"लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः ०५९" इत्यस्य संस्करणे भेदः

सम्पादनसारांशरहितः
({{header | title = लक्ष्मीनारायणसंहिता - लक्ष्मीनारा... नवीन पृष्ठं निर्मीत अस्ती)
 
 
| notes =
}}
<poem><span style="font-size: 14pt; line-height: 200%">श्रीकृष्ण उवाच-
शृणु त्वं राधिके चैत्रे व्यतीतेऽथ द्वितीयकम् ।
चरित्रं श्रीकृष्णनारायणस्यैव प्रमोक्षदम् ।। १ ।।
भाल्लदेश इति ख्यातो देशो वैष्णवसत्कृतः ।
धवलं नाम नगरं ख्यातं स्थानीयमुत्तमम् ।। २ ।।
तस्मिन् विपणिवृत्तिस्थो गोधनाख्योऽभवद् वणिक ।
धनपूर्णो बुद्धिमाँश्च कलाकौशल्यपारगः ।। ३ ।।
स कदाचिन्निजाद् राष्ट्रात् सौराष्ट्रं गन्तुमुद्यतः ।
विशालसार्थसम्पन्नो बहुपण्यादिसंभृतः ।। ४ ।।
गच्छतस्तस्य वै रात्रौ चौराणां संगमोऽभवत् ।
जलहीने शुष्कभागे जालिकैकतरौ स्थले ।। ५ ।।
ततः स हृतसर्वस्वो वणिक् शोकातुरः सदा ।
भ्रमन्नितस्ततो यायाज्जालिकावृक्षसन्निधौ ।। ६ ।।
मृगैश्च पक्षिभिः कीटैर्वर्जितां वीक्ष्य जालिकाम् ।
क्षान्तः क्षुत्तृट्शुष्ककण्ठो वृक्षपार्श्वमुपागमत् ।। ७ ।।
उपाविवेश च सुप्तो विश्रान्तो विश्रमोऽभवत् ।
मध्याह्ने चोत्थितो यावत्तावत् प्रेतं ददर्श सः ।। ८ ।।
शतैः प्रेतैर्वृतं प्रेतैरुह्यमानं सुखासने ।
आगच्छद्भिर्जालिकायास्तरुं प्रेतैः समन्ततः ।। ९ ।।
यत्राऽऽसीत् स वणिक्पुत्रस्तं च वृक्षं समागतः ।
प्रेतराजो ददर्शैनं वणिक्पुत्रं स्थिरान्तरम् ।। 2.59.१० ।।
स्वागतं कृतवान् प्रेतो वणिक् चापि तथाऽकरोत् ।
कुशलं सर्वमाभाष्य चाभिवाद्य परस्परम् ।। ११ ।।
वणिक्प्रेतौ चोपविष्टौ छायायां सुखतस्ततः ।
प्रेताधिपतिना पृष्टं कुत आगम्यते वणिक् ।। १ २।।
क्व वासो विद्यते कुत्र गमिष्यसि स्थलादितः ।
कथं चेदं निर्जनं च स्थलं त्वया समाश्रितम् ।। १ ३।।
इतिपृष्टो वणिक् प्राह धनयुक्तोऽप्यहं वने ।
चौरैर्हृतधनो जातः पर्यटाम्यतिदुःखितः ।। १४।।।
वणिग्दुःखेन तु प्रेतः क्षणं वै दुःखितोऽभवत् ।
स्वबन्धुमिव वणिजं प्राह शोकं तु मा कुरु ।। १५।।
भूयोऽप्यर्था भविष्यन्ति यदि भाग्यबलं तव ।
भाग्यक्षयेऽर्थाः क्षीयन्ते भवन्त्यभ्युदये पुनः ।। १६ ।।
क्षीणस्याऽस्य शरीरस्य चिन्तया नोदयो भवेत् ।
अभ्युदयश्च पतनं रवेर्नित्यं प्रजायते ।। १७।।
वृक्षाणां शुष्कता चापि पुनः पल्लविताऽपि च ।
पक्षे तेजस्विता चन्द्रे पक्षे तेजःक्षयस्तथा ।। १८।।
नदीनां शुष्कता ग्रीष्मे वर्षायां जलपूर्णता ।
क्षेत्राणां सस्यसम्पत्तिः क्वचित् सस्यविहीनता ।। १ ९।।
नेत्रं म्लानं सनिद्रं तु क्वचित्पद्मदलोत्सवम् ।
गगनं चाऽऽविलं काले काले निर्मलमुज्ज्वलम् ।।2.59.२० ।।
प्रदीपो रात्रौ ज्वलति दिवा तेजः करोति न ।
क्वचिद् राजा क्वचिच्छ्रेष्ठी क्वचित् कैंकर्यवान् भवेत् ।। २१ ।।
क्वचिच्छास्ता क्वचिच्छास्यः क्वचित् कोटिद्वयोज्झितः ।
क्वचिल्लक्ष्मीपतिः श्रीमान् क्वचिल्लक्ष्मीविवर्जितः ।। २२।।
बाल्ये तु देहिनः सर्वे नैसर्गादपरिग्रहाः ।
यौवने तृष्णया व्याप्ता वार्धक्ये शक्तिवर्जिताः ।।२३।।
कालवेगेन जायन्ते कर्मणा प्राक्तनेन च ।
पूर्वं यस्माद् धनं प्राप्तमृणात्मकं यतो यतः ।।२४।।
तेभ्यो दत्तं न पश्चाद्वै तदृणं सह गच्छति ।
दातारस्ते सुताः पुत्राः पत्न्यः कुटुम्बिनस्तथा ।।२५ ।।
राजा भृत्याः सेवकाश्च भवन्त्येवर्णबन्धनात् ।
चौररूपाश्च वा भूत्वा प्रसह्य प्रहरन्ति च ।।२६ ।।
न दत्तं न च भुक्तं वै पर्याप्तं चापि चार्जितम् ।
वर्धयते प्रयत्नेन तद्विलोपं समीहते ।।२७।।
द्रव्यं हसति द्रव्येशं मृषा द्रव्येशता तव ।
योग्ये विनिमयः सत्ता सा कृता न त्वया यतः ।।२८।।
मरणं सन्निधौ चास्ते श्रेष्ठिन् त्यक्त्वा गमिष्यसि ।
ततस्तवेशता द्रव्ये द्रव्येशता न वै त्वयि ।।२९।।
अहो लोभस्य माहात्म्यं सप्तवंशोत्तरं धनम् ।
विद्यते यस्य केशेऽपि पुनः सञ्चेतुमिच्छति ।।2.59.३०।।
अर्जने तु परं दुःखं कैंकर्यादिसमुद्भवम् ।
रक्षणेऽपि परं दुःखं चिन्ता व्याघ्री प्रवल्गति ।।३ १ ।।
व्ययेऽपि क्षयदुःखं च भोगे दुःखं च रोगिता ।
गर्वे दुःखं च युद्धादि मृत्युर्द्रव्ये प्रजायते ।।३२।।
तस्माद् दुःखं धनं प्रोक्तं यद् धर्मार्थं न युज्यते ।
धने धर्मे नियुक्ते तु धर्मात् सुखं न दुःखिता ।।३३ ।।
धर्माच्छान्तिर्धर्मयोगात् तृष्णानाशो विवेकिता ।
यथालब्धे च सन्तोषो देवसेवादिवर्तनम् ।।३४।।
कुटुम्बे सत्त्वभावश्च रागद्वेषादिशून्यता ।
चौरादिभयविरहो निद्राऽपि सुखतो भवेत् ।।३५।।
एवंविधा गुणाः श्रेष्ठिन् निर्धनत्वे सुखावहाः ।
सधनत्वे दुःखदोषाः प्रजायन्ते पुनः पुनः ।।३६।।
तत्र नास्ति महाश्चर्यं गताऽऽगताऽब्धिवारिवत् ।
धनं तु चञ्चलं सर्वं लक्ष्मीः सदा हि चञ्चला ।।३७।।
जीवनं चञ्चलं चापि मा शोकं कुरु वैभवे ।
भाग्यात् सर्वं पुनश्चापि यततो वै भविष्यति ।। ३८।।
इत्युच्चार्य समाहूय प्रेतो भृत्यान् समब्रवीत् ।
अद्याऽतिथिरयं श्रेष्ठी गृहेस्माकमुपागतः ।।३९ ।।
बालमित्रं मम पूज्यः सहजो देशजो मम ।
अस्मिन् दृष्टं च मन्येऽहं दृष्टवान्निजबान्धवान् ।।2.59.४० ।।
अस्मिन् समागते जाता प्रीतिर्ममाऽतुलाऽद्य वै ।
इत्युक्त्वा च प्रसस्मार प्रेतो भोजनमुत्तमम् ।।४१ ।।
तावत्तस्य समायाता स्थाली नवा दृढा शुभा ।
मिष्टान्नेन तु सम्पूर्णा दध्योदनयुताऽपि च ।।४२।।
शाकसूपाऽऽरनालादिसम्पूर्णा भोजनाय वै ।
तथा नवा दृढा शीतजलभृता च हाण्डिका ।।४३।।
वारिधानीं तथा स्थालीं वीक्ष्य प्रेतेश्वरस्तदा ।
प्राहोत्तिष्ठ वणिग्वर्य प्रक्षालय करौ मुखम् ।।४४।।
इत्युक्त्वा सलिलं दत्त्वा न्यवेशयच्छुभासने ।
प्रेतराजो ददावस्मै मिष्टान्नं दधि वारि च ।।४५।।
ओदनं चाऽऽरनालं च शाकं च बुभुजे वणिक् ।
प्रेक्तेभ्यः स ददौ सर्वविधं पात्रेषु पत्रिषु ।।४६।।
प्रेता मिष्टान्नमाद्यं च भक्षयामासुरादरात् ।
जलं पपुस्ततः प्रेतेश्वरोऽपि शेषमेव तत्। ।।४७।।
बुभुजे च पपौ वारि तृप्ताः सर्वेऽभवँस्ततः ।
स्थाली च वारिधानी च शेषान्नमपि सर्वथा ।।४८।।
अदृश्यतां गतं तूर्णं पश्यतो वणिजस्तदा ।
एतदद्भुतमाश्चर्यं दृष्ट्वा पप्रच्छ वै वणिक् ।।४९।।
एषा स्थाली चान्नपूर्णा वारिधानी च पूरिता ।
अरण्येऽत्र कथं प्राप्ता वद मे प्रेतपुंगव ।।2.59.५०।।
तथापि तव भृत्यास्तु कृशाः कथं हि सर्वथा ।
त्वं तु नैवाऽतिपुष्टोऽसि कथं दुर्बलता वद ।।९१ ।।
तावत् तत्र श्वेतवस्त्रं समायातं शुभं नवम् ।
तदत्तं च वणिजेऽत्र प्रेतेन भावतस्तदा ।।५२।।
आश्चर्यं चापि तद् दृष्ट्वा कुतो वस्त्रं समागतम् ।
पप्रच्छ च वणिक् प्रेतं प्रेतः प्राह यथातथम् ।।५३।।
अहमासं पुरा श्रेष्ठिन् नगरे धवलाह्वये ।
विप्रो नाम्ना प्रभानाथः सूपकारोऽभवं सदा ।।५४।।
ममाऽस्ति च वणिक् श्रेष्ठी धनाढ्यो धर्मवर्धनः ।
विष्णुभक्तो यजमानः स्वामी धनप्रदो मम ।।।५५।।।
धर्मवर्धननामाऽसौ धर्मकार्ये सदा स माम् ।
आज्ञापयति धर्मार्थे व्ययार्थं च यथेप्सितम् ।।५६।।
दानार्थं चोपकारार्थमकुण्ठाऽऽज्ञां ददाति च ।
सोऽहं कदर्यो लुब्धात्मा धनेऽपि सति पुष्कले ।।५७।।
न ददामि तु देवेभ्यो न विप्रेभ्यो न दानकम् ।
नोपकारं कस्यचिच्च करोम्यनाथदेहिनः ।।५८।।
यतीन् साधून् धर्मनिष्ठान् गणयामि न सर्वथा ।
न चाऽश्नामि तृप्तिपूर्णं लुब्धोऽन्यस्य तु का कथा ।।५९।।
अपुण्यस्य हि नाशाऽन्ता वैभवा इति निश्चितम् ।
ममाऽपि न तथा पुण्यं तदासीद् भुक्तवान्नहि ।।2.59.६०।।
प्रमादाद् यदि भुञ्जेऽहं दधिक्षीरघृतादिकम् ।
मिष्टान्नं वा मिष्टजलं तदा शोकः प्रजायते ।।६ १ ।।
अहोऽद्य तु मया व्यर्थो व्ययः कृतो हि हानिकृत् ।
निद्रा रात्रौ न चाऽऽयाति व्ययचिन्तापरस्य मे ।।६२।।
प्रातर्भवति चैवं मे यद्वा तद्वा कथंचन ।
एवमेतादृशो लोभी निवसाम्यतितृष्णकः ।।६३।।
तन्दूलतिलपिण्याकतुषशाकादिभोजनैः ।
क्षपयामि कदान्नाद्यैरात्मानं कालनिर्गमैः ।।६४।।
एवं द्रव्ययुतस्याऽपि विना दानं च पुण्यकम् ।
महान् कालो गतो मे तु सूर्यग्रहणमागतम् ।।६५।।
श्रवणद्वादशी प्राप्ता मासि भाद्रपदे तथा ।
लोकाः प्रयान्ति तीर्थार्थं साभ्रमत्यां दिने दिने ।।६६।।
अहं च श्रेष्ठिना साकं ह्येकादश्यामुपोषितः ।
गतवान् साभ्रमत्यां तु स्नातुं त्वेकादशीदिनात् ।।६७।।
यावत् सूर्यग्रहः स्याच्च तावत् तीर्थे स्थिरोऽभवम् ।
एकादशीदिनात्तेन श्रेष्ठिना कोटिशो धनम् ।।६८।।
वस्त्राणि श्रेष्ठपात्राणि गावश्चेत्यपि दानकम् ।
दत्तं यथाबलं तत्र मया दृष्ट्वाऽतिलज्जया ।।६९।।
धौत्रं चैकं नवं दत्तं विप्राय वेदवेदिने ।
नवा स्थाली चान्नपूर्णा मिष्टपूर्णा समर्पिता ।।2.59.७०।।
दध्योदनारनालाद्यैः शाकेन संयुता तथा ।
जलधानी तदा दत्ता यानं दत्तं तु काष्ठजम् ।।७१।।
छायार्थं तु तदा छत्रं दत्तं विप्राय वै तदा ।
श्रेष्ठिनो भृत्यवर्गाश्च विप्रार्थं योजिता मया ।।७२।।।
एतावन्मात्रकं मया वणिग्वर्य तदार्पितम् ।
नान्यत् किञ्चित् प्रदत्तं तु मयाऽयुतसमास्वपि ।।७३ ।।
अथ कालान्तरे मृत्युगतोऽहं प्रेततां गतः ।
अमी चाऽदत्तदाना वै मद्दत्ताऽन्नोपजीविनः ।।७४।।
भृत्यास्तस्य गोधनाख्यवणिजो मद्वशानुगाः ।
काष्ठयानमिदं प्राप्तं प्राप्ता भृत्याश्च ते मया ।।७५।।
प्राप्ता मिष्टान्नसंयुक्ता स्थाली जलस्य हाण्डिका ।
दत्तं तदिदमायाति मध्याह्नेऽपि दिने दिने ।।७६।।
यावन्नाऽहं तु भुञ्जेऽन्नं न तावल्लयमेति च ।
मयि भुक्ते च पीते च सर्वं लीनं प्रजायते ।।७७।।
छत्रदानादयं वृक्षो नित्यं प्राप्तोऽस्ति वै मया ।
वासार्थं निवसाम्यत्र प्रेताः कुर्वन्ति सेवनाम् ।।७८।।
इदं तवोक्तं सर्वं च दाने निरोधकृद् यथा ।
अहं पुराऽभवं तेन पापेन प्रेततां गतः ।।७९।।
लोभेन तृष्णया चाऽपि विप्रोऽहं प्रेततां गतः ।
एकवारप्रदत्तेन जलान्नेन हि भुज्यते ।।2.59.८०।।
प्रत्यहं त्वेकवारं हि दत्वा भुञ्जे हि नित्यदा ।
नित्यदानप्रदातुस्तु स्वर्गं वै शाश्वतं भवेत् ।।८१।
अथ श्रेष्ठिन् तव मेऽपि हितं करोमि सर्वथा ।
कुंकुमवापिकाक्षेत्रे चाश्वपट्टसरोवरे ।।८२।।
लोमशस्याऽऽश्रमे तत्र कृष्णनारायणालये ।
याहि शीघ्रं वणिक् तत्र स्नानं च हवनं कुरु ।।८३।।
मम नाम समुद्दिश्य पिण्डनिर्वपणं कुरु ।
तत्र पिण्डप्रदानेन प्रेतभावादहं क्षणात् ।।८४।।
मुक्तः सन् दान कर्तॄणां प्रयास्यामि सलोकताम् ।
तिथिस्त्वेकादशी पुण्या शुक्ला भाद्रप्रदे शुभा ।।८५।।
बुधश्रवणसंयुक्ता साऽतिश्रेयस्करी मम ।
अथवा कर्तिककृष्णाष्टम्यां श्राद्धं कुरुष्व मे ।।८६।।
अनादिश्रीकृष्णनारायणप्राकट्यवासरे ।
अवश्यं च तदा मोक्षो मम भावी विभावय ।।८७।।
इत्युक्त्वा प्रददौ तस्मै सुवर्णं हीरकादिकम् ।
स्कन्धे कृत्वा वणिजं तं तत्याज च सुराष्ट्रकम् ।।८८।।
एकादश्यां भाद्रपदे ययावश्वसरोवरम् ।
पिण्डनिर्वपणं तत्र प्रेतानामनुपूर्वकम् ।।८९।।
चकाराऽथ स्वबन्धूनां पितृणां तदनन्तरम् ।
आत्मनश्च तथा सम्यङ् महच्छ्राद्धं तिलैर्विना ।।2.59.९०।।
पिण्डनिर्वपणं चक्रे तथाऽन्यानपि गोत्रजान् ।
मोक्षयामास सर्वान् वै श्राद्धदानादिभिर्वणिक् ।।९ १ ।।
कर्ममुक्तास्तु तै सर्वे आययुस्तत्र सन्निधौ ।
दिव्यरूपा दिव्यवेषाः सूर्यतेजोऽतिवर्चुलाः ।।।९२।।
वणिक् तेभ्यो जलं तत्र ददौ मिष्टान्नभोजनम् ।
ततस्तान् दिव्यदेहाँश्च निनाय लोमशाश्रमम् ।।९३।।
लोमशस्ताँस्तदा मन्त्रं श्रावयामास वैष्णवम् ।
'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ।।९४।।
ददौ तेभ्यश्च तुलसीस्रजश्च च चरणामृतम् ।
ततो वणिग् ययौ नीत्वा सह सर्वान् प्रमोचितान् ।।९५।।
अनादिश्रीकृष्णनारायणसौधं सुकानकम् ।
तेऽपि सर्वे नता नारायणं पुपूजुरादरात् ।। ९६।।
कृष्णपादजलं पीत्वा बभूवुर्मुक्तकोटिकाः ।
दिव्ययाने समारुह्य कृष्णनारायणाऽऽज्ञया ।। ९७।।
ययुर्गोलोकसंज्ञं च ततो धामाऽक्षरं परम् ।
अथाऽयं तु वणिग् राधे निजस्थानं ततो गतः ।।९८।।
धवलाख्ये पुरे तत्राऽभजत् कृष्णनरायणम् ।
भक्तिं तु नवधा कृत्वा कालधर्ममुपेयिवान् ।। ९९।।
देवो भूत्वा च गन्धर्वो गुह्यकश्चापि वै ततः ।
विराड् राजा ततो भूत्वा परो भागवतो हि सः ।। 2.59.१०० ।।
भेजेऽनादिपरब्रह्मश्रीमत्कृष्णनरायणम् ।
देहान्ते स हरेर्धाम ययौ स्तुत्वा पुनः पुनः ।। १० १।।
इत्येवं कथितो राधे! चमत्कारो हरेर्यथा ।
दर्शनान्मुक्तिमापन्नाः प्रेता दिव्यशरीरिणः ।। १ ०२।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने भाद्रैकादश्यामश्वपट्टसरोवरे श्राद्धेन प्रेतानां मुक्तिः प्रेतवणिक्संवादश्चेतिनिरूपणनामा नवाऽधिकपञ्चा-
शत्तमोऽध्यायः ।। ५९ ।।
 
</span></poem>
३५,९८९

सम्पादन

"https://sa.wikisource.org/wiki/विशेषः:MobileDiff/215564" इत्यस्माद् प्रतिप्राप्तम्