"ऋग्वेदः सूक्तं ५.७८" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३९:
अश्वि॑नौ । आ । इ॒ह । ग॒च्छ॒त॒म् । नास॑त्या । मा । वि । वे॒न॒त॒म् ।
 
हं॒सौऽइ॑व । प॒त॒त॒म् । आ । सु॒तान् । उप॑ ॥१
 
अश्विनौ । आ । इह । गच्छतम् । नासत्या । मा । वि । वेनतम् ।
 
हंसौऽइव । पततम् । आ । सुतान् । उप ॥१
 
हे अश्विनौ “इह अस्मिन् यागे “आ “गच्छतम् । हे “नासत्या “मा “वि "वेनतम् । वेनतिः कान्तिकर्मा । मा विकामौ भवतम् । निःस्पृहावकामौ वा न भवतमित्यर्थः । “हंसाविव तौ यथा निर्मलोदकमागच्छतस्तद्वत् “सुतान् अभिषुतान् सोमान् “उप “आ “पततम् उपागच्छतम् ॥
पङ्क्तिः ५४:
अश्वि॑ना । ह॒रि॒णौऽइ॑व । गौ॒रौऽइ॑व । अनु॑ । यव॑सम् ।
 
हं॒सौऽइ॑व । प॒त॒त॒म् । आ । सु॒तान् । उप॑ ॥२
 
अश्विना । हरिणौऽइव । गौरौऽइव । अनु । यवसम् ।
 
हंसौऽइव । पततम् । आ । सुतान् । उप ॥२
 
हे अश्विनौ “हरिणाविव “गौराविव गौरमृगाविव च । ती यथा “यवसं घासम् “अनु धावतः ताविव “हंसाविव च सोममागच्छतम् ॥
पङ्क्तिः ६९:
अश्वि॑ना । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू । जु॒षेथा॑म् । य॒ज्ञम् । इ॒ष्टये॑ ।
 
हं॒सौऽइ॑व । प॒त॒त॒म् । आ । सु॒तान् । उप॑ ॥३
 
अश्विना । वाजिनीवसू इति वाजिनीऽवसू । जुषेथाम् । यज्ञम् । इष्टये ।
 
हंसौऽइव । पततम् । आ । सुतान् । उप ॥३
 
हे “वाजिनीवसू अन्नार्थं वासयितारौ “अश्विना “यज्ञम् अस्मदीयम् “इष्टये अभीष्टायैषणाय वा “जुषेथा सेवेथाम् ॥
पङ्क्तिः ८४:
अत्रिः॑ । यत् । वा॒म् । अ॒व॒ऽरोह॑न् । ऋ॒बीस॑म् । अजो॑हवीत् । नाध॑मानाऽइव । योषा॑ ।
 
श्ये॒नस्य॑ । चि॒त् । जव॑सा । नूत॑नेन । आ । अ॒ग॒च्छ॒त॒म् । अ॒श्वि॒ना॒ । शम्ऽत॑मेन ॥४
 
अत्रिः । यत् । वाम् । अवऽरोहन् । ऋबीसम् । अजोहवीत् । नाधमानाऽइव । योषा ।
 
श्येनस्य । चित् । जवसा । नूतनेन । आ । अगच्छतम् । अश्विना । शम्ऽतमेन ॥४
 
“अत्रिः अस्मत्पिता "यत् यदा “वां युवाम् “अजोहवीत् अस्तौषीत् "नाधमाना याचमाना “योषा योषिदिव । सा यथा पतिं प्रीणयति तद्वत् कुर्वन् “ऋबीसं तुषाग्निमग्निकुण्डे क्षिप्तः सन् "अवरोहन विमुञ्चन् अजोहवीत् । “श्येनस्य चिज्जवसा श्येनस्य गरुत्मत इव वेगेन । चिदित्युपमार्थे । अथवा श्येनस्य जवसा वेगेन नूतनेन प्रथमोत्पनेन सततं गच्छतः श्येनस्य प्रथमजवेन “शंतमेन अस्माकं सुखतमेन च रथेन तं रक्षितुम् आगच्छतं हे “अश्विना ॥ ॥ १९ ॥
पङ्क्तिः १०१:
वि । जि॒ही॒ष्व॒ । व॒न॒स्प॒ते॒ । योनिः॑ । सूष्य॑न्त्याःऽइव ।
 
श्रु॒तम् । मे॒ । अ॒श्वि॒ना॒ । हव॑म् । स॒प्तऽव॑ध्रिम् । च॒ । मु॒ञ्च॒त॒म् ॥५
 
वि । जिहीष्व । वनस्पते । योनिः । सूष्यन्त्याःऽइव ।
 
श्रुतम् । मे । अश्विना । हवम् । सप्तऽवध्रिम् । च । मुञ्चतम् ॥५
 
हे “वनस्पते वनस्पतिविकाररूपे पेटिके “वि “जिहीष्व विगच्छ । विवृता भव । “सूष्यन्त्याइव प्रसवोन्मुख्याः स्त्रियाः “योनिः इव भगो यथा विव्रियते तथा त्वमपि विवृता भव । तदर्थं हे “अश्विना अश्विनौ “मे “हवम् आह्वानं “श्रुतं शृणुतम् । श्रुत्वा च "सप्तवध्रिं “च मामृषिं “मुञ्चतं मोचयतम् ॥
पङ्क्तिः ११६:
भी॒ताय॑ । नाध॑मानाय । ऋष॑ये । स॒प्तऽव॑ध्रये ।
 
मा॒याभिः॑ । अ॒श्वि॒ना॒ । यु॒वम् । वृ॒क्षम् । सम् । च॒ । वि । च॒ । अ॒च॒थः॒ ॥६
 
भीताय । नाधमानाय । ऋषये । सप्तऽवध्रये ।
 
मायाभिः । अश्विना । युवम् । वृक्षम् । सम् । च । वि । च । अचथः ॥६
 
“भीताय निर्गमात् बिभ्युषे “नाधमानाय विमोक्षं याचमानाय “सप्तवध्रये “ऋषये हे “अश्विना अश्विनौ “युवं युवां “मायाभिः “वृक्षं वृक्षविकारां पेटिकां “सं “चाचथः मम निर्गमार्थं संगच्छथः । "वि अचथः “च विभक्तं कुरुथः ॥
पङ्क्तिः १३१:
यथा॑ । वातः॑ । पु॒ष्क॒रिणी॑म् । स॒म्ऽइ॒ङ्गय॑ति । स॒र्वतः॑ ।
 
ए॒व । ते॒ । गर्भः॑ । ए॒ज॒तु॒ । निः॒ऽऐतु॑ । दश॑ऽमास्यः ॥७
 
यथा । वातः । पुष्करिणीम् । सम्ऽइङ्गयति । सर्वतः ।
 
एव । ते । गर्भः । एजतु । निःऽऐतु । दशऽमास्यः ॥७
 
एतदादि ऋक्त्रयं गर्भस्राविण्युपनिषत् । एतदाद्यृक्त्रयेणासौ सप्तवध्रिः स्वयोषितः । गर्भिण्याः प्रसवायाशु स्तुतवानश्विनावृषिः । “यथा “वातः “पुष्करिणीं सरआदिकं “सर्वतः “समिङ्गयति सम्यक् चालयति “एव एवं तव "गर्भः “एजतु कम्पताम्' इतस्ततः संचरतु । “दशमास्यः दश मासान् गर्भे स्थितः “निरैतु निर्गच्छतु ।।
पङ्क्तिः १४६:
यथा॑ । वातः॑ । यथा॑ । वन॑म् । यथा॑ । स॒मु॒द्रः । एज॑ति ।
 
ए॒व । त्वम् । द॒श॒ऽमा॒स्य॒ । स॒ह । अव॑ । इ॒हि॒ । ज॒रायु॑णा ॥८
 
यथा । वातः । यथा । वनम् । यथा । समुद्रः । एजति ।
 
एव । त्वम् । दशऽमास्य । सह । अव । इहि । जरायुणा ॥८
 
वातो यथा कम्पमानो वनं कम्पयति स्वयम् । यथा समुद्रश्चलति चाल्यते वाथ वायुना ।। स्थित्वा दशैव मासांस्त्वं गर्भोल्बेन सुवेष्टितः । निर्गच्छ जठरान्मातुर्जरया सहितः पतेत् ॥
पङ्क्तिः १६१:
दश॑ । मासा॑न् । श॒श॒या॒नः । कु॒मा॒रः । अधि॑ । मा॒तरि॑ ।
 
निः॒ऽऐतु॑ । जी॒वः । अक्ष॑तः । जी॒वः । जीव॑न्त्याः । अधि॑ ॥९
 
दश । मासान् । शशयानः । कुमारः । अधि । मातरि ।
 
निःऽऐतु । जीवः । अक्षतः । जीवः । जीवन्त्याः । अधि ॥९
 
दश मासानुषित्वासौ जननीजठरे सुखम् । निर्गच्छतु सुखं जीवो जननी चापि जीवतु ॥ ॥ २० ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_५.७८" इत्यस्माद् प्रतिप्राप्तम्