"आर्षेयकल्पः/उपोद्घातः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४९४:
वृषा पवस्व धारयेति गायत्रं च संतनि च सौपर्णं च रोहितकूलीयं च । पुनानः सोमधारयेति कण्वरथन्तरं च गौङ्गवं च द्विनिधनं चायास्यं च । प्रो अयासीदिति जगतीषु प्रवद्भार्गवम् । इति माध्यंदिनः पवमानः ।।
 
बृहत्पृष्ठं ''बार्हतं षष्ठमबार्हतं सप्तम(तां० ब्रा० १४.३. १ ७)मिति श्रुतेः । सूक्तानुरूपान् छन्दोमान् करोती(नि०सू० ४.६ )त्यारभ्य बृहद्रथन्तरे पृष्ठे( नि० सू० ४.६) इत्यादिनिदानवचने छन्दोमानां बृहद्रथन्तरपृष्ठत्वप्रतिपादनात् छन्दोमेषु वृहद्रथन्तरयो रथघोषादि न कार्यम् । पृष्ठ्ये रथमतिवहेयुरित्यादिना नानापृष्ठ्यषडहे रथघोषादि- विधानात् । अथापि बृहद्रथन्तरयोः संप्रयुक्तयोरेवेतरैः पृष्ठैः रथव्यतिवर्तनं च दुन्दुभ्या हननं च भवति । नासंप्रयुक्तयोरित्युपग्रन्थवचनाच्च ।।
 
स्वासु वामदेव्यम् । वयं घत्वेत्यभिनिधनं काण्वम् । नकिष्टमितीतराणि पृष्ठानि ।।
"https://sa.wikisource.org/wiki/आर्षेयकल्पः/उपोद्घातः" इत्यस्माद् प्रतिप्राप्तम्