"लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः ०३०" इत्यस्य संस्करणे भेदः

{{header | title = लक्ष्मीनारायणसंहिता - लक्ष्मीनारा... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
 
पङ्क्तिः ८:
| notes =
}}
<poem><span style="font-size: 14pt; line-height: 200%">श्रीकृष्ण उवाच-
श्रूयतां राधिके वृत्तं तत्रत्यं प्रातरागते ।
यज्जातं तद्वदाम्यत्र कृष्णनारायणस्य ते ।। १ ।।
शावदीनो नृप उद्घोषयामास प्रजाजने ।
पुत्रार्थं बलिदानार्थं बालः प्राप्तः सुलक्षणः ।। २ ।।
करे मीनध्वजधनुःशूलचक्रादिरेखितः ।
माघ्यां च पूर्णिमायां च बलिदानं भविष्यति ।। ३ ।।
पञ्चदशदिनान्यत्र वर्तन्ते शुक्लपक्षके ।
प्रतिपत्तः समारभ्य नित्यं देवीप्रपूजनम् ।। ४ ।।
कर्तव्यं पुत्रकांक्षार्थिजनैर्नित्यं महोत्सवम् ।
श्वः प्रतिपद्दिने प्रातर्बालमादाय मन्दिरम् ।। ५ ।।
अहं राजा गमिष्यामि देव्यग्रे गुरुणा सह ।
अपाकस्य च बालस्य देव्यग्रे पाकतां गुरुः ।। ६ ।।
म्लेच्छकाण्डैर्मद्यदानैः सुरासंस्कारकैस्तथा ।
करिष्यति विधानेन बालो देवीपशुस्ततः ।। ७
प्रजायते देवरूपस्तस्य सेवा जनैः सदा ।
भोजनैः सेवनैर्वस्त्रैर्जलैः पानैः प्रमर्दनैः ।। ८ ।।
यानखेलनक्रीडाभिः कर्तव्या सर्वमानवैः ।
बालार्चने महादेवी प्रसन्ना संभविष्यति ।। ९ ।।
तस्मात् पशुः पूजनीयो दानमानाऽर्हणादिभिः ।
एवमुद्घोषितं राज्ञा प्रजास्वप्रसरत् क्षणात् ।। 2.30.१ ०।।
प्रातः प्रतिपदि क्ष्मेशः स्नात्वा सैन्येन शोभितः ।
सोत्सवो बालमादाय स्वांके देवीगृहं ययौ ।। १ १।।
म्लेच्छमन्त्रैस्तु गुरुणा बालो देवीपशुः कृतः ।
संस्कृतः पूजितश्चापि महान्महोत्सवः कृतः ।। १ २।।
शावदीना महाकाली दृष्ट्वा श्रीपुरुषोत्तमम् ।
लज्जामवाप शीघ्रं सा मूर्तेर्दूरं गताऽभवत् ।। १ ३।।
शुशोच परमं देवी सर्वान् हन्तुं समिच्छति ।
किन्तु कृष्णस्य कर्तव्यं पालनीयं भवेदिति ।। १४।।
विचार्याऽऽज्ञां विना नैव किंचित् कर्तुं समिच्छति ।
इति मौनाऽभवद्देवी यावत्पूजा निवर्तिता ।। १५।।
अथ दानानि बहूनि राजा प्रादान्महोत्सवे ।
बालकृष्णोऽपि परवत् पारवश्योऽभवत्तदा ।। १६।।
प्राकृतो बालसदृशो बालोऽभवन्निजेच्छया ।
देवीगृहे दृष्टिसौधे रक्षितो निशि केवलैः ।। १७।।
बालकैः कन्यकाभिश्च सह तत्र प्रसन्नहृत् ।
भवेत् तथा सेव्यते च सर्वैरप्युपचारकैः ।। १८।।
अर्धरात्रे गते सर्वे निद्रामापुस्ततः सती ।
शावदीना महाकाली श्रीहरेः सन्निधौ शुभा ।। १९।।
कन्या भूत्वा चाजगाम वेपमाना च किंकरी ।
पादयोर्मस्तकं धृत्वा विमुञ्च्याऽश्रूणि जिह्वया ।।2.30.२०।।
प्रविलिह्य हरेः पादौ क्षमस्वेति जगाद सा ।
नेमे मुहुस्तथाऽऽज्ञां चार्थयामास हरेर्हि सा ।।२१।।
नाथाऽपराधिनश्चैते राजाद्याः पुत्रलालसाः ।
हन्तव्यास्ते मया सर्वे देह्याज्ञां मे करोति तत् ।।२२।।
यतिदीनो गुरुस्तस्य शावदीनश्च भूपतिः ।
कासदीनश्च सौराष्ट्रसरोवार्ष्ववमार्गकः ।।२३।।
म्लेच्छाश्च सिद्धयतयो हन्तव्यास्ते मया प्रभो ।
अन्येऽपि चेत् सहायस्था हन्तव्यास्ते मयाऽत्र वै ।।२४।।
ओमित्याह हरिस्तस्यै शावकाल्यै पुमुत्तमः ।
खड्गं भल्लं तथा शक्तिं परशुं पाशमित्यपि ।। २५ ।।
दण्डं वज्रं चर्मासिं मुद्गरं गदां त्रिशूलकम् ।
अंकुशं मूशलं चक्रं सशरं धनुषं तथा ।। २६।।
शंखं चेति तदा हेतीनष्टादशकरेषु सा ।
धृत्वा प्रातर्नृपगेहे प्रविवेश रुषान्विता ।।२७।।
केसरिस्था क्रूररूपा वह्निनेत्रा विषोल्बणा ।
नृपं जग्राह केशेषु शिरश्चिच्छेद चासिना ।।२८।।
गुरुं द्वेधा विभिद्यैव शूलेन च ततः परम् ।
हत्वा कासं सिद्धयतीन् म्लेच्छांश्च तत्सहायदान् ।।२९।।
कारागृहपतीन् हत्वा मोचयामास बालकान् ।
हाहाकारो महानासीदन्तःपुरजनेषु वै ।।2.30.३०।।
कुपिता राजपूज्या सा कुलदेवीति वै जगुः ।
नाशयामास राजानं गुरुं यतीन् तथाऽपरान् ।। ३१ ।।
बालानां वधपूर्वं वै पापं राज्ञः समागतम् ।
बाला नैव कदाचिद्वै पीडनीया यतो जनैः ।।।३२।।।
बालत्रासप्रदातॄणां सर्वनाशो भवेदिह ।
बाला निर्दोषपुष्पाणि न हन्तव्यानि वै हृदा ।।३ ३ ।।
बाला ईशनिवासास्ते ज्वालनीया न वै क्वचित् ।
कायादिदोषहीनास्ते ब्रह्मसाधुस्वरूपिणः ।।३४।।
अर्चनीया रञ्जनीयास्तोषणीया हि बालकाः ।
दातव्यं भोजनं तेषां सर्वदाऽभयदानकम् ।। ३५।।
दातव्यस्त्वाश्रयस्तेषां मा दातव्यं मृतेर्भयम् ।
अपक्वफलरूपास्ते पराधीनप्रजीवनाः ।।३६।।
मातापितृसमाधारा न हन्तव्याः कदाचन ।
बालोद्वेगफलं तत्र मरणं जायते हि तत् ।।३७।।
उद्वेजयिता बालानामपहर्ता जनोऽधमः ।
राजाऽवाप फलं तूर्णं मरणं धर्मघातकः ।।३८।।
अथ केसरिपृष्ठस्था ययौ बालगृहाणि सा ।
यत्र कारागृहवासे ते हि तिष्ठन्ति बालकाः ।।३९।।
यत्रास्ते गरुडश्चक्रं तथा कृष्णनरायणः ।
तत्रेयं सहसा याता युद्धरूपधरा सती ।।2.30.४०।।
क्रौर्यं त्यक्त्वाऽतिसौम्याऽभूद् द्विभुजा कन्यका शुभा ।
हसमाना च तान् बालानाह पश्यत मां प्रति ।।।४१।।
बालैस्त्वालोकिता साऽपि स्वस्वमातृस्वरूपिणी ।
द्रागेव तद्गलं धृत्वा रेमिरेऽङ्के हि बालकाः ।।४२।।
अति प्रसन्नतां प्राप्ता मेनिरे रक्षणं निजम् ।
अथ सा बालकृष्णं वै नेमे क्षमामयाचत ।।४३।।
पयः फलानि प्रददौ सर्वबालेभ्य ऐश्वरी ।
अर्भका भक्षयामासुर्बभूवुः सुखिनस्तथा ।।४४।।
अथ श्मशानयात्रां च प्रजाश्चक्रुर्नृपस्य वै ।
राज्ञस्तु विधवाः सर्वा देवीमागत्य चुक्रुशुः ।।४५।।
कन्यास्ता रुरुदुः सर्वा गुर्वादीनामपि स्त्रियः ।
देवी मूर्तेर्विनिर्गत्य कन्यारूपा व्यजायत ।।४६।।
साक्षाद् भूता हि सर्वासामुवाच मधुरं वचः ।
मा शोकं कुरुत श्रेष्ठाः राज्ञा प्राप्तं फलं निजम् ।।४७।।
अहं भवामि यत्पत्नी तं राजा हन्तुमुद्यतः ।
अनादिश्रीकृष्णनारायणः कान्तोऽस्ति मे प्रभुः ।।४८।।
मीनध्वजधनुःशूलचक्रधारी जनार्दनः ।
बालरूपो भवत्येव कारागारगतोऽत्र सः ।।४९।।
मे पतिर्मत्पशुः राज्ञा कृतः पुत्रे हयाऽपि तु ।
तत्फलं मरणं तस्य मया दत्तं महाघिने ।।2.30.५०।।
भवतीनां महाश्रेयो भविष्यति हरिकृतम् ।
अनादिश्रीकृष्णनारायणं स्तुवन्तु मुक्तये ।।५ १ ।।
इत्युक्ता राधिके सर्वा ययुर्नारायणं प्रति ।
तुष्टुवुः परया प्रीत्या पापमोक्षणहेतवे ।।५२।।
हरिस्ताभ्यो निजं रूपं दर्शयामास धामगम् ।
पार्श्वे लक्ष्मी स्वरूपा च शावदीनां सतीं प्रियाम् ।।५ ३ ।।
गरुडं बालकं चापि चक्रं सुदर्शनं तथा ।
ततो वै दर्शयामास चाश्वपट्टसरोवरम् ।।५४।।
कुंकुमवापिकाक्षेत्रं लोमशस्याश्रमं तथा ।
कोट्यर्बुजाऽब्जकन्याश्च दिव्यतां पारमेश्वरीम् ।।।५५।।
दृष्ट्वाऽऽश्चर्यं परं प्राप्ता मातरः कन्यकास्तथा ।
ययाचिरे वरं शीघ्रमस्माकं त्वं पतिर्भव ।।५६ ।।
अथ कृष्णस्तु सर्वाभ्यो यथेष्टं वै वरं ददौ ।
गरुडं प्राह यास्यामः श्रीमद्बदरिकावनम् ।।५७।।
सुदर्शनं सह नीत्वा गरुडस्थो हरिस्तदा ।
सस्मार दिव्ययानं च योजनायतमुज्ज्वलम् ।।५८।।
सौवर्णं निजधामस्थं शीघ्रं चोपस्थितं हि तत् ।
सपार्षदे विमाने च सर्वाः स्त्रीः कन्यकास्तथा ।।५९।।
शावदीनां महाकालीं निषाद्य श्रीहरिः स्वयम् ।
प्रातः राजमुकुटं च भक्तं जल्लाउद्दीनकम् ।।2.30.६ ०।।
तृतीयां चार्पयित्वा व्योम्ना बद्र्याश्रमं ययौ ।
गंगायां स्नापयित्वा च देहशुद्धिं विधाय च ।।६ १।।
सर्वाभ्यः पाययामास श्रीहरेश्चरणामृतम् ।
नरनारायणपूजां कारयित्वा ततो हरिः ।।६२।।
कुरुक्षेत्रं त्वाययौ च दशक्रोशविशालकम् ।
पावनं परमं श्रेष्ठं हिमाद्रेः पादमाश्रितम् ।।६३।।
श्रीराधिकोवाच-
कुरुक्षेत्रं कदा केन कृतं तद् विस्तराद् वद ।
कथं वै पावनं तद्धि प्रशस्तं गण्यते सदा ।।६४।।
श्रीकृष्ण उवाच-
सोमवंशोद्भवो राजा ऋक्षो नाम महाबलः ।
कृतस्यादौ समभवद् ऋक्षात्संवरणोऽभवत् ।।६५।।
स तु पित्रा निजे राज्येऽभिषिक्तो बाल एव सः ।
बाल्येऽपि धर्मनिरतो मद्भक्तः स सदाऽभवत् ।।६६।।
पुरोहितस्तु तस्याऽऽसीद् वसिष्ठो वरुणात्मजः ।
स तं त्वध्यापयामास सांगान्वेदानुदारधीः ।।६७।।
अनध्याये दिने राजा ययौ वनानि वीक्षितुम् ।
वैभ्राजं सुवनं रम्यं विवेश बहुविस्तरम् ।।६८।।
द्वैतवनं विवेशाऽसौ रुड्रागौ द्वौ गतौ यतः ।
स वनान्तं ददर्शाऽथ फुल्लकोकनदावृतम् ।।६९।।
तत्र ददर्श देवानां कन्यकास्तासु मध्यगाम् ।
सूर्यपुत्रीं तपतीं स ददर्श सर्वतोऽधिकाम् ।।2.30.७०।।
तत्र लग्नमना राजा ययौ मेरुं प्रति प्रभुः ।
प्रतिष्ठानपुरं रम्यं तिष्ठत्येव च तां स्मरन् ।।७१ ।।
यदा नाऽयं गृहं प्रत्यायातस्तथा पुरोहितः ।
ज्ञात्वा तं मेरुसंस्थं च तपतीलग्नमानसम् ।।७२।।
समुत्पत्य वसिष्ठः प्राययौ भास्करमण्डलम् ।
ननाम भास्करं सूर्यो ननामैनं पुपूज च ।।७३।।
पप्रच्छाऽऽगमने हेतुमृषिः सूर्यमुवाच ह ।
समायातोऽस्मि देवेश याचितुं त्वां महाद्युते ।।७४।।
सुतां संवरणस्यार्थे त्वं तापीं दातुमर्हसि ।
तापीं पृष्ट्वा ततः सूर्यो ददौ तापीं जहर्ष च ।।७५।।
ऋषिर्नीत्वा राज्यमायात् सम्वरणोऽपि चाययौ ।
तं दृष्ट्वा चकमे तापी तस्मै महर्षिणाऽर्पिता ।।७६।।
तस्यां पुत्रोऽभवत् काले कुरुर्नाम्ना स वै कृतः ।
षोडशाब्दः समुवाह सुदाम्नो नृपतेः सुताम् ।।७७।।
कीर्तिनाम्ने धुरं दत्वा राज्यस्य वनमाविशत् ।
सौदाम्न्या सह पत्न्या वै तेपे द्वैतवने नृपः ।।७८।।
तत्र देवीं हरिजिह्वां स ददर्श सरस्वतीम् ।
सुदर्शनस्य जननीं ब्रह्मपुत्रीं च प्लक्षजाम् ।।७९।।
स्नात्वा तत्र जलं पीत्वा ब्रह्मवेदीमुपाययौ ।
उत्तरा सा ब्रह्मवेदिरुच्यते यज्ञभूमिका ।।2.30.८० ।।
मध्यमा ब्रह्मवेदिस्तु प्रयागराज उच्यते ।
प्राग्वेदिका गयावेदिर्विरजा दक्षिणा तु वै ।।८ १ ।।
प्रतीची पुष्करा वेदिस्त्रिभिः कुण्डैरलंकृता ।
स्यमन्तपञ्चकं धर्मस्थानं चोत्तरवेदिका ।।८२।।
आसमन्ताद् योजनानि पञ्च पञ्च च सर्वतः ।
तदमन्यत राजर्षिः क्षेत्रं पुण्यं महाफलम् ।।८३।।
ह्रदं कृत्वा पर्णशालां विधाय वासमाचरत् ।
कृत्वा सीरं रुद्रवृषं यमस्य महिषं तथा ।।८४।।
वोढारं संविधायैव स्वयं कृष्टुं समुद्यतः ।
कर्षन्तं तं महेन्द्रश्चागत्य पप्रच्छ कारणम् ।।८५।।
राजन् किमिदं कार्षेयं भवान् कर्तुमिहोद्यतः ।
राजाऽब्रवीत् तपः सत्यं शौचं दानं दया क्षमा ।।८६।।
योगश्च शीलवृत्तिश्चेत्यष्टकं चात्र विद्यते ।
इन्द्रः प्राह तथा राजन् भूयात्तवाऽभिवाञ्च्छितम् ।।८७।।
इन्द्रे गते तु राजाऽसौ कर्षति स्म निरन्तरम् ।
सप्तक्रोशाधिकां भूमिं सीरकृष्टां चकार सः ।।८८।।
ततोऽहं राधिके विप्रो भूत्वाऽगच्छं नृपान्तिकम् ।
अपृच्छं च त्वया राजन् कथं वै क्लेश उह्यते ।।८९।।
तदाऽष्टांगो महाधर्मः समाख्यातो नृपेण मे ।
ततो मयाऽस्य गदितं नृप बीजं क्व वर्तते ।।2.30.९०।।
स चाऽऽह मम देहेऽत्र मानसं बीजमस्ति हि ।
तमब्रुवं देहि मह्यं बीजं निष्कास्य देहतः ।।९ १ ।।
वाटिकां खलु वप्स्यामि सीरं कर्षतु वै भवान् ।
ततो नृपतिना बाहुर्दक्षिणः प्रसृतः कृतः ।।९२।।
मया चक्रेण छिन्नः सोऽभवत्तत्र सहस्रधा ।
एवं वामभुजः पादौ कटितश्च द्विधा कृताः ।।९३।।
तानि बीजानि जातानि कोट्यधिकानि सर्वतः ।
अथ स मे शिरः प्रादात् तेन प्रीतोऽस्मि तस्य च ।।९४।।
वरदोऽस्मीत्यथेत्युक्ते कुरुर्वरमयाचत ।
यावदेतन्मया कृष्टं धर्मक्षेत्रं तदस्तु ते ।।९५।।
स्नातानां च मृतानां च महापुण्यफलं त्विह ।
उपवासश्च दानं च स्नानं जाप्यं च पूजनम् ।।९६।।
होमयज्ञादिकं सर्वमत्राऽक्षयं भवेत् प्रभो ।
तथा भवान् सुरैः सार्धं ब्रह्मणा शंभुना तथा ।। ९७।।
वसाऽत्र पुण्डरीकाक्ष मन्नामव्यञ्जकेऽत्र वै ।
इत्येवमुक्तस्तेनाऽहं तदा बाढमुवाच तम् ।। १८।।
तथा च त्वं दिव्यवपुर्भव भूयोऽपि स्वस्तिमान् ।
अन्तकाले चिरकाले लयमेष्यसि मत्तनौ ।। ९९।।
शाश्वती तव कीर्तिश्च भविष्यति मदाश्रयात् ।
अत्र त्वं याजको यज्ञान् यजिष्यसे सहस्रशः ।। 2.30.१० ०।।
क्षेत्रस्य रक्षकान् चन्द्रयक्षं पन्नगवासुकिम् ।
विद्याधरं शंकुकर्णं सुकेशं राक्षसं तथा ।। १० १।।
अजावनं च नृपतिं महादेवं च पावकम् ।
ददामि तेऽत्र बलिनोऽष्टसहस्राणि धन्विनाम् ।। १ ०२।।
कुरुजांगलमध्ये च पृथूदकं सरो महत् ।
नदी सरस्वती चापि वर्तते पावनी शुभा ।। १०३ ।।
सरस्वतीदृषद्वत्योरन्तरे कुरुजांगले ।
ब्रह्मसरः शुभं तीर्थं समन्तादर्धयोजनम् ।। १ ०४।।
आद्यैषा ब्रह्मणो वेदिस्ततो रामह्रदः स्मृतः ।
कुरुक्षेत्रं ततः प्रोक्तं धर्मक्षेत्रं हि पावनम् ।। १०५ ।।
तरन्तुकारन्तुकयोरन्तरं यत्तु विद्यते ।
रामह्रदपञ्चकाच्च यदन्तरं हि विद्यते ।। १०६ ।।
कुरुक्षेत्रं विशालं तत् समन्तपञ्चकाऽऽह्वयम् ।
तत्राऽनादिकृष्णनारायणो व्योम्ना समाययौ ।। १ ०७।।
सरस्वत्यां दृषद्वत्यां ब्रह्मसरसि योषितः ।
स्नापयित्वा च यानेन क्षणमात्रेण राधिके ।। १ ०८।।
अश्वपट्टसरःक्षेत्रे लोमशाश्रममाययौ ।
बालकाः कन्यका नार्यो देवी च गरुडो हरिः ।। १ ०९।।
अवतेरुः क्षितिं तत्र जयशब्दास्तदाऽभवन् ।
अवाद्यन्त च वाद्यानि देवीशंखोऽप्यवाद्यत ।। 2.30.११ ०।।
लोमशाद्या ऋषयश्च प्रजाः शीघ्रं समाययुः ।
आभाष्य मंगलाचारमकुर्वन् ब्राह्मणादयः ।। ११ १।।
सस्नुः सरोवरे भुक्तवन्तो भोज्यानि सर्वशः ।
आरामं कृतवन्तश्च प्रवासादागमश्रमाः ।। १ १२।।
जयोत्सवः कृतो रात्रौ राज्ञो नाशः प्रवर्णितः ।
बालका निजपितृभ्यश्चार्पिता हरिणा तदा ।। ११ ३।।
कन्यका योषितः सर्वा लोमशाय निवेदिताः ।
आश्रमे रक्षणार्थं च मन्त्रदानार्थमित्यपि ।। १ १४।।
लोमशश्च पवित्राभ्यो ददौ मत्रं च मालिकाः ।
'ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा' ।। १ १५।।
वैष्णव्यस्ता दिव्यरूपा अभवन् ब्रह्मतेजसा ।
मातरस्ता भजनं च चक्रुः कृष्णकृपावशात् ।। ११६।।
दिव्यदेहा विमानैश्च ययुर्वैकुण्ठमेव ताः ।
कन्यकास्तत्र तस्थुश्च श्रीहरेरिच्छया सदा ।। १ १७।।
इत्येवं रक्षिता बाला म्लेच्छा विनाशितास्तथा ।
पठनाच्छ्रवणाच्चास्य स्वर्गमोक्षफलं भवेत् ।। १ १८।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने प्रभोः राजकृतदेवीपशुसंस्कारः, देव्या राजादिसंहारः, बद्रीं कुरुक्षेत्रं कुंकुमवापिकां प्रत्यागमनम्, बालकानां तज्जनकेभ्योऽर्पणम्, मातॄणां मुक्तिश्चेत्यादिनिरूपणनामा त्रिंशत्तमोऽध्यायः ।। ३० ।।
 
</span></poem>