"आर्षेयकल्पः/अध्यायः ०६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३८३:
समानमितरं उत्तमेनाह्ना गर्गत्रिरात्रस्य ॥ ३ ॥
इति । होता देवो अमर्त्यो (सा० १४७७-९) मित्रं वयं हवामहे (सा० ७९३-५) महाँ इन्द्राय ओजसा ( सा० १३०७ -९ ) इन्द्रे अग्ना नमो बृहद् (सा० ८००-२) इत्याज्यानि ॥
 
321
अहीन: - अश्वत्रिरात्रः (३) [अ. ६. ख. २१]
 
उच्चा ते (सा० ६७२-४) इति गायत्रं तिसृषु । गोषूक्तं (ऊ० १२.१. २) जराबोधीय-(ऊ० ९.१.१४)मृषभः पवमान (ऊ० १२. १. १) इति सामतृचः । प्रत्नं पीयूषम् (सा० १४९४-६) इत्युत्सेध (ऊ० १३. २. ११) एकस्याम् । परीतो षिञ्चते-(सा० १३१३-५)ति आभीशवं (ऊ० ५. २. ६) तिसृषु । आथर्वणं (र० १. २. १२) तिसृषु । पृश्नि (ऊ० ७. २. ३) एकस्याम् । तिस्रो वाच ( सा० ८५९-६१ ) इति त्रिणिधनमाज्यदोह-(र० ३. २.६)मन्त्यम् । बृहच्च (र० १. १. ५) सत्रासाहीयं (ऊ० २. २. १२) च श्यैतं (ऊ० २.१.३) च रौरवं (ऊ० १. १. २) चेति पृष्ठानि । परिस्वानो गिरिष्ठा (सा० १०९३-५) इति गायत्रं च हाविष्मतं (ऊ० १५. १. ८) च । स सुन्वे यो वसूनाम् (सा० १०९६-७) प्राणा शिशुमहीनाम् (सा० १०१३-५) इति दीर्घ-(ऊ० ३. २. ११)श्रुध्ये (ऊ० १२. १. ५)। अयं पूषा (सा० ८१८-२०) इति निषेधः (ऊ० १३.१.२) श्यावाश्वं (ऊ० ११.२.१०) क्रौञ्च-(ऊ० २. १. ९)मिति सामतृचः। यज्ञायज्ञीयं (ऊ० १५. १. १३) तिसृषु। परि प्र धन्वे-(सा० १३६७-९)ति वाजदावर्यः (ऊ० १२.१.७ ) अया रुचे-(सा० १५९०-२)ति नित्यवत्साः (र० ३.१.१२) । धर्ता दिव (सा० १२२८-३०) इति दीर्घतमसोऽर्कोन्त्यः (र० ३. १.१०)। वारवन्तीयमग्निष्टोमसाम (सा० १६३४-६, ऊ० १२. २. १७)। साकमश्वं (ऊ० १. १. १५) सौभरं (ऊ० १.१.१६) नार्मेध-(ऊ० १.११.७)मित्युक्थानि। गौरीवितं (ऊ० १.२.१८) षोडशिसाम । आहिनीकी रात्रिः संधिः । सर्वस्तोमोऽतिरात्रवत् स्तोमाः । त्रिवृद्बहिष्पवमानम् । पञ्चदशान्याज्यानि । सप्तदशो माध्यंदिनः पवमानः। एकविंशानि पृष्ठानि । त्रिणव आर्भवः । त्रयस्त्रिंशोऽग्निष्टोमः। प्रत्यवरोहीण्युक्थानि । त्रिणवं प्रथमम् । द्वे एकविंशे सषोडशिके। पञ्चदशी रात्रिः। त्रिवृत्संधिरिति । अहावो हावा इत्यवभृथसाम । अश्वमेधविकल्पाः सूत्रत एवावधार्याः ॥३॥
इति तृतीयमहः ॥ २१ ॥
 
अश्वत्रिरात्रः समाप्तः ॥
 
 
बैदत्रिरात्रः
त्रयस्त्रिवृतोऽतिरात्राः सर्वे षोडशिमन्तः ( तां० ब्रा० २१-५ ) इत्यनुवाकेन बैदत्रिरात्र उक्तः। आद्यन्तयोरह्नोश्चात्वाले मध्यमस्य बहिष्पवमानस्तवनम् । अथवा प्रथमस्य चात्वाले परयोः सदस्येव । तदुक्तम् - बैदत्रिरात्रे सत्रं न्यायं गौतमोऽहीनं न्यायं धानंजय्य (ला० श्रौ० २२. ४-५) इति ॥
 
प्रथममहः
तत्र प्रथमस्याह्नः कल्पः --
प्र सोमासो विपश्चित (सा० ७६४-६) इति गायत्रमेकस्याम् । आश्वमेकस्याम् (ऊ० १. २. २१)। जराबोधीयमेकस्याम् (ऊ० १४. १.१२) । प्र सोम देववीतये (सा० ७६७-८) इति गौङ्गवमेकस्याम् ( ऊ० ९.२. १७ )। पज्रमेकस्याम् (ऊ० ६. २. १३)। यौधाजयमेकस्याम् (ऊ० १. २. ३)। औशनम् (ऊ० ५. १. ११) औपगवम् ( ऊ० ४.१.१८)
 
323
अहीनः-बैदत्रिरात्रः (१) [अ. ६. ख. २२]
आष्टादंष्ट्रम् (ऊ० ७. १. ११)। प्रत्यस्मै पिपीषत (सा० १४४०-२) इति नानदं षोडशिसाम (ऊ० १०.१.१) ॥१॥
रात्रिः संधिः । समानमितरं प्रथमेनाह्ना गर्गत्रिरात्रस्य ॥ २ ॥
इति । उपास्मै गायता नरः (सा० ६५१-३) पवमानस्य ते वयम् (सा० ७८७-९) पवमानस्य ते कवे (सा० ५५७-९) इति बहिष्पवमानम्।
अग्न आ नो मित्रायाहीन्द्राग्नी-( सा० ६६०-७१ )त्याज्यानि । प्र सोमासो विपश्चित ( सा० ७६४-६) इति गायत्रम् आश्वं (ऊ० ६.२.१२) जराबोधीय-(ऊ० १४.१.१२)मिति सामतृचः । प्र सोम देववीतये (सा० ७६७-८) इति गौङ्गवं (ऊ० ९.२.१२) पज्रं ( ऊ० ६. २.१३ ) यौधाजय-( ऊ० १. २. १३ )मिति सामतृचः । औशन-(ऊ० १. १. ५)मन्त्यम् । रथन्तरं (र० १.१.१) च स्वारं च सौपर्णम् (ऊ० १४. १. १६)। शग्ध्यूषु शचीपत (सा० १५७९-८०) इत्यभीवर्तः (ऊ० ११. २. ६)। स्वासु कालेय-(ऊ० १.१.७)मिति पृष्ठानि । स्वादिष्ठये-(सा० ६८९-९१)ति गायत्रं च स्वाशिरामर्कः (र० ३. १. २)। अया पवस्व देवयुः पवते हर्यतो हरि-(सा० ७७२-३)रिति सफाक्षारे (ऊ० १.२.१५-६)। प्र सुन्वानायान्धस (सा० १३८६-८) इति औदलं (ऊ० ११.२.३) चर्तनिधनं चाज्यदोहम् (र० ३. २. ४)। अभि प्रियाणि (सा० ७००-२) इति वैखानस-(ऊ० १४. १. १८)मन्त्यं तिसृषु । इतराण्याद्यासु यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १. १. १४)। प्रेष्ठं व (सा० १२४४-६) इत्यौशनम् ( ऊ० ५. १. ११ ) । त्वं न इन्द्रे-(११६९-७१)त्यौपगवम् (ऊ० ४.१.१८)। इन्द्रं विश्वे(सा० ८२७-९)त्याष्टादंष्ट्रयोरुत्तर-( ऊ० ७. १. ११ ) मित्युक्थानि । उत्तरमभिप्लववैदत्रिरात्रयो-( उ० ग्र० सू० ४.४ )रित्युपग्रन्थवचनात् उत्तरमित्युक्तम् । प्रत्यस्मै पिपीषत (सा० १४४०-२) इति नानदं (ऊ० १०.१. १) षोडशिसाम। रात्रिराहीनिकी। सर्वं त्रिवृत् ॥२॥
इति प्रथममहः ॥ २२ ॥
द्वितीयमहः
द्वितीयस्याह्नः
उपोषु जातमप्तुरम् ( सा० १३३५-७) दविद्युतत्या रुचा (सा० ६५४-६) इषे पवस्व धारया (सा० ८४१-३ ) ॥
। इति बहिष्पवमानम् ॥
पर्यूषु (सा० १३६४-६) इति श्यावाश्वम् (ऊ० ६.१.१८)। इन्द्राय सोमपातव (सा० १०२५-७) इति आन्धीगवम् (ऊ० १२. २.३)। पवित्रं त (सा० ८७५-७) इति यज्ञायज्ञीयमन्त्यम् (ऊ० १५. १.१)। उद्वंशीयस्य लोके तैरश्च्यम् (ऊ० २. २. ७) । उद्वंशीयं ( ऊ० ६.१.८) षोडशिसाम रात्रिः संधिः ॥ १॥
समानमितरं मध्यमेनाह्ना गर्गत्रिरात्रस्य ॥ २ ॥
इति । उपोषु जातमप्तुरं (सा० १३३५-७) दविद्युतत्या रुचा (सा० ६५४-६) इषे पवस्त्र धारये-( सा० ८४१-३)ति बहिष्पवमानम् । कया ते अग्ने अङ्गिरः (सा० १५४९-५१) पुरूरुणा चिद्धयस्ति (सा० ९८५-७) तमिन्द्रं वाजयामसि (सा० १२२२-४) इयं वामस्य मन्मनः (सा० ९१६-८) इत्याज्यानि । अस्य प्रत्ने-(सा० ७५५-७)ति गायत्रं चामहीयवं (ऊ० ९. २. ३) च। अभि सोमास आयवः (सा० ८५६-८) इति गौतमं (ऊ० २. १. १५) चान्तरिक्ष (र० १.१.६) च दैर्घश्रवसं (ऊ० १४. २. ५) च द्विहिंकारं (ऊ० १४. २. ६) च । अयं सोम ( सा० १४७१-३) इतीनिधनमाज्यदोह-(र० ३. २. ५)मन्त्यम् । अन्त्यवर्जमेकर्चाः। तत्र
 
325
अहीनः --बैदत्रिरात्र: (३) [अ. ६. ख. २४]
 
गौतमान्तरिक्षदैर्घश्रवसानि सामतृचः । द्विहिंकारमध्यास्यायाम् । अध्यास्यायां चेत्यधिकृत्य । चतुरो नानास्तोत्रीयास्वि-( ला० श्रौ० ६. ३. २३)ति वचनात् । स्वासु वामदेव्यम् (सा० ६८२-४ ; ऊ० १. १. ५)। मोषु त्वा वाघतश्चन (सा० १६७५-६) इति गायत्रपार्श्वम् (ऊ० १४. २. ९) । अस्तावि मन्म पूर्वम् (सा० १६७७-८) इति संतनि (ऊ० १४. २. १०)। श्रायन्तीयस्यर्क्षु ( सा० १३१८-२० ) संकृती-(र० ३. २. ७)ति पृष्ठानि । यस्ते मदो वरेण्य (सा० ८१५-७) इति गायत्रं चाग्नेश्चार्कः (र० १. २. १)। अभि द्युम्न (सा० १०११-२) सखाय आ निषीदते-(सा० ११५७-९)ति वाचःसाम (ऊ० १४. २. १४)। शौक्तं (१४. २. १५) च। पर्यूष्वि-(सा० १३६४-६)ति आन्धीगवम् (ऊ० ६. १. १९) । इन्द्राय सोम पातवे (सा० १६७९-८१) इति यज्ञायज्ञीयम् (ऊ० १४. २. २१)। पवित्रं त ( सा०८७५-७) इति अरिष्ट-(र० १.१.८)मन्त्यम् । अन्त्यवर्जमेकर्चाः। स्वासु विशोविशीय-(ऊ० १५. १. २)मग्निष्टोमसाम। प्रमँहिष्ठीयं (ऊ० २.२.५) हारिवर्णं (ऊ० २. २. ६) तैरश्च्य-( ऊ० २. २. ७) मित्युक्थानि । उद्वंशीयं (ऊ० ६.१.८) षोडशिसाम । रात्रिराहीनिकी संधिः । सर्वं त्रिवृत् ॥ २॥
इति द्वितीयमहः ।। २३ ॥
 
तृतीयमहः
तृतीयस्याह्नः
पवस्व वाचो अग्रियः (सा० ७५५-७ ) पवस्वेन्दो वृषा सुतः (सा० ७७८-८०) आ ते दक्षं मयोभुवम् (सा० ११३७-९)॥१॥
इति बहिष्पवमानम् ॥
उद्धरति जराबोधीयं सतोबृहती द्विपदातिच्छन्दसश्च ॥२॥
प्रतिलोमं बार्हतानि ।३॥
अयं पूषा रयिर्भग ( सा० ८१८-१०) इति दीर्घतमसोऽर्कः (र० ३. २. ११) । क्रौञ्चं ( ऊ० २.१.९) च । धर्ता दिवः (सा० १२२८-३०) इति यज्ञायज्ञीयम् (ऊ० १५.१.१५) अन्त्यम् ॥४।
समानमितरमुत्तमेनाह्ना गर्गत्रिरात्रस्य ॥५॥
इति । पवस्व वाचो अग्रियः (सा० ७७५-७) पवस्वेन्दो वृषा सुतः ( सा० ७७८-८० ) आ ते दक्षं मयोभुवम् ( सा० ११३७-९ ) इति बहिष्पवमानम् । होता देवो अमर्त्यो-(सा० १४७७-९) मित्रं वयं हवामहे (सा० ७९३-५) महा इन्द्रो य ओजसा (सा० १३०७-९) इन्द्रे अग्ना नमो बृहदि-(सा० ८००-२)त्याज्यानि । उच्चा ते जातमन्धस (सा० ६७२-४) इति गायत्रं च गोषूक्तं (ऊ० १२. १. २) च ऋषभः पवमानः (ऊ० १२. १. १)। परीतो षिञ्चता सुतम् ( सा० १३१३-५ ) इति पृश्नि (ऊ० १५. १. ६)
आथर्वण-(र० १. २. १२)माभीशवम् (ऊ० ५. २.६)। तिस्रो वाच ( सा० ८५९-६१) इति त्रिणिधनमाज्यदोह-(र० ३.२.६) मन्त्यम् । अन्त्यव्यतिरिक्ता एकर्चाः । तत्र गायत्री बृहत्यौ सामतृचौ । बृहच्च (र० १. १. ५) सत्रासाहीयं (ऊ० २.२.१२) च श्यैतं (ऊ० २. १.३) च रौरवं (ऊ० १.१.२) चेति पृष्ठानि । परिस्वानो गिरिष्ठा ( सा० १०९३-५) इति गायत्रहाविष्मते (ऊ० १५. १. ८)। स सुन्वे यो वसूनाम् (सा० १०९६-७) प्राणा शिशुर्महीनाम् ( सा० १०१३-५ ) इति दीर्घ-(ऊ० ३. २. ११)श्रुध्ये (ऊ० १२. १. ५) । अयं पूषा रयिर्भग (सा० ८१८-१०) इति दीर्घतमसोऽर्कः (र० ४. ३. ८) क्रौञ्चं
 
327
अहीनः-छन्दोमपवमानत्रिरात्रः [अ. ६. ख. २५]
 
(ऊ० १५.१.१७) च। धर्ता दिवः (सा० १२२८-३०) इति यज्ञायज्ञीय(ऊ० १५.१.१५)मन्त्यम् । अन्त्यमेव तृचे । वारवन्तीय-(ऊ० ३.२.८ )मग्निष्टोमसाम । साकमश्वं (ऊ० १.१.१५) सौभरं ( ऊ० १.१.१६) नार्मेध-(ऊ० १.१.१७)मित्युक्थानि । गौरीवितं (ऊ० १.२.१८) षोडशिसाम । रात्रिः संधिः। सर्वं त्रिवृत् । प्रथमं रात्रिषाम । षोडशं वा। तत् बैदोत्तमेऽप्याचार्या इति वचनात् ॥ ५ ॥
इति तृतीयमहः॥ २४॥
बैदत्रिरात्रः समाप्तः॥
----------
छन्दोमपवमानत्रिरात्रः
प्रथममहः
चतुर्विंशाः पवमानाः (तां० ब्रा० २१. ६) इत्यनुवाकेन छन्दोमपवमान उक्तः। तस्य प्रथमस्याह्नः कल्पः --
सांवत्सरिकस्य विषुवतो बहिष्पवमानम् । उभौ पर्यासौ । अश्वादुत्तरे । सोमसाम च (ऊ० १४. १.१३) रोहितकूलीयं (ऊ० १४. १. १४) च । पवस्वेन्द्रमच्छे-( सा० ६९२-६ )ति सफा-(ऊ० १. १. ९) क्षारे (ऊ० १४. १. १७) ॥१॥
समानमितरं प्रथमेनाह्नाश्वत्रिरात्रस्य ॥ २ ॥
इति। सांवत्सरिकस्येति विषुवदतिरात्रव्यावृत्त्यर्थम् । उपास्मै गायता नरः (सा० ६५१-३) बभ्रवे नु स्वतवसे ( सा० १४४४-९) प्र स्वानासो रथा इव (सा० १४१९-२७) पवमानस्य ते वयम् ( सा० ७८७-९) पवमानस्य ते कवे ( सा० ६५७-९) इति बहिष्पवमानम् । अग्न आ याहि वीतय (सा० ६६०-७१) इत्याज्यानि । प्र सोमासो विपश्चित (सा० ७६४-६) इति गायत्रं चाश्वं (ऊ० ६.२.१२) च सोमसाम (ऊ० १४.१.१३) च रोहितकूलीयं (ऊ० १४.१.१४) च । प्र सोम देववीतय (सा० ७६७-८) इति पज्रं (ऊ० ६.२.१३) च गौङ्गवं (ऊ० ९.२.१७) च यौधाजयं (ऊ० १.२.१३) चौशन-(ऊ० १.१.४)मन्त्यम् । रथन्तरं (र० १. १. १) च स्वारं च सौपर्णम् (र० १४. १. १६) शग्ध्यूष्वि-(र० ११. २. ६)त्यभीवर्तः (र० ११. २. ६) । स्वासु कालेय-(र० १. १. ७)मिति पृष्ठानि । स्वादिष्ठये-(सा० ६८९-९१)ति गायत्रं च स्वाशिरामर्कः (र० ३.१.२)। पवस्वेन्द्रमच्छे- (सा०६९२-६)ति सफा-( ऊ० १.१.९ )क्षारे ( ऊ० १४.१.१७)। प्र सुन्वानायान्धसः (सा० १३८६-८) इति औदलं (ऊ० ११.२.२) च गौतमं (ऊ० ११. २.१३) चर्तनिधनमाज्यदोहम् (र० ३.२.४)। अभि प्रियाणी-(सा० ७००-२)ति वैखानस-(ऊ० १४.१.१८)मन्त्यम् । यज्ञायज्ञीय-(ऊ० १.१.१४)मग्निष्टोमसाम । चतुर्विंशाः पवमानाः। त्रिवृन्त्याज्यानि ।
पञ्चदशानि पृष्ठानि । सप्तदशोऽग्निष्टोमः । नात्र स्तोमानां चतुष्पर्यायत्वम् ॥ २॥
इति प्रथममहः ॥२५ ।।
-----------
द्वितीयमहः
द्वितीयस्याह्नः --
वृषा सोम द्युमाँ असि (सा० ७८१-३) वृषा ह्यसि भानुना (सा० ७८४-६) एते सोमा अभि प्रियम् (सा० ११७८-८६) सोमः पुनानो अर्षति (सा० ११८७-९५ ) उत्ते शुष्मास
 
329
अहीनः -- छन्दोमपवमानत्रिरात्रः (२) [अ. ६. ख. २६]
 
ईरते (सा० १२०५-९) इति पुरस्तात् पर्यासस्याहरति । आमहीयवादुत्तराण्याशु भार्गवप्रभृतीनि षट् (ऊ० १४. १. १९-२०; १४. २. १-४)। द्विहिंकारादुत्तराण्यच्छिद्रं च (ऊ० ४. २. १२) मैधातिथं ( ऊ० ९. ३. ६) च पौरुहन्मनम् (ऊ० १४. २. ८) । अग्नेश्चार्कादुत्तराणि सुरूपप्रभृतानि चत्वारि । यज्ञायज्ञीयात् पूर्वाण्यासितं (ऊ० १४. २. १६) च कौत्सं च (१४. २. १७) शुद्धाशुद्धीयं च (ऊ० १४. २. १८) क्रौञ्चं च (ऊ० १४. २. १९) रयिष्ठम् ( ऊ० १४. २. २०)॥ १॥
समानमितरं मध्यमेनाह्ना गर्गत्रिरात्रस्य ॥ २ ॥
इति । उपोषु जातमप्तुरम् ( सा० १३३५-७ ) दविद्युतत्या रुचा (सा० ६५४-६) पवस्वेन्दो वृषा सुतः (सा० ७७८-८०) राजा मेधाभिरीयते (सा० ८३३-५) वृषा सोम द्युमाँ असि (सा० ७८१-३) वृषाह्यसि भानुना ( सा० ७८४-६ ) एते सोमा अभि प्रियम् (सा० ११७८-८६) सोमः पुनानो अर्षति (सा० ११८७-९५) उत्ते शुष्मास ईरते (सा० १२०५-९) इषे पवस्व धारये-(सा० ८४१-३)ति बहिष्पवमानम् । कया ते अग्ने अङ्गिरः (सा० १५४९-५१) पुरूरुणा चिद्धयस्ति (सा० ९८५-७) तमिन्द्रं वाजयामसि (सा० १२२२-४) इयं वामस्य मन्मनः ( सा० ८१६-८) इत्याज्यानि । अस्य प्रत्ने-(सा० ७५५-७)ति गायत्रं चामहीयवं (ऊ० ९.२.३) चाशुभार्गवं (ऊ० १४. १. १९) च मार्गीयवं (ऊ० १४.१.२०) च सौमित्रं (ऊ० १४.२.१) चैटतं (ऊ० १४. २. २) च साकमश्वं (ऊ० १४.२.३) च विलम्बसौपर्णं (ऊ० १४.२.४) च । अभि सोमास आयव (सा० ८५६-८) इति गौतमं चान्तरिक्षं (र० १.१.६) च दैर्घश्रवसं च । द्विहिंकारं (ऊ० ४.२.७)चाच्छिन्द्रं (ऊ० ४.२.१२) च मैधातिथं (ऊ० ९.३.६) च पौरुहन्मनं (ऊ० ४.२.९) च । अयं सोम ( सा० १४७१-३ ) इति ईनिधनमाज्यदोह-(र० ४.१.२)मन्त्यम् । गौतममाद्यायाम् । पौरुहन्मनमध्यास्यायाम् । स्वासु (सा० ६८२-४) वामदेव्यम् (ऊ० १.१.५)। मोषु त्वा वाघतश्चने-(सा० १६७५-६)ति गायत्रपार्श्वम् (ऊ० १४.२.९)। अस्तावि मन्म पूर्व्यम् (सा० १६७७-८) इति सन्तनि (ऊ० १४.२.१०) । श्रायन्तीयस्यर्क्षु (सा० १३१९-२०) संकृती-( र० ४.१. ४)ति पृष्ठानि । यस्ते मदो वरेण्य ( सा० ८१५-७ ) इति गायत्रं चाग्नेश्चार्कः (र० १.३.१) सुरूपं च भासं ( ऊ० १४. २. ११-१२ ) च काक्षीवतं (ऊ० १२.२.९ ) च गायत्रीसामासितं (ऊ० १४.२.१३) च। अभिद्युम्नं बृहद्यशः ( सा० १०११-२) सखाय आ निषीदत (सा० ११५७-९) इति वाचःसाम शौक्तं (ऊ० १४. २.१४-५) चैकर्च्चयोः । पर्यूष्वि(सा० १३६४-६)त्यान्धीगवम् (ऊ० ६.१. १९)। इन्द्राय सोम पातवे (सा० १६७९-३१) इति आसितं (ऊ० १४.२.१६) च कौत्सं (ऊ. १४.२.१७) च शुद्धाशुद्धीयं (ऊ० १४.२.१८) च क्रौञ्चं (ऊ० १४.२.१९) च रयिष्ठं (ऊ० १४.२.२०) च यज्ञायज्ञीयं (ऊ० १४. २. २१) च। पवित्रं त (सा० ८७५-७) इत्यरिष्ट- (र० १.१.८)मन्त्यम् । स्वासु विशोविशीय-(ऊ० १५.१.२)मग्निष्टोमसाम । प्रमँहिष्ठीयं (ऊ. २. २. ५) हारिवर्ण-(ऊ० २. २. ६ )मुद्वंशीय-( ऊ० ६.१.८ )मित्युक्थानि । चत्वारिंशाः पवमानाः । पञ्चदशान्याज्यानि । सप्तदशानि पृष्ठानि । एकविंशोऽग्निष्टोमः सोक्थः इति स्तोमाः ॥२॥
इति द्वितीयमहः ॥२६ ।।
 
331
 
 
</poem>
"https://sa.wikisource.org/wiki/आर्षेयकल्पः/अध्यायः_०६" इत्यस्माद् प्रतिप्राप्तम्