"तैत्तिरीयब्राह्मणम् (विस्वरपाठः)/काण्डः २/प्रपाठकः ०६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ६४:
सूर्यो मा तस्मादेनसः । विश्वान्मुञ्चत्वँहसः । यद्ग्रामे यदरण्ये । यत्सभायां यदिन्द्रिये । यच्छूद्रे यदर्ये । एनश्चकृमा वयम् । यदेकस्याधि धर्मणि । तस्यावयजनमसि । यदापो अघ्निया वरुणेति शपामहे । ततो वरुण नो मुञ्च २९
 
अवभृथ निचङ्कुण निचेरुरसि निचङ्कुण । अव देवैर्देवकृतमेनोऽयाट् । अव मर्त्यैर्मर्त्यकृतम् । उरोरा नो देव रिषस्पाहि । सुमित्रा न आप ओषधयः सन्तु । दुर्मित्रास्तस्मै भुयासुःभुूयासुः । योऽस्मान्द्वेष्टि । यं च वयं द्विष्मः । द्रुपदादिवेन्मुमुचानः । स्विन्नः स्रात्वीस्नात्वी मलादिव ३०
 
पूतं पवित्रेणेवाज्यम् । आपः शुन्धन्तु मैनसः । उद्वयं तमसस्परि । पश्यन्तो ज्योतिरुत्तरम् । देवं देवत्रा सूर्यम् । अगन्म ज्योतिरुत्तमम् । प्रतियुतो वरुणस्य पाशः । प्रत्यस्तो वरुणस्य पाशः । एधोऽस्येधिषीमहि । समिदसि ३१