"ऋग्वेदः सूक्तं १.१२७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ७०:
घृतस्य । विऽभ्राष्टिम् । अनु । वष्टि । शोचिषा । आऽजुह्वानस्य । सर्पिषः ॥१
 
“अग्निं सर्वासां देवसेनानामग्रण्यं यज्ञेष्वग्रं नीयमानं वा “होतारम् अस्मद्यागं प्रति देवानामाह्वातारम् यद्वा । होमनिष्पादकं होतारम् । ‘ जुहोतेर्होतेत्यौर्णवाभः ' ( निरु. ७. १५) इति यास्कः । ‘ अग्निमद्य होतारमवृणीत ' ( तै. ब्रा. २. ६. १५. १ ) इति श्रुतेः । अग्निमग्न आवह ' ( तै. ब्रा ३. ५. ३. २) इति च अनेराह्वातृत्वंअग्नेराह्वातृत्वं प्रसिद्धम् । अग्निं होतारं मन्ये । एवं प्रति विशेषणं मन्ये इति संबन्धः । यद्वा । यागनिष्पत्तेरेवापेक्षितत्वात् एतदेव विधेयविशेषणम् । इतराणि वक्ष्यमाणविशेषणानि स्तुतिपराणि । “दास्वन्तम् अतिशयेन दानवन्तं "वसुं सर्वेषां निवासहेतुं “सहसः “सूनुं बलस्य पुत्रम् । अग्निर्मन्थनकाले बलेन मथ्यमानः उत्पद्यते इति पुत्रत्वमुपचर्यते “जातवेदसं जातानां वेदितारं जातप्रज्ञं जातबलं वा । जातवेदःशब्दो यास्केन बहुधा निरुक्तः ( निरु. ७. १९ ) । अग्नेर्जातवेदस्त्वे दृष्टान्तः । “विप्रं “न “जातवेदसं जातविद्यं मेधाविनं ब्राह्मणमिव । तं यथा बहु मन्यन्ते तथा त्वामपि मन्ये स्तौमीत्यर्थः । उक्तगुणविशिष्टः “यः “देवः “स्वध्वरः शोभनयज्ञवान् यज्ञं सम्यक् निर्वहन “ऊर्ध्वया उन्नतया उत्कृष्टया “देवाच्या देवान् पूजयन्त्या देवान् प्रत्यक्तया वा “कृपा कृपया सामर्थ्यलक्षणया । ‘ देवान्प्रत्यक्तया कृपा ' ( निरु. ६. ८ ) इति यास्कः । तेभ्यो हविर्वहनबुद्यातवहविर्वहनबुद्ध्या युक्तः सन् आजुह्वानस्य आ समन्तात् हूयमानस्य “सर्पिषः सरणशीलस्य “घृतस्य विलापनेन दीप्तत्याज्यस्य “विभ्राष्टिं विशेषेण भ्राजमानम् “अनु स्वयमपि तदाज्यं “शोचिषा ज्वालया “वष्टि कामयते स्वीकरोतीत्यर्थः ।।
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१२७" इत्यस्माद् प्रतिप्राप्तम्