"तैत्तिरीयारण्यकम्(विस्वर)/प्रपाठकः १" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ६६:
1.12 अनुवाक १२
 
आतनुष्व प्रतनुष्व । उद्धमाऽऽधम संधम । आदित्ये चन्द्रवर्णानाम् । गर्भमाधेहि यः पुमान्, इति । इतः सिक्तꣳ सूर्यगतम् । चन्द्रमसे रसं कृधि । वारादं जनयाग्रेऽग्निम् । य एको रुद्र उच्यते, इति । असंख्याताः सहस्राणि । स्मर्यते न च दृश्यंते ( १) । एवमेतं निबोधत, इति । आ मन्द्रैरिन्द्र हरिभिः । याहि मयूररोमभिः । मा त्वा केचिन्न्येमुरिन्न पाशिनः । दधन्वेव ता इहि, इति । मा मन्द्रैरिन्द्र हरिभिः । यामि मयूररोमभिः । मा मा केचिन्न्येमुरिन्न पाशिनः । निधन्वेव ताँ३ इमि, इति । अणुभिश्च महद्भिश्च ( २) । निघृष्वैरसमायुतैः । कालैर्हरित्वमापन्नैः । इन्द्राऽऽयाहि सहस्रयुक्, इति । अग्निर्विभ्राष्टिवसनः । वायुः श्वेतसिकद्रुकः । संवत्सरो विषूवर्णैः । नित्यास्तेऽनुचरास्तव, इति । सुब्रह्मण्योꣳ सुब्रह्मण्योꣳ । इन्द्राऽऽगच्छ हरिव आगच्छ मेधातिथेः । मेष वृषणश्वस्य मेने ( ३) । गौरावस्क-न्दिन्नहल्यायै जार । कौशिकब्राह्मण गौतमब्रुवाण, इति । अरुणाश्वा इहाऽऽगताः । वसवः पृथिविक्षितः । अष्टौ दिग्वाससोऽग्नयः । अग्निश्च जातवेदाश्चेत्येते, इति । ताम्राश्वास्ताम्ररथाः । ताम्रवर्णास्तथाऽसिताः । दण्डहस्ताः खादग्दतः । इतो रुद्राः परां गताः । ( ४) उक्तꣳ स्थानं प्रमाणं च पुर इत, इति । बृहस्पतिश्च सविता च । विश्वरूपैरिहाऽऽगताम् । रथेनोदकवर्त्मना । अप्सुषा इति तद्वयोःतद्द्वयोः, इति । उक्तो वेषो वासाꣳसि च । कालावयवानामितः प्रतीज्या । वासात्या इत्यश्विनोः । कोऽन्त-रिक्षे शब्दं करोतीति । वासिष्ठो रौहिणो मीमाꣳसां चक्रे । तस्यैषा भवति, इति । वाश्रेव विद्युदिति, इति । ब्रह्मण उदरणमसि । ब्रह्मण उदीरणमसि । ब्रह्मण आस्तरणमसि । ब्रह्मण उपस्तरणमसि(५), इति ।। दृश्यते च मेने परां गताश्चक्रे षट् च ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके प्रथमप्रपाठके द्वादशोऽनुवाकः ।। १२ ।।