"आर्षेयकल्पः/अध्यायः ०६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ६१:
व्युष्टेरुत्तरस्याह्नो बहिष्पवमानमथ यदेव छन्दोमपवमानस्योत्तममहस्ततेतत्तस्य शशकर्णकॢप्ता बृहती ६-९-५
</span></poem>
 
{{भाष्यम्|
<poem>
287 षष्ठोऽध्यायः अहीनः
ज्योतिष्टोमोऽतिरात्रः
अथ विंशप्रभृतिभिरध्यायैर्ब्राह्मणे त्रिभिः ।
येऽहीना विहितास्तेषां क्लृप्तिः षष्ठादिषु त्रिषु ॥
पौर्णमासीदीक्षामासापवर्गाहीना ( ला० श्रौ० ६. ५. १ ) इत्यादि पटलत्रयम् । तेषां सूत्रम्-सर्वेऽतिरात्रा अहीनाः । द्विरात्रप्रभृतयश्चाहर्गणाः ( ला० श्रौ० ६. ५. ६ ) इति । चातुर्मास्यराजसूयौ तु नाहीनौ । तयोरेकाहप्रकरण एव समाम्नानात् । अह्नां संपाताभावाच्च । तत एव वक्ष्यमाणोऽहीनरात्रेर्विशेषः तयोर्न भवति ॥
अत्र त्रिवृद्बहिष्पवमानम् ( तां० ब्रा० २०. १ ) इत्यादि प्रथमानुवाकेनोक्तस्य ज्योतिष्टोमातिरात्रस्य क्लृप्तिमाह
क्लृप्तो ज्योतिष्टोमोऽतिरात्रोऽषोडशिको यदि वा षोडशिमान् ।। १ ।।
इति । ब्राह्मणे षष्ठादिभिश्चतुर्भिरध्यायैरतिरात्रसंस्थो ज्योतिष्टोमोऽषोडशिकः क्लृप्तः । यदि वा षोडशमान् इति तु
 
 
288
ब्राह्मणान्तरानुसारेणोक्तम् । अस्य चातिरात्रस्य प्रयोग आदावेवास्माभिर्दर्शितः ॥ १ ॥ वक्ष्यमाणानां रात्रेर्विशेषमाह -
आहीनिक्यां रात्रौ । पन्यंपन्यमित् सोतार (सा० १६५७-६) इति । श्रौतकक्षं ( ऊ० १४. १. १ ) दैवोदासं होतृषाम (ऊ० १. १. २) कौत्सस्य लोक आष्टादंष्ट्रम् (ऊ० १४. १. २) आ त्वा विशन्त्विन्दव (सा० १६६०-२) इत्येतासु ॥ २ ॥
समानमितरं सात्रिक्या ॥ ३ ॥
इति । दैवोदासं होतृषामेति । इह खल्वाज्यानि पृष्ठानि साग्निष्टोमानि चोक्थानि । प्रत्येकं रात्रिपर्याया इति चत्वारि चत्वारि सामानि यथाक्रमं होतृमैत्रावरुणब्राह्मणाच्छंस्यच्छावाकैरनुशंस्यन्त इति तत्तत्संबन्धेन व्यवह्रियन्ते । ततश्च श्रौतकक्षात् परं यद्धोतृषाम मध्यमस्य रात्रिपर्यायस्य प्रथमं साम तद्दैवोदासं नियतम् । न त्वौर्वसद्मनेन सह वैकल्पिकमित्यर्थः । सात्रिक्या इति तुल्यार्थयोगे चतुर्थीप्रयोगः छान्दसः ! सात्रिक्या रात्र्याः समानमन्यदित्यर्थः । सत्रेषु द्वादशाहादिषु या रात्रिः सा सात्रिकी । एवं च ज्योतिष्टोमेन समानमिति वक्तव्ये सात्रिक्येति वचनं सत्रेषु सर्वस्तोमातिरात्रादीनामाहिनिकानामप्यतिदेशे प्राकृत्येव रात्रि
रिति प्रदर्शनार्थम् । ब्राह्मणे च षष्ठादिभिरध्यायैर्विहितो ज्योतिरतिरात्रः स्वतन्त्रः एव । ननु द्वादशाहाभूतः तस्मिंश्च नाहिनिकी
 
 
289
अहीन:- सर्वस्तोमोऽतिरात्रः [अ. ६. ख. २]
रात्रिरिति प्रतिपादितम् । सूत्रे ज्योतिष्टोमविधिरनन्तराम्नानात् (ला० श्रौ० ९. ६. १८) इत्यादिना ॥ २ ॥
इति ज्योतिष्टोमोऽतिरात्रः ।। १ ।।।
सर्वस्तोमोऽतिरात्रः
अथ सर्वस्तोमोऽतिरात्रः । त्रिवृद्बहिष्पवमानम्। पञ्चदशान्यज्यानि । सप्तदशो माध्यंदिनः पवमानः । एकविंशानि पृष्ठानि । त्रिणव आर्भवः । त्रयस्त्रिंशोऽग्निष्टोमः । प्रत्यवरोहीण्युक्थानि । त्रिणवं प्रथमम् । द्वे एकविंशे सषोडशिके । पञ्चदशी रात्रिः । त्रिवृत्संधिः । सर्वस्तोमेनातिरात्रेण बुभूषन् यजेत (तां० ब्रा० २०. २) इत्यनुवाकेनोक्तः । तस्य कल्पः----
सर्वस्तोमस्योपवती प्रतिपत् । स्वासु श्यैतम् (सा० ८११-२ ; ऊ० २. १. ३) परिस्वानार्भवीया ( सा० १०९३-५ ) । संहितादुत्तरं जराबोधीयम् ( ऊ० १०. १. १८) । आन्धीगवादाथर्वणम् (र० ३. १. १) ॥ १ ॥
समानमितरं प्रथमेन साहस्रेण ॥ २ ॥
तस्य ज्योतिष्टोमोऽतिरात्रः षोडशमान् ॥ ३ ॥
इति । आर्भवीयेत्यार्भवाद्या गायत्रीत्यर्थः । उप-दवि-पवे-( सा० ६५१-९ ) ति बहिष्पवमानम् । अग्न-आ नो मित्रा-( सा० ६६०-५) मित्रं वयम-इन्द्रमिद्गाथिनः-इन्द्रे अग्ने-( सा० ७९३-८०२) त्याज्यानि ॥
 
 
 
290
अस्य प्रत्ने(सा० ७५५-७)ति गायत्रं चामहीयवं (ऊ०९. २.३) च । परीतो षिञ्चता सुतम् (सा० १३१३-६) इति समन्त- (ऊ० ९. १.३ )माद्यायाम् । रथन्तर ( र० २.२.६ )दैर्घश्रवसे (ऊ० ५.२.४) तृचयोः । यौधाजयमध्यास्यायाम् (ऊ० ७.२.५) अयं सोम (सा० १४७१-३) इति पार्थमन्त्यम् (ऊ० ९.२.५) । बृहच्च (र० १.१. ५) वामदेव्यं ( ऊ० १. १.५) च श्यैतं (ऊ० १०.१. ४) च कालेयं (ऊ० १. १. ७) चेति पृष्ठानि ।। परिस्वानो गिरिष्ठा ( सा० १०९३-५) इति गायत्र-संहिते (ऊ० ९.२.६) जराबोधीयम् (ऊ० १०.१.१९) । पवस्वेन्द्रमच्छे- (सा० ६९२-६)ति सफ(ऊ० १. १.९)श्रुध्ये (ऊ० ९. १.२०) । पुरोजिती व (सा० ६९७-९) इति श्यावाश्वान्धीगवे ( ऊ० १.१. ११-२) । आथर्वणं (र० १ .१.९) च । सूर्यवतीषु काव(ऊ० ९. २.११ )मन्त्यम् ।।
यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १. १. १४) । साकमश्वं सौभरं (ऊ० १. १ १५-६) नार्मेधम् (ऊ० १.१.१७)मि त्युक्थानि । गौरीवितं (ऊ० १.२.१७) षोडशिसाम । आहीनिकी रात्रिः । संधिः प्राकृतः । अतःप्रभृति ब्राह्मणेनैव स्तोमानां
विधानात् आर्षयकल्पे नोक्तः ।। ३ ।।
इति सर्वस्तोमोऽतिरात्रः ।।२।।
अप्तोर्यामः
अथाप्तोर्यामः-त्रिवृद्बहिष्पवमानम् । पञ्चदशान्याज्यानि । सप्तदशो माध्यंदिनः पवमानः । एकविंशं होतुः पृष्ठम् । छन्दोमा इतराणि । त्रिणव आर्भवः । त्रयस्त्रिंशोऽग्निष्टोमः । प्रत्यवरोहीण्युक्थानि । त्रिणव प्रथममथैकविंशमथ सप्तदशम् । एकविंशः षोडशी पञ्चदशी रात्रि-
 
291 अहीनः -अप्तोर्यामः ( अ. ६. ख. ३)
 
स्त्रिवृत्संधिः त्रिवृत्प्रथमातिरिक्तस्तोत्रमथ पञ्चदशमथ सप्तदशमथैकविंशम् (तां० ब्रा० २०.३ . १) इत्यनुवाकेनोक्तः । तस्य कल्पः-
अप्तोर्याम्नस्तृतीयस्य सहस्रस्याज्यबहिष्पवमानम् । जराबोधीयस्य लोके सुरूपम् ( ऊ० १४. १. ३) । उद्धरत्याथर्वणम् । परि प्र धन्व ( सा० १३६७-९) इति स्वर्निधनं सौहविषम् ( ऊ० १४. १. ४) ।। १ ।।
समानमितरं पूर्वेण ।। २ ।।
वैश्वजितानि पृष्ठानि पृष्ठानां गर्भाः ।। ३ ।।
अनुब्राह्मणमतिरिक्तस्तोत्राणि । ४ ।।
इति । गर्भप्रकारो निदानकारेण व्याख्यातः । तत्र गर्भविधानमाहुर्मध्यमं पर्यायं सस्त्रोत्रीयं गर्भं कुर्यात् । प्रथमोत्तमौ मुख्यस्य । एवं गर्भोपपत्तिर्भवती-( नि० सू० ८. २ )ति । सोऽयं बृहत्पृष्ठोऽप्तोर्यामः कल्पकारेणोक्तः । सूत्रकारेण तु बहवोऽप्तोर्यामविकल्पा दर्शिताः । अप्तोर्यामे कृता गर्भाः कल्पेन । रथन्तरं वा पृष्ठम् । तस्य स्थाने बार्हतं वाजजित् । बृहद्वारवन्तीये उत्तरे पृष्ठे । कालेयस्यर्क्षु वारवन्तीयम् । तस्य स्थाने पूर्वम् । समन्तस्य च कालेयम् । पार्थस्यौशनम् । त एव गर्भाः पृष्ठेषु (ला० श्रौ० ९. ५. १२-२०) इत्येकः पक्षः ।।
अथास्य पक्षस्य कल्पोक्तस्य च साधारणमाह --- वैश्वजितान्याज्यान आज्येषु गर्भान् कुर्यादिति धानंजय्यः । षाष्टिकान्युक्थान्युक्थेषु (ला० श्रौ० ९.५.२१) इति । अस्मिन् अपि पक्षे यज्ञायज्ञीयस्य गर्भो नास्ति । पक्षद्वयेपि पृष्ठानामेव गर्भा इति शाण्डिल्यस्य मतम् । तदाह-
 
292
यथैवार्षेयकल्पेन कृतमिति शाण्डिल्यः (ला० श्रौ० ९. ५. २२) इति । तस्यैव मतेन कल्पान्तरमाह-ज्योतिष्टोमे वातिरात्रेऽतिरिक्तस्तोत्राण्यादध्यात् षोडशिमतीति शाण्डिल्यः । त एव गर्भाः पृष्ठेषु यज्ञायज्ञीयं च बृहद्गर्भ( ला० श्रौ० ९. ५. २३-४) मिति । सोऽयं ज्योतिरप्तोर्याम उच्यते । निदानकारस्त्वाह-अपि वा सर्वाण्यावर्त्तीनि वैश्वजितैरावर्त्तिभिर्गर्भवन्ति कुर्यात् । तत्र बृहत् संचरते तस्य वैरूपं विधृत्या (नि०सू० ८.२) इति । तत्र तावन्निदानकारमतमाश्रित्य बृहत्पृष्ठस्य प्रयोग उच्यते । तत्र बृहत्पृष्ठातिरात्रवत् सर्वम् । विशेषस्तु- पवस्व वाचो ( सा० ७७५ -७) दविद्युतत्या रुचा-पवमानस्य ते कवे (सा० ६५४-९) इति बहिष्पवमानम् । अग्निं दूतम् (सा० ७९०-२) आ नो मित्रा- इन्द्रमिद्गाथिनः (सा० ७९६ -९) इन्द्राग्नी आगतम् (सा० ६६९ -७१) इत्याज्यानि । चतुर्ऋचेऽन्त्याया उद्धारः । सुषमिद्धो न आवह (सा० १३४७-५०) ता नः शक्तं पार्थिवस्य (सा० १४६५ -७) युञ्जन्ति ब्रध्नम् ( सा० १४६८-७०) तमीडिष्व यो अर्चिषा (सा० ११४९ -५१) इत्याज्यानां गर्भाः । सुषमिद्ध (सा० १३४७-५०) इत्यत्र शुनककण्वसंकृतिवाध्र्यश्वानां द्वितीयामृच- मुद्धरेत् । तृतीयामन्येषाम् । ऋग्जपकाले गर्भिणां गर्भाणां च क्रमेण ऋग्जपः । तत्र प्रथममाज्यस्य पञ्चदशस्तोमस्य प्रथमं पर्यायम् अग्निं दूतम् (सा० ६९०-२) इति तृचेन स्तुत्वा सुषमिद्ध इति तृचेन द्वितीयं पर्यायं स्तुयुः । पुनरग्निं दूतम् इत्यनेन तृतीयम् । एवमुत्तरेष्वप्याज्येषु द्रष्टव्यम् ।।
अथ माध्यंदिनः पवमानः। अस्य प्रत्नामनुद्युतम्(सा० ७५५-७) इति गायत्रं चामहीयवं (ऊ० ९ .२.३) च । परीतो षि (सा० १३१३-५) इति समन्तं (ऊ० ९.१ .६) प्रथमायाम् । रथन्तरं (र० २.२.२) तिसृषु । दैर्घश्रवसं तिसृषु (ऊ० ५.२.४) । यौधाजयमध्यास्यायाम् (ऊ० १. १ .३) । अयं सोम (सा० १४७१-३)
 
293 अहीनः - अप्तोर्यामः (अ.6, ख3)
 
इति पार्थ(ऊ० ९ .२.५ )मन्त्यमिति सप्तदशः । रथन्तरस्य ककुबुत्तरा बृहती छन्दः । पृष्ठ्ये रथमतिवहेयुरित्यादिनोक्ता रथघोषादयः पृष्ठधर्मा अत्र कार्याः । कथं धर्माः कर्तव्या इत्येके । गर्भ-भूतानि भवन्त्यनुपभूतान्यधर्मा गर्भो भवतीति कर्तव्या इत्याचार्या(नि०सू० ८.२) इत्यादिनिदानवचनात् । अत्र पवमाने रथन्तरस्तवनकाले बहिर्वेदि पश्चात् सन्तं रथं प्राञ्चं वहेयुः । बृहत्पृष्ठं तस्य वैराजं गर्भः । एकविंशस्तोमः । बृहद्वैराजे पिबतां सोम्यं मध्वध्वर्युर्दधती यज्ञपताविति पृष्ठहोमे विशेषः । वैराजस्य विराट् छन्दः । पिबा सोममिन्द्र मन्दन्तु त्वेत्यादि विधायकब्राह्मणम् । वसन्तो हिंकार इति भक्त्यु- पासनम् । प्राक्स्तोमयोगाद् ऐरं वै बृहदित्यादीनां दशव्याहृतीनां ध्यानम् । अरणीभ्यां दर्भद्वयेन चोपाकृते स्तोत्रे तदरणीद्वयं दर्भद्वयं चादायोद्गाता स्वस्य दक्षिण ऊरौ काष्ठशकलं दर्भद्वयं चानूरू निधाय शकलस्योपरि तिरश्चीमरणिं तस्या उपरि उत्तरामरणिं निधाय त्रिःप्रदक्षिणमभिमन्थेत् । गायत्रं छन्दोऽनुप्रजायस्व । त्रैष्टुभं छन्दोऽनुप्रजायस्व । जागतं छन्दोऽनुप्रजायस्वेति मन्त्रैररण्योः संधानम् । पाणिभ्यामालभ्य तेजोऽसि तेजो मयि धेहि इति पाणिभ्याम् उपजिघ्रेत् । अथान्येन मथ्यमाने स्तोमं युक्त्वा दुन्दुभिघोषं कारयन्त एकविंशस्यैकं पर्यायं बृहता स्तुत्वा मथितमग्निमन्येन ज्वालयन्तो वैराजेन मध्यमं स्तुयुः । पुनर्दुन्दुभिघोषं कारयन्तः उत्तमं पर्यायं बृहता समापयेयुः ।
 
294
यजमानं वाचयित्वा पुनरूर्जेति स्परीत्यन्तेन निर्मथितमग्निमभि- मन्त्रयेत । तस्मिन्नध्वर्युणाहवनीये प्रहृते प्रेद्धो अग्न इति विराजा स्वाहान्तया जुहुयात् । स्वाहेति च वामदेव्यं मैत्रावरुणसाम । तस्य महानाम्न्यो गर्भः । चतुर्विंशः स्तोमः । महानाम्नीनां शक्वरी छन्दः । इन्द्रः प्रजापतिमुपाधावदिति विधायकब्राह्मणम् । पृथिवी हिंकार इति भक्त्युपासनम् । प्राक्स्तोमयोगात् गावो अश्वा इति ध्यानम् । शैवालमिश्रिताभिरद्भिर्दर्भद्वयेन चोपाकृते स्तोत्रे दर्भद्वयं ग्रहीत्वापः समीपे निधाय वामदेव्येनैकं पर्यायं समाप्य शक्वरीभिर्मध्यमं पर्यायं स्तुयुः । तत्र यो यः सामाङ्गं ब्रूयात् स उदघोषं जनयेत् । प्रथम एव प्रस्तावे कुशाविधानम् । द्वितीयादिषु प्रस्तावेषु नोंकारेणोद्गीथादानम् । उत्तमाभ्यासादनन्तरम् आइवा इत्यादि पुरीषपदैः स्तवनम् । एवं मध्यमं पर्यायं समाप्य पुनर्वामदेव्येन तृतीयं पर्यायं म्तुयुः । यजमानवाचनं कृत्वा तदुदकमास्तावेऽना- धृष्टासीति विदेयेत्यन्तेन निनयेत् । जानुनोः शैवालानुपहरेत् । अथोपरिष्टाज्जपः । श्यैतं ब्रह्मसाम । तस्य वैरूपं गर्भः । चतुश्चत्वारिंशः स्तोमः । यद्याव इन्द्र ते शतम् इति शतवत्यो भवन्ति इत्यादि वैरूपस्य ब्राह्मणम् । अभ्राणि संप्लवन्त इत्यभि- ध्यानम् । श्यैतवैरूपे सामनी उपधावामि । अभि प्र वो यद्याव- ऋचावुपधावामि । प्रजापतिविश्वरूपावृषी उपधावामि । चतुश्चत्वारिंश- स्तोममुपधावामीत्युपसरणे विशेषः । दर्भद्वयेन धवित्रेण च स्तोत्र उपाकृते तद् धवित्रं यजमानपरिचारकहस्तेषु निधाय श्येतेनैकं पर्यायं समाप्य धवित्रेणोपवीज्यमाना वैरूपेण मध्यमं पर्यायं
 
295 अहीनः – अप्तोर्यामः (अ6, ख.3)
स्तुवीरन् । पुनश्च श्यैतेनोत्तमं पर्यायं वाचयित्वा यजमानं धवित्रेण वायुमुत्पाद्य तं वात आवात्विति तृचेनानुमन्त्रयेत् । कालेयमाछावकसाम । तस्य रेवत्यो गर्भः । अष्टाचत्वारिंशत् स्तोमः । षोडशभ्यो हिंकरोति पथ्या विष्टुतिः । रेवतीनां गायत्री छन्दः । यात- यामान्यन्यानि छन्दांसि इत्यादि ब्राह्मणम् । कालेयेनैकं पर्यायं समाप्य रेवतीभिर्मध्यमं पर्यायं स्तुवीरन् । तासां स्तोत्रे धेनूर्दक्षिणतो वत्सांश्चोत्तरतः कृत्वा धेनूनां वाशितं जपेयुः । पुनः कालेयेनोत्तमे पर्याये स्तुते धेनूर्वत्सांश्च पूर्वेण सदः संमृज्य पश्चिचमेनाग्नीध्रीयमुदीचीरिति क्षिपेयुः । यजमानं वाचयित्वा गोनामभिरनुमन्त्रयेत । हव्ये काम्य इत्यादिना वोशीयेत्यन्तेन अद्भिरूपाकृतं चेत् तदा ता आपो हि ष्ठा इति तृचेनास्तावे निनयेत् । अथार्भवस्त्रिणवः । परि स्वानो गिरिष्ठा (सा० १०९३-५) इति गायत्र-संहित(ऊ० ९.२.६) सुरूपाणि (ऊ० १४.१.३) । पवस्वेन्द्रमच्छे-(सा० ६९२-६)ति सफ(ऊ० १.१.९ )श्रुध्ये (ऊ० ९.१.२०) । पुरोजिती(सा० ६९७-९) ति श्यावाश्वान्धीगवे (ऊ० १. १.११-२) । परि प्र धन्वे-(सा० १३६७-९)त्यक्षरपङ्क्तिषु स्वर्निधनं सौहविषम् (ऊ० १४.१.४) । सूर्यवतीषु काव-(ऊ० ९. २. ११ )मन्त्यम् । यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १. १.१४) । तस्य त्वमग्ने यज्ञानाम् (ऊ० १४७४-६) इति बृहद्गर्भः । त्रयस्त्रिंशः स्तोमः एकादशभ्यो हिंकरोतीत्यादिभिर्विष्टुतिभिः । वृहतो गायत्री -छन्दः । दशव्याहृतीनां ध्यानम् । दुन्दुभिघोषश्च पूर्ववत् । नाजा- इग्यूषा इति षूषूक्रातावित्येवात्र वक्तव्यम् । स्तोत्रोत्तमायां प्रत्य-
 
296
वरोहस्य विधानात् । अत्र पृष्ठाग्निष्टोमविधानयोर्द्वयोरपि रथन्तराव्यवहितेन बृहता स्तवनाज्जामित्वं प्राप्तमपि अभि प्रवता श्यैतेन परिहृतम् । तथा च जामिकरणानीत्यधिकृत्य निदानम्- कण्वरथन्तरमभिवहति । रथन्तरनिधनानि बृहत्संनिपातेषु (नि सू० १ .१ ३) इति । अथोक्थानि । एह्यूषु( सा० ७०५-७) इति साकमश्वम् (ऊ० १. १.१५) । वयमु त्वे- (सा० ७०८-९ )इति सौभरम् (ऊ० १.१.१६) । अधाहीन्द्र (सा० ७१०-२) इति नार्मेधम् (ऊ० १.१.१७) । इति तानि च क्रमात् त्रिणवैकविंशसप्तदशस्तोमानि । तेषां गर्भा न सन्ति । विश्वजिति तेषामेवोक्थत्वात्। अन्ये तु षाष्टिकान्युक्थान्युथेष्वि-(ला०श्रौ० ९.२.२१ )ति पक्षान्तरोक्तानत्र गर्भानाविःकुर्वन्ति । तद्यथा-साकमश्वस्य गूर्दो गर्भः । सौभरस्य भद्रम् । नार्मेधस्योद्वंशपुत्र इति । गर्भाणां द्विपदा छन्दः । गर्भविधानमुक्तम् । सोऽयं पक्षद्वयसंकरो नास्मभ्यं रोचते । अथ षोडश्यादि संधिस्तोत्रान्तम् । तत्र रात्रौ पन्यं पन्यं (सा० १६५७-९) श्रौतकक्षम् (ऊ० १४.१.१) । दैवोदासम् (ऊ० ७.१.१९) होतृषाम नित्यम् । कौत्सस्य लोके आष्टादंष्ट्रम् (ऊ० १४.१.२) । आ त्वा विशन्त्विन्दव ( सा० १६६०-२) इत्येतास्विति विशेषः ।
 
297 अहीनः – अप्तोर्याम- (अ. 6. ख.3)
चत्वार्यतिरिक्तस्तोत्राणि ब्राह्मणेन क्लृप्तानि । तत्र च संधिचमस- भक्षणानन्तरं निष्क्रमणादि यजमानोपहवान्तं कृत्वा स्वासु जराबोधीयेन त्रिवृता स्तुयुः । अग्निर्गायत्र्यग्निरित्यृष्यादयः । परिवर्तिनी विष्टुतिः । गायत्रच्छन्दस हति भक्षणम् । गायत्रच्छन्दसाति- रिक्तस्तोत्रेष्विति गौतम (ला० श्रौ० ३.१.२८) इति वचनात् । ततो निष्क्रमणाद्युपहवान्तं कृत्वा स्वासु सत्रासाहीयेन पञ्चदशेन स्तुयुः । इन्द्रो गायत्रीन्द्रः । पूर्ववत् भक्षयित्वा पुनर्निष्क्रमणाद्युप- हवान्तं कृत्वा स्वासु मार्गीयवेण सप्तदशेन स्तुयुः । इन्द्रो गायत्री विश्वे देवाः । पूर्ववत् भक्षणम् । पुनरुपहवान्तं कृत्वा इदं विष्णुर् (सा० १६६९-७४) इति वारवन्तीयेनै( ऊ० १४.१. ७ )कविंशेन स्तुयुः । इन्द्रो गायत्री विष्णुः । पूर्ववद्भक्षणम् । अथ स्तोम- विमोचनाद्युवदसनीयान्तम् ।।
इति बृहत्पृष्ठोऽप्तोर्यामः ।।
रथन्तरपृष्ठे तु समन्तस्य स्थाने तस्यामेवर्चि कालेयम् (ऊ० ९ .२.४ । रथन्तरस्य स्थाने तास्वेव । मृज्यमानः सुहस्त्ये(सा० १०७९-८०)ति वाजिजिद् (ऊ० ३.२.४) अन्त्यम् । पार्थस्य स्थाने स्वास्वौशनम् (ऊ० १८.२.४) । रथन्तरं र० १.१.१) च वामदेव्यं ( ऊ० १.१.५) च स्वासु बृहच्च (र० १.१.५) । कालेयस्यर्क्षु वारवन्तीयं (ऊ० १०.१.१५) चेति पृष्ठानि । इदं विष्णुरि(सा० १६६९ -७४)ति वारवन्तीयस्य स्थाने तस्मिन्नेव तृचे
 
298
पूर्वं वारवन्तीयमूहेत् । अन्यत् सर्वं बृहत्पृष्ठाप्तोर्यामवत् । ज्योतिरप्तोर्यामे तु ज्योतिष्टोमानां वैराजादयो गर्भाः पूर्ववत् । यज्ञायज्ञीयस्य त्वमग्ने यज्ञानामि-( सा० १४७४-६ ति बृहद्गर्भः । संधेरूर्ध्वमतिरिक्तस्तोत्राणि । अन्यत्सर्वं ज्योतिरतिरात्रवत् । केचित् पुनर्ज्योतिरतिरात्रे गर्भरहिते संधिस्तोत्रानन्तरमतिरिक्तस्तोत्राणीच्छन्ति । तत् प्रमाणं गवेषणीयम् । इतरे त्वप्तोर्यामविकल्पाः स्पष्टाः ।। ४ ।। इति अप्तोर्यामः ।। ३ ।।
नवसप्तदशः
अथ नवसप्तदशः । त्रिवृद्बहिष्पवमानम् । पञ्चदश होतुराज्यम् । सप्तदशानि स्तोत्राणि । एकविंशोऽग्निष्टोमः । सोक्थः । पञ्चदशी रात्रिः । त्रिवृत् संधिः । नवसप्तदशेनातिरात्रेण (तां० ब्रा० २०.४) इत्यनुवाकेनोक्तः । नवसप्तदशानि स्तोत्राणीति मैत्रावरुणाज्य- प्रभृत्यार्भवान्तानि नवस्तोत्राणि सप्तदशानीत्यर्थः । तस्य कल्पः-
नवसप्तदशस्यामहीयवादुत्तरं पवस्व मधुमत्तम (सा० ६९२-३) इति साकमश्वम् (ऊ० १४. १.८) । अभि सोमास आयव सा० ८५ ६-८) इति जनित्रं ( ऊ० १४. १.९) रौरव- ( ऊ० ७.१.१३) यौधाजये ( ऊ० ८.२.१९) । नौधसस्यर्क्षु जनित्रम् ( सा० ६८५-६; ऊ० १४. १.१०) । परि प्र धन्वे(सा० १३६७-९) ति सफम् (ऊ० १०.१.९) ।।१।। समानमितरं ज्योतिष्टोमेनातिरात्रेणाषोडशिकेन ।। २ ।।
 
299 अहीनः – नवसप्तदशः (अ. 6. ख. 4)
इति । उप- दवि-पवे-( सा० ६५१-९) ति बहिष्पवमानम् । अग्न-आ नो- मित्रायाहीन्द्राग्नी-( सा० ६६०-७१) त्याज्यानि । उच्चा ते जातमन्धस- (सा० ६७२-४) इति गायत्रं चामहीयवं (ऊ० १. १. १) च । पवस्व मधुमत्तम (सा० ६९२-३) इति साकमश्वमेकस्याम् (ऊ० १४.१. ८ । ककुब्यत्र माध्यंदिन एकर्चस्तस्या(ला० श्रौ० ६. ४. ७)मिति वचनात् । अभि सोमास आयव ( सा० ८५६-८) इति जनित्र( ऊ० १४.१. ९) मेकस्याम् । एकमेकर्चं कुर्वन् प्रथमायामादितः कुर्यात् ( ला० श्रौ० ६ . ३.१२) इत्यारभ्य माध्यंदिने चेदेको द्वौ वा बृहत्यामेवे-( ला० श्रौ० ६. ३.१६) ति वचनात् । पूर्वं जनित्रमेतत् । रथन्तरं (र० १. १. १) च वामदेव्यं (ऊ० १. १. ५) च । नौधसस्यर्क्षु जनित्रमुत्तरम् (ऊ० १४. १. १०) । स्वासु कालेयम्( ऊ० १. १. ७ )मिति पृष्ठानि । स्वादिष्ठये( सा० ६८९-९१) ति गायत्रसंहिते (ऊ० १. १. ८) । परि प्र धन्वे-(सा० १३६७-९ )न्द्रमच्छे-( सा० ६९४-६ )ति सफ- पौष्कले (ऊ० १०.१. ९-१०) एकर्चे । पुरोजिती व (सा० ६९७-९) इति श्यावाश्वान्धीगवे (ऊ० १.१. ११-२) । काव-(ऊ० १. १ .१ ३)मन्त्यम् । यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १ .१. १४) । साकमश्वं सौभरं नार्मेधमित्युक्थानि । षोडशी न कर्तव्यः । आहीनिकी रात्रिः संधिः ।। २ ।।
इति नवसप्तदशः ।। ४ ।।
 
300
विषुवान् अतिरात्रः
अथ विषुवान् । त्रिवृद्बहिष्पवमानम् । पञ्चदशान्याज्यानि । पञ्चदशो माध्यंदिनः पवमानः । सप्तदशानि पृष्ठानि । सप्तदश आर्भवः । एकविंशोऽग्निष्टोमः । सत्तदशान्युक्थानि । पञ्चदशी रात्रिस्त्रिवृत्संधिः । विषुवतातिरात्रेण (तां० ब्रा० २०.५) इत्यनुवाकेनोक्तः
तस्य क्लृप्ति --
या ज्योतिष्टोमस्य सा विषुवतः । तस्य सप्तदशान्युक्थानि अषोडशिकोऽतिरात्रः ।। १ ।।
इति । तस्य सर्वं ज्योतिरतिरात्रवत् । उक्थानि सप्तदशानि । षोडशी नास्ति इति विशेषः ।। १ ।।
इति विषुवान् अतिरात्रः ।। ५ ।।
गो-आयुषी अतिरात्रे
पञ्चदशं बहिष्पवमानम् (तां० ब्रा० २०.६.७) इत्यनुवाकाभ्यां गोआयुषी क्लृप्ते विहिते । तयोः कल्पः-
क्लृप्ते गोआयुषी ।। १ ।।
इति । गोर्वार्कजम्भस्य लोक ( आ० क० ३.१.२) इत्यादिना च आयुषो वार्कजम्भस्य लोक ( आ०क० ३.१. ३) इत्यादिना क्लृप्ते । तयोराहीनिकी रात्रिः ।। १ ।।
इति गोआयुषी अतिरात्रे ।। ६ ।।
 
</poem>
 
}}
"https://sa.wikisource.org/wiki/आर्षेयकल्पः/अध्यायः_०६" इत्यस्माद् प्रतिप्राप्तम्