"विकिस्रोतः:विषयकम्" इत्यस्य संस्करणे भेदः

५० वाचस्पतिकृतटीकासंवलितव्यासभाष्यसमेतानि-... नवीन पृष्ठं निर्मीत अस्ती
 
पृष्ठं रिक्तीकृतम्
अङ्कनानि : रिक्त जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
 
पङ्क्तिः १:
५० वाचस्पतिकृतटीकासंवलितव्यासभाष्यसमेतानि- [ १ समाधिपादे-
सूक्ष्मविषयत्वं चालिङ्गपर्यवसानम् ॥ ४५ ॥
पार्थिवस्याणोर्गन्धतन्मात्रं सूक्ष्मों विषयः । आप्यस्य रस-
तन्मात्रम् । तैजसस्य रूपतन्मात्रम् । वायवीयस्य स्पर्शतन्मात्रम् ।
आकाशस्य शब्दतन्मात्रमिति । तेषामहंकारः । अस्यापि लिङ्ग-
मात्रं सूक्ष्मो विषयः । लिङ्गमात्रस्याप्यलिङ्गं सूक्ष्मो विषयः । न
चालिङ्गात्परं सूक्ष्मयस्ति । नन्वस्ति पुरुषः सूक्ष्म इति । सत्यम् ।
यथा लिगाव्परमलिङ्गस्य सौक्ष्न्यं न चैवं पुरुषस्य । किंतु,
लिङ्गस्यान्वयिकारणं पुरुषो न भवति, हेतुस्तु भवतीति ।
अतः प्रधाने सौक्ष्म्यं निरतिशयं व्याख्यातम् ॥ ४५ ॥
ता एव सबीजः समाधिः ॥ ४६ ॥
ताश्चतस्रः समापत्तयो बहिर्वस्तुबीजा इति समाधिरपि
सबीजः । तत्र स्थूलेऽर्थे सवितर्को निर्वितर्कः, सूक्ष्मेऽर्थे सवि-
चारो निर्विचार इति चतुर्धोपसंख्यातः समाधिरिति ॥ ४६ ॥
किं भूतसूक्ष्म एव ग्राह्यविषया समापत्तिः समाप्यते । न । किंतु--सूक्ष्मविषयत्वं
चालिङ्गपर्यवसानम् । पार्थिवस्य परमाणोः संवन्धिनी या गन्धतन्मात्रता सा समा- पत्तेः सूक्ष्मो विषयः । एवमुत्तरत्रापि योज्यम् । लिङ्गमात्रं महत्तत्त्वं तद्धि लयं गच्छति प्रधान इति । अलिङ्गं प्रधानं तद्धि न व्कहिल्लयं गच्छतीत्यर्थः । अलिङ्गपर्यवसानत्व- माह--न चालिङ्गात्परमिति । चोदयति-ननु पुरुषोऽपि सूक्ष्मो नालिङ्गमेवेत्यर्थः । परिहरति-सत्यमिति । उपादानतया सौ‌‍‍‍‍क्ष्म्यमलिङ्ग एव नान्यत्रेत्यर्थः । तत्र पुरुषार्थ- निमित्तत्वान्महदहंकारादेः पुरुषोऽपि कारणमलिङ्गवदिति । कुत एवंलक्षणमलिङ्गस्यैव सौ‌‍‍‍‍क्ष्म्य- भित्याशयवान्पृच्छति--किं ‌त्विति । उत्तरमाह --लिङ्ग‌स्येति । सत्यं कारणं न तृपा- दानम् । यथा हि प्रधानं महदादिभाषेन परिणमते न तथा पुरुषस्तद्धेतुरपीत्यर्थः । उप- संहरति--अतः प्रधान एव सौक्ष्म्यं निरतिशयं व्याख्यातम् ॥ ४५ ॥
 
चतसृणामपि समापत्तीनां ग्राह्यविषयाणां संप्रज्ञातत्यमाह--ता एव सबीजः
समाधिः । एवकरो भिन्नक्रमः सबीज इत्यस्यानन्तरं द्रष्टव्यः । ततश्चतस्त्रः समां- पत्तयो ग्राह्यविषयाः सबीजतया नियम्पन्ते । सबीजता घनियता ग्रहीतृग्रहणगो- चरायामपि समापत्तौ विकल्याविकल्पभेदेनानिपिद्धा व्यवतिष्ठते । तेन ग्राह्ये चतस्रः
 
१ क. ख. च. छ. प्यस्यापि र । २ क. ख. च. छ. 'ति । स च ! ३ क, ज एतलक्ष ।
"https://sa.wikisource.org/wiki/विकिस्रोतः:विषयकम्" इत्यस्माद् प्रतिप्राप्तम्