"ऋग्वेदः सूक्तं ३.२७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ६१:
देवान् । जिगाति । सुम्नयुः ॥१
 
हे ऋतवः “वाजाः । वजन्ति गच्छन्तीति वाजा मासाः । “अभिद्यवः । अभितो द्यवो दिवसा येष्वित्यभिद्यवोऽर्धमासाश्च । “हविष्मन्तः हविर्भाजो देवाः। “घृताच्या । घृतमञ्चतीति घृताची गौः । तथा च तैत्तिरीयकं-- देवा हवि:मन्तोहविष्मन्तो गौर्घृताची' (तै. सं.२.५.७.४) इति । यद्वा हविष्मन्तो हविषः क्षीरादेः प्रदातारः पशवो घृताच्या । घृतमञ्चति प्राप्नोतीति घृताची स्रुक् । तथा च वाजसनेयकं--- ‘ पशवो हविष्मन्तः स्रुग्घृताची' इति । तया घृताच्या सहिता हविष्मन्तो देवाः पशवश्च मासाश्चार्धमासाश्चेति सर्वे “वः युष्माकं यजनार्थं प्रभवन्ति । तेषु वाजादिषु प्रभवत्सु सत्सु "सुम्नयुः सुखमात्मन इच्छन् यजमानः “देवाञ्जिगाति यज्ञद्वारा देवान् प्राप्नोति । उक्तार्थे तैत्तिरीय ब्राह्मणं- प्र वो वाजा इत्यन्वाह मासा वै वाजा अर्धमासा अभिद्यवो देवा हविष्मन्तो गौर्घृताची यज्ञो देवाञ्जिगाति यजमानः सुम्नयुः ' ( तै. सं. २, ५, ७. ४) इति ॥ अभिद्यवः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरः । घृताच्या । ‘ घृ क्षरणदीप्त्योः '। अस्मात् । अञ्जिघृषिभ्यः क्तः' (उ. सू. ३. ३६९) इति कर्मणि क्तः । घृतमाज्यमञ्चतीति ' ऋत्विग्दधृक्' इत्यादिना क्विन् । “अनिदिताम्' इत्युपधालोपः। 'अञ्चतेश्चोपसंख्यानम् ' इति ङीप् ।' चौ ' इति पूर्वपदान्तोदात्तत्वम् । जिगाति । गातिः गत्यर्थः । छान्दसो जुहोत्यादिः । निघातः । सुम्नयुः । सुम्नं सुखमात्मन इच्छन्निति" ‘सुप आत्मनः क्यच्' । 'क्याच्छन्दसि ' इत्युः । प्रत्ययस्वरः ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.२७" इत्यस्माद् प्रतिप्राप्तम्