"ऋग्वेदः सूक्तं ७.२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ७२:
ये । सुऽक्रतवः । शुचयः । धियम्ऽधाः । स्वदन्ति । देवाः । उभयानि । हव्या ॥२
 
“ये "देवाः “सुक्रतवः सुप्रज्ञाः सुकमणोसुकर्माणो वा “शुचयः दीप्तिमन्तः “धियंधाः कर्मणां धारयितारः “उभयानि सौमिकानि च हविःसंस्थादीनि च “हव्या हव्यानि “स्वदन्ति स्वदयन्ति भक्षयन्ति तेषाम् “एषां मध्ये यज्ञैः हविर्भिः स्तोत्रैर्वा “यजतस्य यजनीयस्य “नराशंसस्य नरैः प्रशंसनीयस्य अग्निविशेषस्य “महिमानं महत्त्वम् “उप “स्तोषाम वयमुपस्तुमः । तथा च यास्कः - ‘ नरा अस्मिन्नासीनाः शंसन्ति । अग्निरिति शाकपूणिर्नरैः प्रशस्यो भवति । तस्यैषा भवति । नराशंसस्य महिमानमेषामुप स्तोषाम यजतस्य यज्ञैर्ये सुकर्माणः शुचयो धियं धारयितारः स्वदयन्तु देवा उभयानि हवींषि सोमं चेतराणि च ' (निरु. ८. ६) इति ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.२" इत्यस्माद् प्रतिप्राप्तम्