"ऋग्वेदः सूक्तं १०.९०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३८९:
 
 
१०.९०.१२१२अ
 
ब्राह्मणो अस्य मुखमासीत् बाहू राजन्यः कृतः। ऊरू तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत ॥
 
द्र. भविष्यपुराणम् [[भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः ४/अध्यायः ०५|३.४.५.८]]
 
बाहू राजन्यः कृतः केन कारणेन। पद्मपुराण [[पद्मपुराणम्/खण्डः १ (सृष्टिखण्डम्)/अध्यायः ०२|१.३.१०५]] आदिषु कथनमस्ति यत् ब्रह्मणः वक्षसः अवेः प्राकट्यमभवत्। वक्षः वैक्सिंग-वेनिंग, ध्माकरणस्य स्थानमस्ति। अविः आविर्भाव - तिरोभावस्य, उदयावस्थायाः प्रतीकमस्ति, पाप-पुण्यानां आविर्भावः - तिरोभावः। बाहुविषये सार्वत्रिकमन्त्रमस्ति - सवितुः प्रसवे अश्विनोर्बाहुभ्यां पूष्णोः हस्ताभ्यां इति। बाहुमूले पाप-पुण्यानां आविर्भावः - तिरोभावः प्रचलति। अनेनानुसारेणैव बाह्वग्रे कर्मः प्रचलिष्यति।
 
१०.९०.१२ब
 
ऊरू तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत ॥
 
ऊरू वैश्यः केन प्रकारेण। पद्मपुराण १.३.१०५ आदिषु कथनमस्ति यत् ब्रह्मणः उदरात् गौ-महिष्यादीनां सृष्टिरभवत्। गोः कृत्यं सूर्यस्य रश्मिभिः भोजनस्य निर्माणं, अन्यशब्देषु, रश्मीनां संचयं अस्ति। पृथ्वीरूपी या गौः अस्ति, तस्यापि अयमेव कार्यमस्ति। यस्य ऊर्जायाः संचयं भवति, तस्य उपयोगं सर्वभूतानां पुष्ट्यै भवति। देहे यः ऊरुसंज्ञकः अंगः अस्ति, तत् उदरस्य निकटतमः अस्ति। व्यावहारिकरूपेण, नायं ऊरु अस्ति, अयं पूरुः अस्ति। अनुमानमस्ति यत् यदा नाभिद्वारः सूर्यस्य रश्मीनां आगमनाय द्वारं भवति, तदैव पूरुः ऊरुः भवति। पूरुः अर्थात् यः देहस्य न्यूनतायाः पूरणं करोति। ऊरु - यः देहस्य चेतनायाः अतिक्रमणं कृत्वा बहिर्गन्तुं शक्यते।
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.९०" इत्यस्माद् प्रतिप्राप्तम्