"ऐतरेय आरण्यकम्/आरण्यक ५/अध्यायः ३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १०:
<poem><span style="font-size: 14pt; line-height: 200%">5.3.1
 
ऊरू, इति । इन्द्राग्नी युवं सु न इत्येतस्यार्धर्चान्गायत्रीकारमु-त्तरमुत्तरस्यानुष्टुप्कारं प्रागुत्तमायाः प्र वो महे मन्दमानायान्धस इति निविद्धानं वनेन वायो न्यधायि चाकन्यो जात एव प्रथमो मनस्वानिति ते अन्तरेणाऽऽयाह्यर्वाङुपवन्धुरेष्ठा विधुं दद्राणं समने बहूनामित्येतदावपनं दशतीनामैन्द्रीणां त्रिष्टुब्जगतीनां बृहतीसंपन्नानां यावतीरावपेरं-स्तावन्त्यूर्ध्वमायुषोयावतीरावपेरंस्तावन्त्यूर्ध्वमायुषो वर्षाणि जिजीविषेत्संवत्सरा-त्संवत्सराद्दशतोजिजीविषेत्संवत्सरात्संवत्सराद्दशतो न वा त्यमू षु वाजिनं देवजूत-मिन्द्रोदेवजूतमिन्द्रो विश्वं विराजतीत्येकपदेन्द्रं विश्वा अवी-वृधन्नित्यानुष्टुभं तस्य प्रथमायाः पूर्वमर्धर्चं शस्त्वो-त्तरेणार्धर्चेनोत्तरस्याःशस्त्वोत्तरेणार्धर्चेनोत्तरस्याः पूर्वमर्धर्चं व्यतिषजति पादैः पादाननुष्टुप्कारं प्रागुत्तमायाः पूर्वस्मात्पूर्व-स्मादर्धर्चादुत्तरमुत्तरमर्धर्चंपूर्वस्मात्पूर्वस्मादर्धर्चादुत्तरमुत्तरमर्धर्चं व्यतिषजति प्रकृत्या शेषः पिबा सोममिन्द्र मन्दतु त्वेति षड्योनिष्ट इन्द्र सदने अकारीत्येतस्य चतस्रः शस्त्वो-त्तमामुपसंतत्योपोत्तमयाशस्त्वोत्तमामुपसंतत्योपोत्तमया परिदधाति, इति । परिहित उक्थ उक्थसंपदं जपति, इति । उक्थवीर्यस्य स्थान उक्थदोहः, इति ।। इत्यैतरेयब्राह्मणारण्यककाण्डे पञ्चमारण्यके तृतीयाध्याये प्रथमः खण्डः ।। १ ।। ( १२)
 
5.3.2
 
मूर्धा लोकानामसि वाचो रसस्तेजः प्राणस्याऽऽयतनं मनसः संवेशश्चक्षुषः संभवः श्रोत्रस्य प्रतिष्ठा हृदयस्य सर्वम् । इन्द्रः कर्माक्षितममृतं व्योम । ऋतं सत्यं विजिग्यानं विवाचनमन्तो वाचो विभुः सर्वस्मादुत्तरं ज्योतिरूधरप्रतिवादः पूर्वं सर्वं वाक्परागर्वाक्सप्रु सलिलं धेनु पिन्वति । चक्षुः श्रोत्रं प्राणः सत्यसंमितं वाक्प्रभूतं मनसो विभूतं हृदयोग्रं ब्राह्मणभर्तृमन्नशुभे वर्षपवित्रं गोभगं पृथिव्युपरं वरुणवय्वितमं तपस्तन्विन्द्रज्येष्ठं सहस्रधारमयुताक्षरममृतं दुहानम्, इति । एतास्त उक्थ भूतय एता वाचो विभूतयः । ताभिर्म इह धुक्ष्वामृतस्य श्रियं महीम्, इति । प्रजापतिरिदं ब्रह्म वेदानां ससृजे रसम् । तेनाहं विश्वमाप्यासं सर्वान्तामान्दुहां महत्, इति । भूर्भुवः स्वस्त्रयो वेदोऽसि । ब्रह्म प्रजां मे धुक्ष्व, इति । आयुः प्राणं मे धुक्ष्व । पशून्विशं मे धुक्ष्व । श्रियं यशो मे धुक्ष्व । लोकं ब्रह्मवर्च-समभयंब्रह्मवर्चसमभयं यज्ञसमृद्धिं मे धुक्ष्व, इति । इति वाचयत्यध्वर्युमबुद्धं चेदस्य भवति, इति । ओमुक्थशा यज सोमस्येतीज्यायै संप्रे-षितोसंप्रेषितो ये यजामह इत्यागूर्य नित्ययैव यजति व्यवान्येवानुवषट्करोति, इति । उक्तं वषटकारानुमन्त्रणम्, इति । आहरत्यध्वर्युरुक्थपात्रमतिग्राह्याश्चमसांश्च, इति ।। भक्षं प्रतिख्याय होता प्राङ्प्रेङ्खादवरोहति, इति । अथैतं प्रेङ्खं प्रत्यञ्चमवबध्नन्ति यथा शंसि-तारं भक्षयिष्यन्तं नोपहनिष्यसीति, इति । प्रेङ्खस्य ह्यायतनमासीनो होता भक्षयति, इति । अथैतदुक्थपात्रं होतोपसृष्टेन जपेन भक्षयति । वाग्देवी सोमस्य तृप्यतु । सोमो मे राजाऽऽ-युःप्राणायराजाऽऽयुःप्राणाय वर्षतु । स मे प्राणः सर्वमायुर्दुहां महत्, इति । उत्तमादाभिप्लविकात्तृतीयसवनमन्यद्वैश्वदेवान्निवि-द्धानादस्यउत्तमादाभिप्लविकात्तृतीयसवनमन्यद्वैश्वदेवान्निविद्धानादस्य वामस्य पलितस्य होतुरिति सलिल-स्यसलिलस्य दैर्घतमस एकचत्वारिंशतमानोभद्रीयं च तस्य स्थान ऐकाहिकौ वैश्वदेवस्य प्रतिपदनुचरौ, इति । च्यवेत चेद्यज्ञायज्ञीयमग्ने तव श्रवो वय इति षट्स्तोत्रियानुरूपौ यदीलान्दं भूयसीषु चेत्स्तुवी-रन्नाऽग्निंचेत्स्तुवीरन्नाऽग्निं न स्ववृक्तिभिरिति तावतीरनुरूपः, इति । संपन्नं महाव्रतं संतिष्ठत इदमहरग्निष्टोमो यथा-कालमवभृथंयथाकालमवभृथं प्रेङ्खं हरेयुः संदहेयुर्बृसीः, इति ।। इत्यैतरेयब्राह्मणारण्यककाण्डे पञ्चमारण्यके तृतीयाध्याये द्वितीयः खण्डः ।। २ ।। ( १३)
 
5.3.3
 
नादीक्षितो महाव्रतं शंसेन्नानग्नौ न परस्मै नासं-वत्सर इत्येके कामं पित्रे वाऽऽचार्याय वा शंसेदात्मनो हैवास्य तच्छस्तं भवति, इति । होतृशस्त्रेषूक्थशा यज सोमस्येत्येकः प्रैषः स नाराशंसेष्वनाराशंसेषु वा होत्रका-णामुक्थशा यज सोमानामिति, इति । तदिदमहर्नानन्तेवासिने प्रब्रूयान्नासंवत्सरवासिने नो एवासंवत्सरवासिने नाब्रह्मचारिणे नासब्रह्मचारिणे नो एवासब्रह्मचारिणे नानभिप्राप्तायैतं देशम्, इति । न भूयः सकृद्गदनाद्द्विर्गदनाद्वा द्वय्येव , इति। एक एकस्मै प्रब्रूयादिति ह स्माऽऽह जातूकर्ण्यः, इति । न वत्से च न तृतीय इति, इति । न तिष्ठंस्तिष्ठते न व्रजन्व्रजते न शयानः शयानाय नोपर्यासीन उपर्यासीना-याध एवाऽऽसीनोऽध आसीनाय, इति । नावष्टब्धो न प्रतिस्तब्धो नातिवीतो नाङ्कं कृत्वो-र्ध्वज्ञुरनपश्रितोऽधीयीत न मांसं भुक्त्वा न लोहितं दृष्ट्वा न गतासुं नाव्रत्यमाक्रम्य नाक्त्वा नाभ्यज्य नोन्मर्दनं कारयित्वा न नापितेन कार-यित्वा न स्नात्वा न वर्णकेनानुलिप्य न स्रजमपि-नह्य न स्त्रियमुपगम्य नोल्लिख्य नावलिख्य,इति । नेदमेकस्मिन्नहनि समापयेदिति ह स्माऽऽह जातूकर्ण्यः समापयेदिति गालवो यदन्यत्प्रा-क्तृचाशीतिभ्यःयदन्यत्प्राक्तृचाशीतिभ्यः समापयेदेवेत्याग्निवेश्याय-नोऽन्यमन्यस्मिन्देशे शमयमान इति, इति । यत्रेदमधीयीत न तत्रान्यदधीयीत यत्र त्वन्य-दधीयीत काममिदं तत्राधीयीत, इति । नेदमनधीयन्त्स्नातको भवति यद्यप्यन्यद्बह्वधी-यान्नैवेदमनधीयन्त्स्नातकोयद्यप्यन्यद्बह्वधीयान्नैवेदमनधीयन्त्स्नातको भवति, इति । नो एवास्मात्प्रमाद्येत्, इति । अस्माच्चेन्न प्रमाद्येदलमात्मन इति विद्यात्, इति । अलं सत्यं विद्यात्, इति । नेदंविदनिदंविदा समुद्दिशेन्न सह-भुञ्जीत न सधमादी स्यात्, इति । अथातः स्वाध्यायधर्मं व्याख्यास्याम उप पुराणे नाऽऽपीते कक्षोदके पूर्वाह्णे न संभिन्नासु च्छायास्वपराह्णे नाध्यूह्ळे मेघेऽपर्तौ वर्षे त्रिरात्रं वैदिकेनाध्यायेनान्तरियान्नास्मिन्कथां वदेत नास्य रात्रौ च न च कीर्तयिषेत्, इति । तदिति वा एतस्य महतो भूतस्य नाम भवति योऽस्यै-तदेवंयोऽस्यैतदेवं नाम वेद ब्रह्म भवति ब्रह्म भवति, इति ।। इत्यैतरेयब्राह्मणारण्यककाण्डे पञ्चमारण्यके तृतीयाध्याये तृतीयः खण्डः ।। ३ ।। ( १४) इति बहवृचब्राह्मणारण्यककाण्डे पञ्चमारण्यके तृतीयोऽध्यायः ।। ३ ।।
 
ॐ उदितः शुक्रियं दधे । तमहमात्मनि दधे । अनु मामैत्विन्द्रियम् । मयि श्रीर्मयि यशः । सर्वः सप्राणः संबलः । उत्तिष्ठाम्यनु श्रीः । उत्तिष्ठत्वनु माऽऽयन्तु देवताः । अदब्धं चक्षुरिषितं मनः । सूर्यो ज्योतिषां श्रेष्ठो दीक्षे मा मा हिँसीः । तच्चक्षुर्देव हितं शुक्रमुच्चरत् । पश्येम शरदः शतं जीवेम शरदः शतम् । त्वमग्ने व्रतपा असि देव आ मर्त्येष्वा । त्वं यज्ञेष्वीड्यः । आव-दंस्त्वं शकुने भद्रमावद तूष्णीमासीनः सुमतिं चिकिद्धि नः । यदुत्पतन्वदसि कर्कुरिर्यथा बृहद्वदेम विदथे सुवीराः । शतधारमुत्समक्षीयमाणं विपश्चितं पितरं वक्त्वानाम् । मेळिं मदन्तं पित्रोरुपस्थे तं रोदसी पिपृतं सत्यवाचम् । वाड्रमे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठितमाविरा-वीर्म एधि वेदस्य म आणी स्थ श्रुतं मे मा प्रहासीरनेना-धीतेन । अहोरात्रान्त्संदधाम्यृतं वदिष्यामि सत्यं वदि-ष्यामिवदिष्यामि तन्मामवतु तद्वक्तारमवत्ववतु मामवतु वक्तारमवतु वक्तारम् । ॐ शान्तिः शान्तिः शान्तिः । इत्युत्तरशान्तिः इति वह्वृचब्राह्मणारण्यककाण्डे पञ्चममारण्यकं समाप्तम् ।। ५ ।।