्तम्