"शतपथब्राह्मणम्/काण्डम् १/अध्यायः २/ब्राह्मण १" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २:
 
== सस्वरः ==
<poem><span style="font-size: 14pt; line-height: 200%">स वै᳘ कपा᳘लान्येवा᳘न्यतर᳘ उपद᳘धाति॥
दृषदुपले᳘ अन्यतरस्तद्वा᳘ एत᳘दुभ᳘यं सह᳘ क्रियते तद्य᳘देत᳘दुभ᳘यं सह᳘ क्रिय᳘ते॥
शि᳘रो ह वा᳘ एत᳘द्यज्ञ᳘स्य य᳘त्पुरोडा᳘शः स गा᳘न्येवे᳘मा᳘नि शीर्ष्णः᳘ कपा᳘लान्येता᳘न्येवा᳘स्य कपा᳘लानि मस्ति᳘ष्क एव᳘ पिष्टा᳘नि तद्वा᳘ एतदे᳘कम᳘ङ्गमे᳘कं सह करवाव समानं᳘ करवावे᳘ति त᳘स्माद्वा᳘ एत᳘दुभ᳘यं सह᳘ क्रियते॥
स यः᳘ कपा᳘लान्युपद᳘धाति॥
स᳘ उपवेषमा᳘दत्ते धृष्टिरसी᳘ति स य᳘देनेनाग्निं᳘ धृ᳘ष्णि᳘वोपच᳘रति ते᳘न धृ᳘ष्टिर᳘थ य᳘देनेन यज्ञ᳘ उपाल᳘भत उ᳘पेव वा᳘ एनेनैत᳘द्वेष्टि त᳘स्मादुपवेषो ना᳘म॥
ते᳘न प्राचो᳘ ऽङ्गारानु᳘दूहति॥
अ᳘पाग्ने अग्नि᳘मामा᳘दं जहि नि᳘ष्क्रव्या᳘दं सेधे᳘त्ययं वा᳘ आमाद्ये᳘नेद᳘म् मनुष्याः᳘ पक्त्वा᳘श्नन्त्य᳘थ ये᳘न पु᳘रुषं द᳘हन्ति स᳘ क्रव्या᳘देता᳘वेवै᳘त᳘दुभा᳘वतो᳘ ऽपहन्ति॥
अथा᳘ङ्गारमा᳘स्कौति॥
आ᳘ देवय᳘जं वहे᳘ति यो᳘ देवयाट् तस्मिन् हवीं᳘षि श्रपयाम त᳘स्मिन्यज्ञं᳘ तनवामहा इ᳘ति त᳘स्माद्वाआ᳘स्कौति॥
त᳘म् मध्यमे᳘न कपा᳘लेनाभ्यु᳘पदधाति॥
देवा᳘ ह वै᳘ यज्ञं᳘तन्वानास्ते᳘ ऽसुररक्षसे᳘भ्य आसङ्गा᳘द्बिभयां᳘चक्रुर्नेन्नो ऽध᳘स्तान्नाष्ट्रा र᳘क्षांस्युपोत्ति᳘ष्ठानि᳘त्य᳘ग्निर्हि र᳘क्षसामपहन्ता त᳘स्मादेवमु᳘पदधाति तद्य᳘देष᳘ एव भ᳘वति ना᳘न्य᳘ एष हि य᳘जुष्कृतो मे᳘ध्यस्त᳘स्मान्मध्यमे᳘न कपा᳘लेनाभ्यु᳘पदधाति॥
स उ᳘पदधाति॥
ध्रुव᳘मसि पृथिवीं᳘ दृंहे᳘ति पृथिव्या᳘ एव᳘ रूपे᳘णैत᳘देव᳘ दृंहत्येते᳘नैव द्विष᳘न्तम् भ्रा᳘तृव्यम᳘वबाधते ब्रह्मव᳘नि त्वा क्षत्रव᳘नि सजातवन्यु᳘पदधामि भ्रा᳘तृव्यस्य वधाये᳘ति बह्वी वै य᳘जुःस्वाशीस्तद्ब्र᳘ह्म च क्षत्रं चा᳘शास्त उभे᳘ वीर्य᳘ सजातवनी᳘ति भूमा वै᳘ सजातास्त᳘द्भूमा᳘नमा᳘शास्त उप᳘दधामि भ्रा᳘तृव्यस्य बधाये᳘ति य᳘दि ना᳘भिच᳘रेद्य᳘द्य अभिच᳘रेदमु᳘ष्य बधाये᳘ति ब्रूयादभिनि᳘हितमेव᳘ सव्य᳘स्य पाणे᳘रङ्गु᳘ल्या भ᳘वति॥
अथा᳘ङ्गारमा᳘स्कौति॥
ने᳘दिह᳘ पुरा᳘ नाष्ट्रा र᳘क्षांस्याविशानि᳘ति ब्राह्मणो हि र᳘क्ससामपहन्ता त᳘स्मादभिनि᳘हितमेव सव्य᳘स्य पाणे᳘रङ्गु᳘ल्या भ᳘वति॥
अथा᳘ङ्गारम᳘ध्यूहति॥
अ᳘ग्ने ब्र᳘ह्म गृभ्णीष्वे᳘ति ने᳘दिह᳘ पुरा᳘ नाष्ट्रा र᳘क्षांस्याविशानि᳘त्यग्निर्हि र᳘क्षसामपहन्ता त᳘स्मादेनम᳘ध्यूह᳘ति॥
अ᳘थ य᳘त्पश्चात्तदु᳘पदधाति॥
धरु᳘णमस्यन्त᳘रिक्षं दृंहे᳘त्यन्त᳘रिक्षस्यैव᳘ रूपे᳘णैत᳘देव᳘ दृंहत्येते᳘नैव᳘ द्विष᳘न्तम् भ्रा᳘तृव्यम᳘वबाधते ब्रह्मव᳘नि त्वा क्षत्रव᳘नि सजातवन्यु᳘पदधामि भ्रा᳘तृव्यस्य बधायेति॥
अ᳘थ य᳘त्पुर᳘स्तात्तदु᳘पदधाति॥
धर्त्र᳘मसि दि᳘वं दृंहे᳘ति दिव᳘ एव᳘ रूपे᳘णैत᳘देव᳘ दृंहत्येते᳘नैव᳘ ॥। बधायेति॥
अ᳘थ य᳘द्दक्षिणतस्तदु᳘पपधाति॥
वि᳘श्वाभ्यस्त्वा᳘शाभ्य उ᳘पदधामी᳘ति स य᳘दिमां᳘ल्लोकान᳘ति चतुर्थम᳘स्ति वा न᳘ वा ते᳘नैवै᳘त᳘द्द्विष᳘न्तम् भ्रा᳘तृव्यम᳘वबाधते᳘ ऽनद्धा वै तद्य᳘दिमां᳘ल्लोकान᳘ति चतुर्थम᳘स्ति वा न वा᳘नद्धो तद्यद्वि᳘श्वा आ᳘शास्त᳘स्मादाह वि᳘श्वाभ्यस्त्वा᳘शाभ्य उ᳘पदधामी᳘ति तूष्णीं᳘ वैवेतराणि कपा᳘लान्युपद᳘धाति चि᳘त स्थोर्ध्वचि᳘त इ᳘ति वा॥
अथा᳘ङ्गारैरभ्यू᳘हति॥
भृ᳘गूणाम᳘ङ्गिरसां त᳘पसा तप्यध्वमि᳘त्येतद्वै ते᳘जिष्ठम्! ते᳘जो य᳘द्भृग्वङ्गिर᳘सां सु᳘तप्तान्यसन्नि᳘ति त᳘स्मादेन᳘मभ्यू᳘हति॥
अ᳘थ यो᳘ दृषदुपले᳘ उपद᳘धाति॥
स᳘ कृष्णाजिनमा᳘दत्ते श᳘र्मासी᳘ति तद᳘वधूनोत्य᳘वधूतं रक्षो᳘ ऽवधूता अ᳘रातय इ᳘ति सो᳘ ऽसा᳘वेव ब᳘न्धुस्त᳘त्प्रतीची᳘नग्रीवमु᳘पस्तृणात्य᳘दित्यास्त्व᳘गसि प्र᳘ति त्वा᳘दितिर्वेत्त्वि᳘ति सो᳘ ऽसा᳘वेव ब᳘न्धुः॥
अ᳘थ दृष᳘दमु᳘पदधाति॥
धिष᳘णासि पर्वती प्र᳘ति त्वा᳘दित्यास्त्व᳘ग्वेत्त्विति धिष᳘णा हि᳘ पर्वती हि प्र᳘ति त्वा᳘दित्यास्त्व᳘ग्वेत्त्वि᳘ति त᳘त्संज्ञा᳘मेवै᳘त᳘त्कृष्णाजिना᳘य च वदति ने᳘दन्यो᳘ ऽन्यं᳘ हि᳘नसाव इ᳘तीय᳘मेवै᳘षा᳘ पृथिवी᳘ रूपेण॥
अ᳘थ श᳘म्यामुदी᳘चीनाग्रामु᳘पदधाति॥
दिव᳘ स्कम्भनी᳘रसी᳘त्यन्त᳘रिक्षमेव᳘ रूपे᳘णान्त᳘रिक्षेण ही᳘मे द्या᳘वापृथिवी वि᳘ष्टब्धे त᳘स्मादाह दिव᳘ स्कम्भनी᳘रसीति॥
अथो᳘पलामु᳘पदधाति॥
धिष᳘णासि पार्वते᳘यी प्र᳘ति त्वा पर्वती वेत्त्वि᳘ति क᳘नीयसी ह्ये᳘षा दुहिते᳘व भ᳘वति त᳘स्मादाह पार्वतेयी᳘ति प्र᳘ति त्वा पर्वती᳘ वेत्त्वि᳘ति प्र᳘ति हि स्वः सं᳘जानीते त᳘त्संज्ञा᳘मेवै᳘त᳘द्दृषदुपला᳘भ्यां वदति ने᳘दन्यो᳘ ऽन्यं᳘ हिन᳘सात इ᳘ति द्यौ᳘रेवै᳘षा रूपे᳘ण ह᳘नू एव᳘ दृषदुपले᳘जिह्वै᳘व श᳘म्या त᳘स्माछम्यया समा᳘हन्ति जिह्व᳘या हि व᳘दति॥
अ᳘थ हविर᳘धिवपति॥
धान्य᳘मसि धिनुहि᳘ देवानि᳘ति धान्यं᳘ हि᳘ देवा᳘न्धिन᳘वदि᳘त्यु हि᳘ हवि᳘र्गृह्यते॥
अ᳘थ पिनष्टि॥
प्राणा᳘य त्वोदाना᳘य त्वा व्याना᳘य त्वा दीर्घाम᳘नु प्र᳘सितिमा᳘युषे धामि᳘ति प्रो᳘हति देवो᳘ वः सविता हि᳘रण्यपाणिः प्र᳘तिगृभ्णात्व᳘छिद्रेण पाणि᳘ना च᳘क्षुषे त्वे᳘ति॥
तद्य᳘देव᳘म् पिन᳘ष्टि॥
जीवं वै᳘ देवा᳘नां हवि᳘रमृ᳘तममृ᳘तानाम᳘थैत᳘दुलूखलमुसला᳘भ्यां दृषदुपला᳘भ्यां हविर्यज्ञं᳘ घ्नन्ति॥
स यदा᳘ह॥
प्राणा᳘य त्वोदाना᳘य त्वे᳘ति तत्प्राणोदानौ᳘ दधाति व्याना᳘य त्वे᳘ति त᳘द्व्यानं᳘ दधाति दीर्घाम᳘नु प्र᳘सितिमा᳘युषे धामिति तदा᳘युर्दधाति देवो᳘ वः सविता हि᳘रण्यपाणिः प्र᳘तिगृभ्णात्वछिद्रेण पाणि᳘ना सु᳘प्रतिगृहीतान्यसन्नि᳘ति च᳘क्षुषे त्वे᳘ति तच्च᳘क्षुर्दधात्येता᳘नि वै जी᳘वतो भवन्त्येव᳘मु हैत᳘ज्जीव᳘मेव᳘ देवा᳘नां हविर्भ᳘वत्यमृ᳘तममृ᳘तानां त᳘स्मादेव᳘म् पिनष्टि पिंषन्ति पिष्टा᳘न्यभी᳘न्धते कपा᳘लानि॥
अथै᳘क आज्यं नि᳘र्वपति॥
यद्वा आ᳘दिष्टं देव᳘तायै हवि᳘र्गृह्य᳘ते यावद्देव᳘त्यं त᳘द्भवति तदितरेण य᳘जुषा गृह्णाति न वा᳘ एतत्क᳘स्यै चन᳘ देव᳘तायै हवि᳘र्गृह्णन्ना᳘दिशति यदा᳘ज्यं त᳘स्माद᳘निरुक्तेन यजुषा गृह्णाति मही᳘नाम् प᳘यो ऽसीति मह्य᳘ इ᳘ति ह वा एता᳘सामे᳘के नाम यद्ग᳘वां ता᳘सां वा᳘ एतत्प᳘यो भवति त᳘स्मादाह मही᳘नाम् प᳘यो ऽसी᳘त्येव᳘मु हास्यैतत्ख᳘लु य᳘जुषैव᳘ गृहीत᳘म् भवति त᳘स्माद्वेवा᳘ह मही᳘नाम् प᳘यो ऽसी᳘ति॥
</span></poem>