"शतपथब्राह्मणम्/काण्डम् १/अध्यायः ३/ब्राह्मण २" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २:
 
== सस्वरः ==
<poem><span style="font-size: 14pt; line-height: 200%">पु᳘रुषो वै᳘ यज्ञः॥
पु᳘रुषस्ते᳘न यज्ञो य᳘देनम् पु᳘रुषस्तनुत᳘ एष वै᳘ ताय᳘मानो यावानेव पु᳘रुषस्तावान्वि᳘धीयते त᳘स्मात्पु᳘रुषो यज्ञः॥
त᳘स्येयमेव᳘ जुहूः᳘॥
इय᳘मुपभृ᳘दात्मै᳘व᳘ ध्रुवा तद्वा᳘ आत्म᳘न एवे᳘मा᳘नि स᳘र्वाण्य᳘ङ्गानि प्र᳘भवन्ति त᳘स्मादु ध्रुवा᳘या एव स᳘र्वो यज्ञः प्र᳘भवति॥
प्राण᳘ एव᳘ स्रुवः॥
सो᳘ ऽय᳘म् प्राणः स᳘र्वाण्यङ्गान्यनुसं᳘चरति त᳘स्मादु स्रुवः स᳘र्वा अ᳘नु स्रुचः सं᳘चरति॥
त᳘स्यासा᳘वेव द्यौ᳘र्जुहूः॥
अ᳘थेद᳘मन्त᳘रिक्षमुपभृ᳘दिय᳘मेव᳘ध्रुवा तद्वा᳘ अस्या᳘ एवे᳘मे स᳘र्वे लोकाः प्र᳘भवन्ति त᳘स्मादु ध्रुवा᳘या एव स᳘र्वो यज्ञः प्र᳘भवति॥
अय᳘मेव᳘ स्रुवो यो᳘ ऽयम् प᳘वते॥
सो᳘ ऽय᳘मिमांत्स᳘र्वांल्लोकान᳘नुपवते त᳘स्मादु स्रुवः स᳘र्वा अ᳘नु स्रु᳘चः सं᳘चरति॥
स᳘ एष᳘ यज्ञस्ताय᳘मानो॥
देवेभ्यस्तायत ऋतु᳘भ्यश्छ᳘न्दोभ्यो य᳘द्धविस्त᳘द्देवा᳘नां यत्सो᳘मो राजा य᳘त्पुरोडा᳘शस्तत्त᳘दादि᳘श्य गृह्णात्यमु᳘ष्मे त्वा जु᳘ष्टं गृह्णामी᳘त्येव᳘मु हैते᳘षाम्॥
अ᳘थ यान्या᳘ज्यानि गृह्य᳘न्ते॥
ऋतु᳘भ्यश्चैव ता᳘नि छ᳘न्दोभ्यश्च गृह्यन्ते तत्तद᳘नादिश्या᳘ज्यस्यैव᳘ रूपे᳘ण गृह्णाति स वै चतु᳘र्जुह्वा᳘म् गृह्णात्यष्टौ कृ᳘त्व उपभृ᳘ति॥
स य᳘च्चतु᳘र्जुह्वां᳘ गृह्णाति॥
ऋतु᳘भ्यस्त᳘द्गृह्णाति प्रयाजे᳘भ्यो हि त᳘द्गृह्णा᳘त्यृत᳘वो हि᳘ प्रयाजास्तत्तद᳘नादिश्या᳘ज्यस्यैव᳘ रूपेण गृह्णात्य᳘जामितायै जामि᳘ ह कुर्याद्य᳘द्वसन्ता᳘य त्वा ग्रीष्मा᳘य त्वे᳘ति गृह्णीयात्त᳘स्माद᳘नादिश्या᳘ज्यस्यैव᳘ रूपे᳘ण गृह्णाति॥
अ᳘थ य᳘दष्टौ कृ᳘त्व उपभृ᳘ति गृह्णाति॥
छ᳘न्दोभ्यस्त᳘द्गृह्णात्यनुयाजे᳘भ्यो हि तद्गृह्णा᳘ति छ᳘न्दांसि ह्य᳘नुयाजास्तत्तद᳘नादिश्या᳘ज्यस्यैव᳘ रूपेण गृह्णात्य᳘जामितायै जामि᳘ ह कुर्याद्य᳘द्गायत्र्यै᳘ त्वा त्रि᳘ष्टुभे त्वे᳘ति गृह्णीयात्त᳘स्माद᳘नादिश्या᳘ज्यस्यैव᳘ रूपेण गृह्णाति॥
अ᳘थ य᳘च्चतु᳘र्ध्रुवा᳘यां गृह्णाति॥
स᳘र्वस्मै त᳘द्यज्ञा᳘य गृह्णाति तत्तद᳘नादिश्या᳘ज्यस्यैव᳘ रूपे᳘ण गृह्णाति क᳘स्मा उ ह्या᳘दिशेद्य᳘तः स᳘र्वाभ्य एव᳘ देव᳘ताभ्यो ऽवद्य᳘ति त᳘स्माद᳘नादिश्या᳘ज्यस्यैव᳘ रूपे᳘ण गृह्णाति॥
य᳘जमान एव᳘ जुहूम᳘नु॥
यो᳘ ऽस्मा अरातीय᳘ति स᳘ उपभृ᳘तम᳘न्वत्तै᳘व᳘ जुहूम᳘न्वाद्य उपभृ᳘तम᳘न्वत्तै᳘व᳘ जुहू᳘राद्य᳘ उपभृत्स वै᳘ चतु᳘र्जुह्वां᳘ गृह्णा᳘त्यष्टौ कृ᳘त्व उपभृ᳘ति॥
स य᳘च्चतु᳘र्जुह्वां᳘ गृह्णाति॥
अत्ता᳘रमेवै᳘तत्प᳘रिमिततरं क᳘नीयांसं करोत्य᳘थ य᳘दष्टौ कृ᳘त्व उपभृ᳘ति गृह्णा᳘त्याद्य᳘मेवै᳘तद᳘परिमिततरम् भूयांसं करोति तद्धि स᳘मृद्धं य᳘त्रात्ता क᳘नीयानाद्यो᳘ भू᳘यान्॥
स वै᳘ चतु᳘र्जुह्वां᳘ गृह्णन्॥
भूय आ᳘ज्यं गृह्णात्यष्टौ कृ᳘त्व उपभृ᳘ति गृह्णन्क᳘नीय आ᳘ज्यं गृह्णाति॥
स य᳘च्चतु᳘र्जुह्वां᳘ गृह्णन्॥
भू᳘य आ᳘ज्यं गृह्णात्यत्ता᳘रमेवै᳘तत्प᳘रिमिततरं क᳘नीयांसं कुर्वंस्त᳘स्मिन्वीर्य᳘म् ब᳘लं दधात्य᳘थ य᳘दष्टौ कृ᳘त्व उपभृति गृह्णन्क᳘नीय आ᳘ज्यं गृह्णा᳘त्याद्य᳘मेवै᳘तदपरिमिततरम् भू᳘यांसं कुर्वंस्त᳘मवीर्यम᳘बलीयांसं करोति त᳘स्मादुत रा᳘जापारां वि᳘शम् प्रावसाया᳘प्येकवेश्म᳘नैव᳘ जिना᳘ति त्वद्य᳘था त्वत्काम᳘यते त᳘था सचत एते᳘नो ह त᳘द्वीर्ये᳘ण य᳘ज्जुह्वाम् भू᳘य आ᳘ज्यं गृह्णा᳘ति स य᳘ज्जुह्वां᳘ गृह्णाति जुह्वै᳘व त᳘ज्जुहोति य᳘दुपभृ᳘ति गृह्णाति जुह्वैव त᳘ज्जुहोति॥
त᳘दाहुः॥
क᳘स्मा उ त᳘र्ह्युपभृ᳘ति गृह्णीयाद्य᳘दुपभृ᳘ता न᳘ जुहोती᳘ति स य᳘द्धोपभृता जुहुयात्पृ᳘थग्घैवे᳘माः᳘ प्रजाः᳘ स्युर्नै᳘वा᳘त्ता स्यान्ना᳘द्यः᳘ स्याद᳘थ यत्त᳘ज्जुह्वे᳘व᳘ समानीय जुहो᳘ति त᳘स्मादिमा वि᳘शः क्षत्रि᳘यस्यैव व᳘शे सति वै᳘श्यम् पश᳘व उ᳘पतिष्टन्ते᳘ ऽथ यत्त᳘ज्जुह्वे᳘व समानी᳘य जुहो᳘ति तस्माद्यदो᳘त᳘ क्सत्रि᳘यः काम᳘यते᳘ ऽथाह वै᳘श्य म᳘यि य᳘त्ते परो नि᳘हितं तदा᳘हरे᳘ति तं᳘ जिना᳘ति त्वद्य᳘था त्वत्काम᳘यते त᳘था सचत एते᳘नो हत᳘द्वीर्ये᳘ण॥
ता᳘नि वा᳘ एता᳘नि॥
छ᳘न्दोभ्य आ᳘ज्यानि गृह्यन्ते स य᳘च्चतु᳘र्जुह्वां᳘ गृह्णा᳘ति गायत्र्यै त᳘द्गृह्णात्य᳘थ य᳘दष्टौ कृ᳘त्व उपभृ᳘ति गृह्णाति त्रिष्टुब्जगती᳘भ्यां त᳘द्गृह्णात्य᳘थ य᳘च्चतु᳘र्ध्रुवा᳘यां गृह्णा᳘त्यनुष्टु᳘भे त᳘द्गृह्णाति वाग्वा᳘ अनुष्टु᳘ब्वाचो वा᳘ इदं स᳘र्वम् प्र᳘भवति त᳘स्मादु ध्रुवा᳘य एव स᳘र्वा यज्ञः प्र᳘भवतीयम् वा᳘ अनुष्टु᳘बस्यै वा᳘ इदं स᳘र्वम् प्र᳘भवति त᳘स्मादु ध्रुवा᳘या एव स᳘र्वो यज्ञः प्र᳘भवति॥
स᳘ गृह्णाति॥
धां᳘ ना᳘मासि प्रियं᳘ देवा᳘नामि᳘त्येतद्वै᳘ देवा᳘नाम् प्रिय᳘तमं धा᳘म यदा᳘ज्यं त᳘स्मादाह धा᳘म नामासि प्रियं᳘ देवा᳘नामित्य᳘नाधृष्टं देवय᳘जनमसी᳘ति व᳘ज्रो ह्या᳘ज्यं त᳘स्मादाहा᳘नाधृष्टं देवय᳘जनमसी᳘ति॥
स᳘ एते᳘न य᳘जुषा॥
सकृ᳘ज्जुह्वां᳘ गृह्णाति त्रि᳘स्तूष्णी᳘मेते᳘नैव य᳘जुषा सकृ᳘दुपभृ᳘ति गृह्णा᳘ति सप्त कृ᳘त्वस्तूष्णी᳘मेते᳘नैव य᳘जुषा सकृ᳘द्ध्रुव्:!यां गृह्णाति त्रि᳘स्तूस्णीं त᳘दाहुस्त्रि᳘स्त्रिरेव य᳘जुषा गृह्णीयात्रिवृद्धि᳘ यज्ञ इ᳘ति त᳘दु नु᳘ सकृ᳘त्सकृदेवा᳘त्रो ह्ये᳘व त्रि᳘र्गृहीतं᳘ सम्प᳘द्यते॥
 
</span></poem>