"ऋग्वेदः सूक्तं १०.१६०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १०१:
आऽभूषन्तः । ते । सुऽमतौ । नवायाम् । वयम् । इन्द्र । त्वा । शुनम् । हुवेम ॥५
 
“अश्वायन्तः अश्वानात्मन इच्छन्तः ।। क्यचि • अश्वाधस्यात् ' (पा. सू.७.४.३७ ) इत्यात्वम् ॥ “गव्यन्तः गा आत्मन इच्छन्तः ॥ ‘वान्तो यि प्रत्यये' (पा. सू. ६. १. ७९) इत्यवादेशः ॥ “वाजयन्तः अग्नीन् वाजनेन शूर्पादिना प्रज्वलयन्तः ॥ ‘ वा गतिगन्धनयोः'। णिचि वो विधूनने ( पा. सू. ७. ३. ३८) इति जुगागमः । अस्माच्छतर्यदुपदेशाल्लसार्वधातुकस्वरेणानुदात्तत्वे शपश्च पित्त्वादनुदात्तत्वे ततो णिच एव स्वरः शिष्यते । अपर आह । वाजमन्नमात्मन इच्छन्त इति । तदानीमवग्रहाभावस्वरौ छान्दसौ द्रष्टव्यौ । एवंभूता वयं हे इन्द्र त्वाम् “उपगन्तवै उपगन्तुं प्राप्तुं “हवामहे आह्वयामहे ।। गमेः ‘ तुमर्थे सेसेन्' इति तवैप्रत्ययः । गतिसमासे ' तवै चान्तश्च युगपत्' इति गतेः प्रकृतिस्वरत्वमुत्तरपदस्यान्तोदात्तत्वम् ।। “उ इति पूरकः । हैहे “इन्द्र “ते तव “नवायाम् अभिनवायां प्रशस्तायां “सुमतौ शोभनबुद्धौ “आभूषन्तः आ समन्ताद्भवन्तो वर्तमानाः । यद्वा । आ समन्ताद्भूषयन्तोऽलंकुर्वन्तस्तवानुग्रहबुद्धौ वर्तमानाः “वयं “शुनं सुखकरं त्वां “हुवेम आह्वयेम॥ ॥१८॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१६०" इत्यस्माद् प्रतिप्राप्तम्