"शतपथब्राह्मणम्/काण्डम् १/अध्यायः ५/ब्राह्मण ३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४७:
देवा ह वा ऊचुः । हन्त विजितमेवानु सर्वं यज्ञं संस्थापयाम यदि नोऽसुररक्षसान्यासजेयुः संस्थित एव नो यज्ञं स्यादिति - १.५.३.[२१]
 
त उत्तमे प्रयाजे । स्वाहाकारेणैव सर्वं यज्ञं समस्थापयन्त्स्वाहाग्निमिति तदाग्नेयमाज्यभागं समस्थापयन्त्स्वाहा सोममिति तत्सौम्यमाज्यभागं समस्थापयन्त्स्वाहाग्निमिति तद्य एष उभयत्राच्युत आग्नेयः पुरोडाशो भवति तं समस्थापयन् - १.५.३.[२२]
समस्थापयन् - १.५.३.[२२]
 
अथ यथादेवतम् । स्वाहा देवा आज्यपा इति तत्प्रयाजानुयाजान्त्समस्थापयन्प्रयाजानुयाजा वै देवा आज्यपा जुषाणो अग्निराज्यस्य वेत्विति तदग्निं स्विष्टकृतं समस्थापयन्नग्निर्हि स्विष्टकृत्स एषोऽप्येतर्हि तथैव यज्ञं संतिष्ठते यथैवैनं देवाः समस्थापयंस्तस्मादुत्तमे प्रयाजे स्वाहास्वाहेति यजति यावन्ति हवींषि भवन्ति विजितमेवैतदनु सर्वं यज्ञं संस्थापयति तस्माद्यदत ऊर्ध्वं विलोम यज्ञे क्रियेत न तदाद्रियेत संस्थितो मे यज्ञ इति ह विद्यात्स हैष यज्ञो यातयामेवास यथा वषट्कृतं हुतं स्वाहाकृतं - १.५.३.[२३]
वेत्विति तदग्निं स्विष्टकृतं समस्थापयन्नग्निर्हि स्विष्टकृत्स एषोऽप्येतर्हि तथैव यज्ञं संतिष्ठते यथैवैनं देवाः समस्थापयंस्तस्मादुत्तमे प्रयाजे स्वाहास्वाहेति यजति यावन्ति हवींषि भवन्ति विजितमेवैतदनु सर्वं यज्ञं संस्थापयति तस्माद्यदत ऊर्ध्वं विलोम यज्ञे क्रियेत न तदाद्रियेत संस्थितो मे यज्ञ इति ह विद्यात्स हैष यज्ञो यातयामेवास यथा वषट्कृतं हुतं स्वाहाकृतं - १.५.३.[२३]
 
ते देवा अकामयन्त । कथं न्विमं यज्ञं पुनराप्याययेमायातयामानं कुर्याम तेनायातयाम्ना प्रचरेमेति - १.५.३.[२४]