"आर्षेयकल्पः/अध्यायः ०५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३८१:
- -- -- - -
इन्द्राग्न्योः स्तोमः
अथैष इन्द्राग्न्योः स्तोमः (तां० ब्रा० १९.१७ ) इत्यनुवाकेन इन्द्राग्न्योः स्तोम उक्तः। राजपुरोहितौ सह यजेयाताम् इन्द्राग्न्योः स्तोमेन । पृथग्वा (ला० श्रौ० ९. ४. ३०)। तस्य कल्पः --
एकाहः-इन्द्राग्न्योः स्तोमः [अ. ५. ख. १७
पवस्व वाचो अग्रियः (सा० ७७५-७) उपास्मै गायता नरः (सा० ६५१-३) पवमानस्य ते कवे (सा० ६५७-९) ॥१॥
इति बहिष्पवमानम् ॥
 
अग्निं दूतं वृणीमहे (सा० ७९०-८०२) इत्युभयान्याज्यानि ॥ २ ॥
अग्निं दूतम् (सा० ७९०-२) आ नो मित्रावरुणे-(सा० ६६३-५)न्द्रमिद्गाथिनो बृहद् (सा० ७९६-८) इन्द्राग्नी आगतं सुतम् (सा० ६६९-७१) इत्याज्यानि ॥
पुनानः सोम धारये-( सा० ६७५-६ )ति रौरवमेकस्याम् (ऊ० १. १. २) । यौधाजयमेकस्याम् (ऊ० १. १.३) । दैर्घश्रवसमेकस्याम् (ऊ० ११.२.१६)। रथन्तरं (र० १.२.१०) तिसृषु । बृहत्पृष्ठम् (र० १. १. ५)। श्यैतस्यर्क्षु अभीवर्तो ब्रह्मसाम (सा० ८११-२; ऊ० ७. १. ७) ॥ ३ ॥
समानमितरं ज्योतिष्टोमेन ॥४॥
इति । उच्चा ते (सा० ६७२-४) गायत्रं चामहीयवं (ऊ० १. १. १) च । पुनानः सो-( सा० ६७५-६ ) रौरवं यौधाजयं 15 (ऊ० १. १. २.३) दैर्घश्रवस-(ऊ० ११. २. १६)मिति सामतृचः । रथन्तरं (र० १. २. १०) तिसृषु। औशन-(ऊ० १.१.४)मन्त्यम् । बृहच्च (र० १. १. ५) वामदेव्यं ( ऊ० १. १. ५) च श्यैतस्यर्क्षु अभीवर्तो (ऊ० ७. १. ७) ब्रह्मसाम । स्वासु कालेयम् (ऊ० १. १. ७) इति पृष्ठानि । स्वादिष्ठये-(सा० ६८९-९१)ति गायत्र-संहिते ( ऊ० १. १. ८)। पवस्वेन्द्रमच्छे-(६९२-६)ति सफ-(ऊ० १. १. ९)पौष्कले (ऊ०१.१.१०)। पुरोजिती वो अन्धस (सा० ६९७-९) इति श्यावाश्वान्धीगवे (ऊ० १. १. ११-२) । काव-(ऊ० १.१.१३) मन्त्यम् । कावमेकतृचे । एकर्चा इतरे । यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १.१. १४) ॥ ४ ॥
त्रिवृत्पञ्चदशौ स्तोमौ विपर्यासम् ॥ ५ ॥
इति स्तोमविधिः ॥५॥
इति इन्द्राग्न्योः स्तोमः ॥ १७ ॥
- - - - - - -- - - -
विघनः प्रथमः
अथैष विघन (तां० ब्रा० १९. १८) इत्यनुवाकेन विघन उक्तः । इन्द्रमदेव्यो माया असचन्त (तां० ब्रा० १९. १९) इति द्वितीयः । विघनाभ्यां पशुकामो यजेताभिचरन् वा (ला० श्रौ० ९.४.३३) । प्रथमं विघनमाह --
स्वासु श्यैतं (सा० ८११-२, ऊ० २. १. ३) । संहितादुत्तरं जराबोधीयम् (ऊ० १०. २. १०) । श्रुध्यस्य लोके विशोविशीयम् (ऊ० १३. १. १) आन्धीगवादुत्तरं सोमसाम (ऊ० १३.२.६) आथर्वणं वा (र० १. २. १२) ॥ १ ॥
समानमितरं प्रथमेन साहस्रेण ॥२॥
इति । सोमसामाथर्वणं वेति विकल्पस्य व्यवस्था सूत्रोक्ता । आथर्वणं पशुकामयज्ञे कुर्यात् । सोमसामाभिचरतः (ला० श्रौ० ९.४.३४ ) इति । पवस्व वाचो (सा० ७७५-७) दविद्युतत्या-पवमानस्य ते कवे (सा० ६५४-९) इति बहिष्पवमानम् ॥
अग्न आयाहि ( सा० ६६०-२) मित्रं वयम् इन्द्रमिद्गाथिन इन्द्रे (सा० ७९३-८०२) अग्नेत्याज्यानि ॥
अस्य प्रत्नामनुद्युतम् (सा० ७५५-७) इति गायत्रं चामहीयवं च। परीतो षिञ्चता सुतम् (सा० १३१३-५) इति समन्तं (ऊ.
 
279
एकाहः--विघन: (१) अ. ५. ख. १८]
९. १.३) प्रथमायाम् । रथन्तरं (र० २. २. ६) दैर्घश्रवसे (ऊ० ५. २. ४) तृचयोः । यौधाजयमध्यास्यायाम् (ऊ० ७. २. ५) । अयं सोम (सा० १४७१-३) इति पार्थ-(ऊ० ११.२.५)मन्त्यम् । बृहच्च (र० १. १. ५) वामदेव्यं (ऊ० १. १. ५) च श्यैतं ( उ० १०. १. ४) च कालेयं ( ऊ० १. १. ७) चेति पृष्ठानि । स्वादिष्ठये-(सा० ६८९-९ )ति गायत्र-संहित-(ऊ० १. १.८) जराबोधीयानि (ऊ० १०.२.१०)। पवस्वेन्द्रमच्छे-(सा० ६८९-९१)ति सफ-(ऊ० १. १. ९)विशोविशीये (ऊ० १३.१.१) । पुरोजिती-(सा० ६९७-९)ति श्यावाश्वान्धीगवे (ऊ० १.१.११-२)। सोमसामा-( ऊ० १३. २.६ ) थर्वणं ( र० १. २. १२) वा । सूर्यवतीषु काव-(ऊ० ६.२.११)मन्त्यम् । यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १.१.१४) ॥२॥
स्तोमक्लृप्तिमाह --
द्वे त्रिवृती स्तोत्रे । द्वे द्वादशे। द्वे पञ्चदशसप्तदशे। द्वे
एकविंशनवदशे । द्वे चतुर्विंशे। द्वे त्रिणवे ॥३॥
इति । द्वादशस्य विष्टुतिः पुनःस्तोमे दर्शिता । अथ नवदशस्य । तिसृभ्यो हिंकरोति स पराचीभिः । त्रयोदशभ्यो हिंकरोति स तिसृभिः स सप्तभिः स तिसृभिः । तिसृभ्यो हिंकरोति स पराचीभिरिति। तदुक्तम्-- एकान्नविंशे च परिवर्तिनि पर्यायावभितस्त्रयोदशीमध्येऽस्मिन् प्रथमायास्त्रिर्वचनं तथोत्तमाया (ला० श्रौ० ६. ७. १४-५) इति ॥३॥
इति प्रथमो विघनः ॥१८॥
 
द्वितीयो विघनः
द्वितीयं विघनमाह --
पवस्व वाचो अग्रियः (सा० ७७५-७) उपास्मै गायता नरः (सा० ६५१-३) पवमानस्य ते कवे (सा० ६५७-९) ॥ १ ॥
इति बहिष्पवमानम् ॥
नमस्ते अग्न ओजसे ( सा० १६४८-५०) मित्रं वयं हवामहे ( सा० ७९३-५ ) समस्य मन्यसे विशस् (सा० १६५१-३) ता हुवे ययोरिदम् (सा० ८५३-५) ॥२॥
इत्याज्यानि ।
प्रत्नं पीयूषं पूर्व्यं यदुक्थ्यम् (सा० १४९४-६) इति द्वयोः सतोबृहत्योर्गायत्रं तिसृषु आमहीयवमेकस्याम् (ऊ. १३. २. ७)। ऐडं सौपर्णमेकस्याम् ( ऊ० १३. २. ८) । सत्रासाहीयमेकस्याम् (ऊ० १३. २. ९)। यैका परिशिष्यते तस्यां सदोविशीयम् ( ऊ० १३. २. १०)। पुनानः सोम धारय ( सा० ६७५-६) इति रौरवमेकस्याम् (ऊ० १. १. २) । यौधाजयमेकस्याम् (ऊ० १. १. ३)। समन्तमेकस्याम् (ऊ० ६. २. २)। रथन्तरं तिसृषु (र० १. २. १०)। अध यदिमे पवमान रोदसी (सा० १४९६) इत्युत्सेध एकस्याम् (ऊ० १३. २. ११)। अयं सोम (सा० १४७१-३) इति पार्थम् (ऊ. ९. २. ५) अन्त्यम् ॥ ३ ॥
[ इति माध्यंदिनः पवमानः ॥ ]
सतो द्वे बृहत्यौ द्वासप्तत्यक्षरे । तत्र चतुर्विंशतिचतुर्विंशत्यक्षरैस्त्रिस्रो गायत्रीः कृत्वा तासु गायत्रं कार्यम् । तद्यथा -- प्रत्नं
 
281
एकाहः --विघनः (२) [अ. ५. ख. १८]
 
पीयूषं पूर्व्योम् । इन्द्रमभिजायमानोम् । वसुरुचो दिव्या अभ्योम् इति । यथा --प्रत्नं पीयूषं पूर्व्याम् इत्यामहीयवम् । इन्द्रमभोवेत्यैडं सौपर्णम् । वसुरुच इति सत्रासाहीयम् । या तु सतोबार्हते तृचे परिशिष्टा सतोबृहती अध यदिम इति तस्यां सदोविशीयम् । शिष्टं स्पष्टम् ॥
अथ तैत्तिरीयकम् । सतोबृहतीषु स्तुवते व्यतिषिक्ताभिः स्तुवते (तै० ब्रा० २. ७. १८. ५) इति । व्यतिषङ्गः सतोबृहतीनां बृहतीभिर्व्यवधानम् । ततश्च व्यतिषङ्गसंपादनार्थोऽध यदिम इत्यस्याः पुनः प्रयोग इत्यर्थकारितः संचारो न दोषाय । उक्तं चोपग्रन्थे -- न पुनः समानाहनि स्तोत्रियासंचारो विद्यते अन्यत्र विघना-(उ० ग्र० सू० ३.२)दिति ॥ ३॥
बृहच्च (र० १. १. ५) वामदेव्यं ( ऊ० १. १. ५) च तदिदास भुवनेषु ज्येष्ठम् (सा० १४८३-५ ) इति श्यैतं (ऊ० १३. २. १२) स्वासु कालेयम् (ऊ० १.१.७) ॥ ४ ॥
इति पृष्ठानि ।।
स्वादिष्ठया मदिष्ठया ( सा० ६८९-९१ ) इति गायत्रं तिसृषु संहितमेकस्याम् (सा० १.१. ८) सुरूपमेकस्याम् (ऊ० १३. २. १३)। स्वाशिरामर्क एकस्याम् (र० ३.१.२) । पवस्वेन्द्रमच्छे-(सा० ६९२-६)ति सफ-(ऊ० १.१.९)विशोविशीये (ऊ० १३. १. १)। पुरोजिती वो अन्धस (सा० ६९७-९) इति गौरीवितमेकस्याम् (ऊ० ४. १. १३) । निषेध एकस्याम् (ऊ० १२. १. ६)। श्यावाश्वमेकस्याम् (ऊ० १. १. ११) ।
आन्धीगवं तिसृषु ( ऊ० १. १. १२) मधुश्चुन्निधनं तिसृषु (ऊ० ८.२.१५)। सुमन्मा वस्वीरन्ती सूनरी-(सा० १६५४-६)ति वारवन्तीयं तिसृषु (ऊ० १३.२.१४)। कावम् (ऊ० १.१.१३) अन्त्यम् ॥ ५
इत्यार्भवः पवमानः॥
यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १.१. १४) ॥६॥
अथ स्तोमाः --
द्वे त्रिवृती स्तोत्रे । द्वे द्वादशे । द्वे पञ्चदशसप्तदशे। द्वे नवदशचतुर्विंशे । द्वे चतुर्विंशैकविंशे। द्वे त्रिणवे ॥ ७॥
इति द्वितीयः विघनः ॥१८॥
- - - -- - -
संदंशः
अथैष संदंशोऽभिचरन्यजेत (ष० वि० ब्रा० ४. ४) इति षड्विंशब्राह्मणे संदंश उक्तः । अथैष वज्रोऽभिचरन्यजेत (ष० विं० ब्रा० ४. ५) इति वज्रः। राजानं संदंशेनाभिचरेत् । जनपदं वज्रेण (ला० श्रौ० ९.४.३८-९)। तत्र संदंशमाह --
श्येनमाज्यबहिष्पवमानम् ॥ १ ॥
इति । पवमानस्य जिघ्नतः (सा० १३१०-२) पुनानो अक्रमीदभि ( सा० ९२४-६ ) पवमानस्य ते कवे (सा० ६५७-९) इति बहिष्पवमानम् ॥
अग्निर्वृत्राणि ( सा० १३९६-८) मित्रं हुवे (सा० ८४७-८) उ त्वा मन्दन्तु सोमाः (सा० १३५४-६) ता हुवे ययोरिदम् (सा० ८५३-५) इत्याज्यानि ॥१॥
 
283
एकाहः-संदंशः [अ. ५. ख. १९]
 
अर्षा सोम द्युमत्तम ( सा० ९९४-६) इति गायत्र-वार्षाहरे (र० ३. १. ३)। पुनानः सोम धारय (सा० ६७५-६) इति वैयश्वमेकस्याम् (ऊ० १३. २. १५)। वषट्कारणिधनमेकस्याम् (ऊ० १३. २. १६)। रौरवमेकस्याम् (ऊ० १. १. २) । यौधाजयं तिसृषु (ऊ० १. १. ३)। औशनम् (ऊ० १.१.४) अन्त्यम् ॥ २॥
[इति माध्यंदिनः पवमानः ॥]
रथन्तरं (र० १. १. १) च वामदेव्यं (ऊ० १.१. ५) च सप्तहं (र० ३. २. १ ) च कालेयं (ऊ० १. १. ७)॥३॥
इति पृष्ठानि ॥
यस्ते मदो वरेण्य (सा० ८१५-७) इति गायत्रं वार्षाहरं (र० ३. १. ४) सत्रासाहीयम् ( ऊ० १३. २. १७)। पवस्वेन्द्रमच्छा (सा० ६९२-६) इति काशीतौ-( ऊ० १३. २. १८)पगवे (ऊ० १०. २. १)। पुरोजिती वो अन्धस (सा० ६९७-९) इति नानदा-(ऊ० २. २. १८)न्धीगवे (ऊ० १. १. १२) । सामत्रयाणां यत् प्रथमं (र० ३. २. २)। कावम् (ऊ० १.१.१३) अन्त्यम् ॥४॥
[ इत्यार्भवः पवमानः ।।]
सामत्रयाणां यत् प्रथममिति । हाउ हाउ हाउ अस् फडित्यादि (आ० गा० २.७.८१)॥ ४ ॥
यज्ञायज्ञीयमग्निष्टोमसाम ॥५॥
स्तोमानाह --
द्वे त्रिवृती स्तोत्रे । द्वे द्वादशे । द्वे पञ्चदशे । द्वे एकविंशे ।
द्वे चतुर्विंशे । द्वे त्रिणवे ॥६॥
इति । त्रिवृत्पञ्चदशैकविंशत्रिणवानामभिचरणीया विष्टुतयः षड्विंशेऽधीताः। तत्र त्रिवृतोर्विष्टुत्योर्विकल्पः ॥ ६ ॥
इति संदंशः ॥१९॥
 
वज्रः
वज्रमाह --
पवस्वेन्दो वृषा सुतोऽ-( सा० ७७८-८० )पघ्नन् पवते मृध ( सा० १२१३-५ ) इति पुरस्तात् पर्यासस्य तृचे । उद्धरति सत्रासाहीयम् (ऊ० १३. २. १७) । पुरोजिती वो अन्धस (सा० ६९७-९) इति नानदमेकस्याम् (ऊ० २. २. १८) । तस्यामेवान्धीगवम् (ऊ० १. १. १२)। श्यावाश्वमेकस्याम् (ऊ० १. १. ११ )। सामैकस्यां त्रयाणां यद् द्वितीयम् (र० ३. २. ३)। प्रमंहिष्ठीयम् (ऊ० २. २. ५) औपगवम् (ऊ० ४.१. १८) उद्वंशीयम् (ऊ० ६. १. ८) ॥ १॥
महानाम्न्यः षोडशिसाम । समानमितरं पूर्वेण ॥२॥
इति । पवमानस्य जिघ्नतः (सा० १३१०-२) पुनानो अक्रमीदभि(सा० ९२४-६) पवस्वेन्दो वृषा सुतः (सा० ७७८-८० ) अपघ्नन् पवते मृधः (सा० १२३७) पवमानस्य ते कवे (सा० ६५७-९) इति बहिष्पवमानम् ॥
 
285
एकाहः-- वज्रः [अ. ५. ख. २०]
अग्निर्वृत्राणि (सा० १३९६-८) मित्रं हुवे पूतदक्षम् (सा० ८४७-८) उ त्वा मन्दन्तु सोमाः (सा० १३५४-६) ता हुवे ययोरिदम् (सा० ८५३-५) इत्याज्यानि ॥
अर्षा सोम द्युमत्तम ( सा० ९९४-६) इति गायत्रवार्षाहरे (र० ३.१.३) । पुनानः सो ( सा० ६७५-६) इति वैयश्वं (ऊ० १३. २. १५) वषट्कारनिधनं (ऊ० १३. २. १६) रौरव-(ऊ० १. १. २)मिति सामतृचौ। यौधाजयं तिसृषु (ऊ० १. १.३)। औशन-(ऊ० १.१. ४)मन्त्यम् ॥
रथन्तरं (र० १.१.१) च वामदेव्यं (ऊ० १.१. ५) च सप्तहं (र० ३. २. १) च कालेयं (ऊ० १.१. ७) चेति पृष्ठानि ॥
यस्ते मदो वरेण्य (सा० ८१५-७) इति गायत्रवार्षाहरे (र० ३. १. ४)। पवस्वेन्द्रमच्छे- (सा० ६९२-६)ति काशीतौ-(ऊ० १३. २. १८)पगवे (ऊ० १०. २. १) एकर्चयोः । पुरोजिती वो (सा० ६९७-९) इति नानदा-( ऊ० २. २. १८)न्धीगवे (ऊ० १. १. १२) प्रथमायाम् । श्यावाश्वं द्वितीयायाम् (ऊ० १. १. ११) । अभ्याभूर् ( आ० गा० ८२ ) इत्यादिकं महासाम तृतीयायाम् (र० ३. २. ३)। काव-( ऊ० १.१.१३ )मन्त्यम् ।
यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १. १. १४)।
प्रमंहिष्ठीयं त्वं न इन्द्र ( सा० ११६९-७१) इत्यौपगवमुद्वंशीयमित्युक्थानि ॥
 
महानाम्न्यः षोडशिसाम । तासां स्तुतिवेलायामुदघोषः कर्तव्यः । न त्वपां निधनं यजुषा स्यात् ॥ २ ॥
स्तोमविधिमाह --
सर्वः पश्चदशः ॥३॥
इति । अभिचरणीया विष्टुतिः ॥ ३॥
संदंशवज्रयोरन्ततः शान्त्यर्थं ज्योतिष्टोमेन यष्टव्यमित्याह --
क्लृप्तो ज्योतिष्टोमः शान्त्यर्थः । शान्त्यर्थः ॥ ४ ॥
इति ॥४॥
 
इति वज्रः ।। २० ।।
 
इति वामनार्यसूनुः कुशिकान्वयसंभवो वरदराजः ।
एकाहानां कल्पं व्याचष्ट यथागमं यथाबुद्धि ।
इति श्रीवमनार्यसूनुवरदराजविरचितायामार्षेयकल्पव्याख्यायां
पञ्चमोऽध्यायः ॥५॥
एकाहः समाप्तः ॥
 
 
"https://sa.wikisource.org/wiki/आर्षेयकल्पः/अध्यायः_०५" इत्यस्माद् प्रतिप्राप्तम्