"आर्षेयकल्पः/अध्यायः ०६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २७५:
आभिप्लविकस्य प्रथमस्याह्नः आज्यबहिष्पवमानम् । माध्यंदिनश्च ॥१॥ इत्यादिना। उपास्मै गायता नरः (सा० ६५१-३) पवमानस्य ते वयम् (सा० ७८७-९) पवमानस्य ते कवे (सा० ६५७-९)
इति बहिष्पवमानम् । अग्न-आ नो-मित्रायाहीन्द्राग्नी-(सा० ६६०-७१)त्याज्यानि । प्र सोमासो विपश्चित ( सा० ७६४-६) इति गायत्रं चाश्वं (ऊ० ६.२.१२) च। प्र सोम देववीतय (सा० ७६७-८) इति पज्रं (ऊ० ६.२.१३) च यौधाजयं (ऊ० १.२.१३) चौशन-(ऊ० १. १. ४)मन्त्यम् । यौधाजयमेकाक्षरनिधनमहीनकाण्डे पठितम् ॥१॥
 
311
अहीनः -- गर्गत्रिरात्रः (१) [अ. ६. ख. १६]
 
रथन्तरं (र० १. १. १) स्वारं च सौपर्णम् (ऊ० १४.१.१६) । शग्ध्यूषु शचीपत (सा० १५७९-८०) इति अभीवर्तः (ऊ० ११. २. ६)। स्वासु कालेयम् (ऊ० १.१. ७) ॥ २॥
इति पृष्ठानि ॥
स्वादिष्ठया मदिष्ठया (सा० ६८६-९१) इति गायत्रं स्वाशिरां चार्कोऽ-(र० ३.१. २) या पवस्व देवयुः (सा० ७७२) पवते हर्यतो हरिर् (सा० ७७३) इति सफा-(ऊ० १.२.१५) क्षारे (ऊ० १. २. १६)। प्र सुन्वानायान्धसः ( सा० १३८६-८) इत्यौदलं ( ऊ० ११. २. ३ ) चर्तनिधनमाज्यदोहम् (र० ३. २. ४)। अभि प्रियाणि ( सा० ७००-२) इति वैखानसम् (ऊ० १४. १. १८) अन्त्यम् ॥ ३ ॥
[ इत्यार्भवः पवमानः ]
माध्यंदिने सवने विहृतं होतुर्धिष्णीयमग्निं धारयित्वा तमाज्यदोहस्तवनकाले ज्वलयेयुः । तदुक्तं ब्राह्मणे --- आज्यदोहानामग्निमुपनिधाय स्तुवत (Cp. तां०ब्रा० २१.२.९ ) इत्यादिना । सफाक्षारे एकर्चे ॥ ३ ॥
यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १.१. ४) ॥ ४ ॥
त्रिवृत्प्रातःसवनम् । पञ्चदशं माध्यंदिनं सवनम् । सप्तदशं तृतीयं सवनम् ॥४॥
इति प्रथममहः ।। १६ ॥
 
द्वितीयमहः
द्वितीयमहराह --
उपोषु जातमप्तुरम् (सा० १३३५-७) दविद्युतत्या रुचा (सा० ६५४-६) पवस्वेन्दो वृषा सुतो (सा० ७७८-८०) राजामेधाभिरीयते ( सा० ८३३-५ ) इषे पवस्व धारय ( सा० ८४१-३) ॥ १ ॥
इति बहिष्पवमानम् ॥
कया ते अग्ने अङ्गिरः ( सा० १५४९-५१ ) पुरूरुणा चिद्ध्यस्ति (सा० ९८५-७) तमिन्द्रं वाजयामसि (सा० १२२२-४) इयं वामस्य मन्मनः (सा० ९१६-८) ॥ २॥
इत्याज्यानि ॥
अस्य प्रत्नामनुद्युतम् ( सा० ७५५-७ ) इति गायत्रं चामहीयवं (ऊ० ९. २. ३) चाभिसोमास आयवः (सा. ८५६-८) इति गौतमं (ऊ० २. १. १५) चान्तरिक्षं (र० १.१.६) च दैर्घश्रवसं (ऊ० १४.२.५) च द्विहिंकारं (ऊ० १४.२.७) चायं सोम (सा० १४७१-३) इति निधनमाज्यदोहम् (र० ३. २. ५) अन्त्यम् ॥ ३ ॥
इति माध्यंदिनः पवमानः ।।
गौतमं प्रथमायाम् । प्र हिन्वान इति द्विहिंकारमध्यास्यायाम् । प्रातःसवने विहृतस्य होतुर्धिष्ण्यस्य धारणम् । तस्याज्यदोहस्तवनकाले प्रज्वलनम् ॥ ३॥
स्वासु वामदेव्यम् ( सा० ६८२-४ ; ऊ० १. १. ५)। मोषु त्वा वाघतश्च न (सा० १६७५-६ ) इति गायत्रपार्श्वम्
 
313
अहीनः -- गर्गत्रिरात्रः (२) [अ. ६. ख. १७]
 
(ऊ. १४. २.९)। अस्तावि मन्म पूर्व्यम् (सा० १६७७-८) इति संतनि ( ऊ० १४. २. १०)। श्रयन्तीयस्यर्क्षु संकृति (सा० १३१९-२०, र० ३. २. ७) ॥४॥
_इति पृष्ठानि ॥
सन्तनिन उत्तरयोः स्तोत्रीययोः आदावेव कुशाविधानम् । अप्रस्तावास्वादा-(द्रा० श्रौ० ५. २. ११)विति वचनात् ॥ ४ ॥
यस्ते मदो वरेण्य (सा० ८१५-७) इति गायत्रं चाग्नेश्चार्कोऽ-(र० १. २. १)भि द्युम्नं बृहद्यशः (सा० १०११-९) सखाय आ निषीदत (सा० ११०७-९) इति वाचः साम (ऊ० १४. २.१४) शौक्तं (ऊ० १४. २.१५) च । पर्यूषु ( सा० १३६४-६) इत्यान्धीगवम् (ऊ० ६. १. १९) । इन्द्राय सोम पवते ( सा० १६७९-८१) इति यज्ञायज्ञीयम् (ऊ० १४. २. २१)। पवित्रं त (सा० ८७५-७) इत्यरिष्टम् (र० १. १.८) अन्त्यम् ॥ ५ ॥
[इत्यार्भवः पवमानः ॥]
विशोविशीयमग्निष्टोमसाम (ऊ० १५. १. २) ॥६॥
स्वास्वायुष उक्थानि ॥ ७॥
प्रमंहिष्ठीयं (ऊ० २. २. ५) हारिवर्णम् (ऊ० २. २.६) उद्वंशीय-(ऊ० ६.१.८)मित्युक्थानि । पञ्चदशं प्रातःसवनम् । सप्तदशं माध्यंदिनं सवनम् । एकविंशं तृतीयसवनं सोक्थम् ॥ ७ ॥
इति द्वितीयमहः ॥ १७ ॥
 
तृतीयमहः
तृतीयमहराह--
पवस्व वाचो अग्रियः ( सा० ७७५-७ ) एष देवो अमर्त्यः (सा० १२५६-६५) एष धिया यात्यण्व्या (सा० १२६६-७३)॥१॥
इति बहिष्पवमानम् ॥ १॥
होता देवो अमर्त्यो ( सा० १४७७-९) मित्रं वयं हवामहे (सा० ७९३-५) महाँ इन्द्रो य ओजसा-( सा० १३०७-९ ) इन्द्रे अग्ना नमो बृहद् (सा० ८००-२) ॥२॥
इत्याज्यानि ॥
उच्चा ते जातमन्धस ( सा० ६७२-४) इति गायत्रं च गौषूक्तं (ऊ० १२. १. २) च जराबोधीयं (ऊ० ११. १. १४) चर्षभश्च पावमानः (ऊ० १२. १.१) । प्रत्नं पीयूषं पूर्व्यं यदुक्थ्यम् (सा० १४९४-६) इत्युत्सेधः (ऊ० १३. २. ११)। परीतो षिञ्चता सुतम् (सा० १३१३-५) इत्याभीषवम् (ऊ० ५. २. ६.) आथर्वणं (र० १.२. १२) पृश्नि (ऊ० १५. १.६ ) । तिस्रो वाचः (सा० ८६९-७१) इति त्रिणिधनमाज्यदोहम् ( र० ३.२.६ ) अन्त्यम् ॥ ३ ॥
इति माध्यंदिनः पवमानः॥ ]
पूर्ववदग्निमुपनिधायाज्यदोहस्तवनम् ॥३॥
बृहच्च (र० १.१.५ ) सत्रासाहीयं (ऊ० २. २. १२) च श्यैतं (ऊ० २. १. ३) च रौरवं (ऊ० १.१.२) च । ४॥
इति पृष्ठानि ॥
परि स्वानो गिरिष्ठा (सा० १०९३-५ ) इति गायत्रं च हाविष्मतं (ऊ० १५. १.८) च। स सुन्वे यो वसूनाम्
 
315
अहीनः -- गर्गत्रिरात्रः (३) [अ. ६.ख. १८]
 
(सा० १०९६-७) प्राणा शिशुर्महीनाम् (सा० १०१३-५) इति दीर्घ-( ऊ० ३. २. ११)श्रुध्ये (ऊ० १२. १. ५)। अयं पूषा रयिर्भग (सा० ८१८-२०) इति निषेधश्च (ऊ० १३. १. २) श्यावाश्वं ( सा० ११. २. १०) च क्रौञ्चं (ऊ० २. १. ९) च यज्ञायज्ञीयं (ऊ० १५. १. १३) च । परि प्र धन्व (सा० १३६७-९) इति वाजदावर्योऽ-(ऊ० १२. १. ७) या रुचा (सा० १५९०-२) इति नित्यवत्साः (र० ३.१.१२)। धर्ता दिव ( सा० १२२८-३० ) इति दीर्घतमसोऽर्कोऽ-(र० ३. १. १०)न्त्यः ॥ ४॥
इत्यार्भवः पवमानः ।।
वारवन्तीयमग्निष्टोमसाम स्वासु ( सा० १६३४-६ ; ऊ० १२. २. १७) ।। ५॥
ज्योतिष्टोमोऽतिरात्रः षोडशिमान् ॥६॥
आहीनिकी रात्रिः। एकविंशं प्रातःसवनम् । त्रिणवं माध्यंदिनं सवनम् । त्रयस्त्रिंश आर्भवः । चतुस्त्रिंशोऽग्निष्टोमः । एकविंशान्युक्थानि सषोडशिकानि । षोडशं प्रथमं रात्रिषाम । पञ्चदशी रात्रिः। त्रिवृत्संधिरिति । स्तोमाश्चतुस्त्रिंशस्य विष्टुतिः । एकादशभ्यो हिंकरोति । स तिसृभिः स सप्तभिः स एकया । एकादशभ्यो हिंकरोति स एकया स तिसृभिः स सप्तभिः । द्वादशभ्यो हिंकरोति सोऽष्टाभिः स एकया स तिसृभिरिति । उक्तं च । दाशरात्रिकेभ्यः एकया ज्यायस्त्वित्यादि । पूर्वमहर्द्वयं दधिभक्षान्तम् । उत्तममहरुदवसानीयान्तम् ॥
वाग्वै शबली-(तां० ब्रा० २१. ३)त्यनुवाकेन शबलीहोम उक्तः । स च सूत्रे व्याख्यातः। सहस्रपोषकामः शबलीहोमं कुर्वीते-(ला० श्रौ० ९. ८.१)त्यादिना ॥ ६॥
इति तृतीयमहः ॥ १८॥
गर्गत्रिरात्रः समाप्तः ॥
 
अश्वत्रिरात्रः
प्रथममहः
 
चतुष्टोमोऽग्निष्टोम एकविंश उक्थः सर्वस्तोमोऽतिरात्र (तां० ब्रा० २१. ४) इत्यनुवाकेनाश्वमेधत्रिरात्र उक्तः । राजा प्रतिज्ञोऽश्वमेधेन यजेत । ब्रह्मोदनभोजनकाले ब्रह्मोदनमुद्गाता भुञ्जीत । यजमानाच्च सहस्रं प्रतिगृह्णीयात् । सावित्रेष्टिसंस्थासु संवत्सरमहरहर्होतरि पारिप्लवमाचक्षाणे हिरण्यकशिपुन्यासीत । संवत्सरादूर्ध्वम् अश्वं बध्वा यजमाने दीक्षिते तदासनं स्वीकुर्यात् । सर्वेषां चाह्नां चात्वाले बहिष्पवमानेन स्तुवीरन् । तत्र प्रथममहराह --
पवस्व वाजसातये (सा० १०१६-८) इति तिस्रोऽनुष्टुभश्चतस्रो गायत्रीः करोति ॥ १॥ पज्रयौधाजये अन्तरा गौङ्गवम् (ऊ० ९. २. १७) ।
औदलाज्यदोहे गौतमम् (ऊ० ११. २. १३) ॥ २ ॥
समानमितरं प्रथमेनाह्ना गर्गत्रिरात्रस्य ॥३॥
इति । पवस्व वाजसातयोम् । देवेभ्यो मधुमत्तरोम् । वत्सं जातं न मातरोम् । पृथिवीं चातिजभ्रिषोम् (सा० १०१६-८) इति बहिष्पवमानम्।
अग्न-आ नो-मित्रायाहीन्द्राग्नी-(सा० ६६०-७१)त्याज्यानि। प्र सोमासो विपश्चित (सा० ७६४-६) इति गायत्रं चाश्वं (ऊ० ६.२.१२) च। प्र सोम देववीतय (सा० ७६७-८) इति पज्रम् (ऊ० ६. २. १३) गौङ्गवं (ऊ० ९.२.१७) यौधाजय-(ऊ० १. २. १३)मिति सामतृचः । औशन-( ऊ० १. १. ४ )मन्त्यम् । त्रीन्यतरस्यां
संभवेयु-(ला० श्रौ० ६. ३. १७)रिति वचनात् । बृहत्यामेकर्चकरणम् । रथन्तरं (र० १. १. १ ) च स्वारं च सौपर्णम् (र० १४.
 
317
अहीन:-अश्वत्रिरात्रः (१) [अ. ६. ख. १९
 
१.१६) । शग्ध्यूषु शचीपत (सा० १५७९-८०) इत्यभीवर्तः (र० ११. २.६)। स्वासु कालेय-( र० १. १. ७ )मिति पृष्ठानि । स्वादिष्ठय-(सा० ६८६-९१)ति गायत्रं च स्वाशिरामर्कः (र० ३. १. २)। अया पवस्व देवयुः (सा० ७७२) पवते हर्यतो हरिर् (सा० ७७३) इति एकर्चयोः सफाक्षारे (ऊ० १. २. १५-६) प्र सुन्वानायान्धस (सा० १३८६-८) इत्यौदलं (ऊ० ११. २. ३) गौतमं (ऊ० ११. २. १३) चर्तनिधनं चाज्यदोहम् (र० ३.२.४)। अभि प्रियाणी-(सा० ७००-२)ति वैखानसमन्त्यम् (ऊ० १४.१.१८) । यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १. १. १४) । प्रथमचतुष्टोमवत् स्तोमक्लृप्तिः । विष्टुतयः चतुर्विंशस्य त्वेकस्मिन्नेव तृचे चत्वारः षट्काः। पर्यायाद् द्विकविष्टावा इति विशेषः । अथवैवं विष्टुतिः -- षड्भ्यो हिंकरोति स तिसृभिः स द्वाभ्यां स एकया । षड्भ्यो हिंकरोति स एकया स तिसृभिः स द्वाभ्याम् । षड्भ्यो हिंकरोति स द्वाभ्यां स द्वाभ्यां स द्वाभ्याम् । षड्भ्यो हिंकरोति स द्वाभ्यां स एकया स तिसृभिरिति । तदुक्तम् -- उपोत्तमो वा द्विकविष्टावोऽश्वमेधेऽष्टादशादितरे (ला० श्रौ० ६. ८. १३) इति । पञ्चदशपर्यायौ पूर्वावेकविंशस्योत्तराविति वा पर्यायक्लृप्तिः । अश्वमेधेनावभृथत्वमह्नां केचिदध्वर्यव आमनन्ति । तत्र सूत्रम् -- अश्वत्रिरात्रे नानावभृथान्यहानि । तेषां प्रथमस्य सनादग्न इत्यवभृथसाम । यद्वा उ विश्पतिरिति द्वितीयस्य । त्यग्नाइरिति वे-(ला० श्रौ० २.१२.६-८)ति । इतरथा दधिभक्षणान्तं द्वयम् । तस्मिन् पक्षे अहीनन्यायेन बहिष्पवमानेन स्तवनम् ॥३॥
इति प्रथममहः ॥ १६ ॥
 
द्वितीयमहः
द्वितीयमहराह --
उपास्मै गायता नरः ( सा० ६५१-३ ) उपोषु जातमप्तुरं (सा० १३३५-७) दविद्युतत्या रुचा ( सा० ६५४-६) एते असृग्रमिन्दवो (सा० ८३०-२) राजामेधाभिरीयते (सा० ८३३-५) वृषा सोम द्युमाँ असि (सा० ७८१-३) इषे पवस्व धारय (सा० ८४१-३) ॥ १ ॥
इति बहिष्पवमानम् ॥
अभि सोमास आयव (सा० ८५६-८) इति गौतमम् ( ऊ० २. १. १५) अन्तरिक्षं (र० १. १. ६) दैर्घश्रवसम् (ऊ० १४. १. ५)। त एकर्चाः । सन्तनि तिसृषु (ऊ० १४. २. ७)। पौरुमद्गं ( ऊ० २. १. १४) गायत्रपार्श्वं (ऊ० ६. २. ८) मैधातिथं (ऊ० ९. ३. ६) त एकर्चाः । द्विहिंकारं तिसृषु (ऊ० ४. २. ७) । महानाम्न्यश्च वामदेव्यं ( ऊ० १. १. ५) च पार्थुरश्मं च (र० ३. २.८) श्रावन्तीयस्यर्क्षु संकृति (सा० १३१९-७० , र० ३.२.७) ॥ २ ॥
समानमितरं मध्यमेनाह्ना गर्गत्रिरात्रस्य ॥३॥
इति । अस्मिन्नहनि अश्वस्य वालधिमालभ्य बहिष्पवमानं सर्पेयुः ।
अथवा अध्वर्युमेव पुच्छमालभते । तमितरे यथाकाममन्वालभेरन् । सर्पत्सु उद्गातारं यजमानो ब्रूयात् । उद्गातरुप त्वा वृणे शतेन
गवां निष्केण चाश्वो ममोद्गास्यतीति। अस्यार्थः । उद्गातस्त्वां
विहायाश्वमुद्गातारं वृणे शतेन गवां निष्केण चालंकारेण । अश्वो ममोद्गास्यतीति । अश्वमास्तावमाक्रमय्य वडवां दर्शयेयुः। तां
 
319
अहीनः -- अश्वत्रिरात्रः (२) [अ. ६. ख. २०)
 
यदाश्वोऽभिक्रन्देत् । अथ यजमान उद्गातारं ब्रूयात् । उद्गातरुप त्वा वृणे शतेन चैव निष्केण च । त्वमेव ममोद्गास्यसीति । उद्गात्रे गवां शतं निष्कं च दद्यात् । उदञ्चमश्वमुत्क्रमय्य आस्तावे यो म आत्मेत्युपवेशानन्तरमुद्गाता अश्वव्रतेन स्तुयात् अभि वाजी विश्वरूप (सा० १८४३-५ ) इति तृचस्थेन । उत्तरयोरपि स्तोत्रीययोर्हौहोईत्यादि स्तोत्रं प्रतिपदमाहरेत् । अश्व स्त्रिष्टुबश्व इत्यृष्यादयः। भक्तिविभागेन प्रयोजनम् । एककर्तृकत्वात् ॥
अथ बहिष्पवमानेन स्तुवीरन् । उपास्मै गायता नर (सा. ६५१-२) इत्यादीषे पवस्व धारये-(सा० ८४१-३) त्यन्तं बहिष्पवमानम् । हिरण्यकशिपुन्यासीन उद्गाता बहिष्पवमानेन स्तुत्वा स एव तद्धरेदजिनम् । एककर्तृत्वात् ॥
अथाभिमेधनम् । या पत्नीनां प्रियतमा यजमानस्येत्यादिना विहितम् । स्वाहाकृतिभिश्चरित इत्यादिना ब्रह्मोद्यवदनं च। ततो धिष्ण्योपस्थानादि कार्यम् । कया ते अग्ने अङ्गिरः (सा० १५४९-५१) पुरूरुणा चिद्ध्यस्ति (सा० ९८५-७) तमिन्द्रा वाजयामसि (सा० १२२२-४) इयं वामस्य मन्मन (सा० ९१६-८) इत्याज्यानि । अस्य प्रत्ने-(सा० ७५५-७)ति गायत्रं चामहीयवं (ऊ० ९.२.३) च। अभि सोमास आयव (सा० ८५६-८) इति गौतम-(ऊ. २.१.१५ )मन्तरिक्षम (र० १.१.६) दैर्घश्रवस-(ऊ० १४. २. ५)मिति सामतृचः । संतनि ( ऊ० १४. २.१० ) तिसृषु । पौरुमद्ग-(ऊ० २.१.१४) गायत्रपार्श्व-(ऊ० ४. २. ८)मैधातिथ-(ऊ० ९.३.६)मिति सामतृचः। द्विहिंकारं (ऊ० १४.२.६ ) तिसृषु।
अयं सोम (सा० १४७१-३) इतीनिधनमाज्यदोहमन्त्यम् (र० ३. २. ५)। महानाम्न्यश्च । वामदेव्यं ( ऊ० १. १. ५) च पार्थुरश्मं च श्रायन्तीयस्यर्क्षु (सा० १३१९-२०) संकृती-(र० ३. २. ७) ति पृष्ठानि । महानाम्नीनां शक्वरी छन्दः । पार्थुरश्मस्य पङ्क्तिः । यस्ते मद (सा० ८१५-७) इति गायत्रं चाग्नेश्चार्कः (र० १. २. १) । अभि द्युम्नं बृहद्यशः (सा० १०११-२) सखाय आ निषीदते-(सा० ११५७-९)ति वाचः साम (ऊ० १४. २. १४ ) शौक्तं (ऊ० १४. २. १५) च। पर्यूषु (सा० १३६४-६) इति आन्धीगवम् (ऊ० ६. १. १९) । इन्द्राय सोम पातवे (सा० १६७९-८१ इति यज्ञायज्ञीयम् (ऊ०. १४. २. २१)। पवित्रं ते ( सा० ८७५-७ ) इत्यरिष्ट-(र० १. १. ८)मन्त्यम् । स्वासु विशोविशीयमग्निष्टोमसाम (ऊ० १५. १. २) । प्रमंहिष्ठीयं (ऊ० २. २. ५) हारिवर्णम् (ऊ० २. २. ६) उद्वंशीय-( ऊ० ६. १. ८ ) मित्युक्थानि । सर्वमेकविंशम् ॥ ३॥
 
इति द्वितीयमहः ।। २० ॥
तृतीयमहः
तृतीयमहराह --
पवस्व वाचो अग्रिय (सा० १०१६-८) पवस्वेन्दो वृषा सुतः (सा० ७७८-८०) पवमानस्य त कवे (सा० ६५७-९) ॥१॥
इति बहिष्पवमानम् ॥
गायत्रादुत्तरे चत्वार एकर्च्चाः । उत्तमं च बार्हतम् । अनुष्टुभि त्रय एकर्च्चाः । उत्तमं तृचे ॥ २ ॥
समानमितरं उत्तमेनाह्ना गर्गत्रिरात्रस्य ॥ ३ ॥
इति । होता देवो अमर्त्यो (सा० १४७७-९) मित्रं वयं हवामहे (सा० ७९३-५) महाँ इन्द्राय ओजसा ( सा० १३०७ -९ ) इन्द्रे अग्ना नमो बृहद् (सा० ८००-२) इत्याज्यानि ॥
 
</poem>
"https://sa.wikisource.org/wiki/आर्षेयकल्पः/अध्यायः_०६" इत्यस्माद् प्रतिप्राप्तम्