"ऋग्वेदः सूक्तं १०.१७८" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३६:
अरिष्टऽनेमिम् । पृतनाजम् । आशुम् । स्वस्तये । तार्क्ष्यम् । इह । हुवेम ॥१
 
“त्यमु तं प्रसिद्धमेव "तार्क्ष्यं तृक्षपुत्रं सुपर्णम् ॥ तृक्षाद्यञ् । गर्गादिः ॥ "स्वस्तये क्षेमाय "इह अस्मिन् कर्मणि "हुवेम भृशमाह्वयेमहि ॥ ' बहुलं छन्दसि ' इति ह्वयतेः संप्रसारणम्। लिङ्याशिष्यङ् । यद्वा । प्रार्थनायां लिङि व्यत्ययेन शः ॥ कीदृशम् । "वाजिनं बलवन्तमन्नवन्तं वा "देवजूतं देवैः सोमाहरणाय प्रेरितम् ॥ जु इति गत्यर्थः सौत्रो धातुः । अस्मात् कर्मणि निष्ठा ।' तृतीया कर्मणि' इति पूर्वपदप्रकृतिस्वरत्वम् ॥ यद्वा । देवैः प्रीयमाणं तर्प्यमाणम् । यदाह यास्कः - ‘ जूतिर्गतिः प्रीतिर्वा देवजूतं देवगतं देवप्रीतं वा' (निरु. १०. २८) इति । "सहावानं सहस्वन्तं बलवन्तमभिभवनवन्तं वा अत एव “रथानाम् अन्यदीयानां “तरुतारं संग्रामे जेतारम् । यद्वा । रंहणशीला इमे लोका रथाः । तान् सोमाहरणसमये शीघ्रं तरीतारम् । श्रूयते हि -- एष हीमाँल्लोकान्सद्यस्तरति ' ( ऐ.ब्रा. [[ऐतरेय ब्राह्मणम्/पञ्चिका ४ (चतुर्थ पञ्चिका)|४, २०]]) इति ॥ तरतेस्तृचि ‘ग्रसितस्कभित° ' इत्यादावुडागमो निपात्यते (पा. सू. [[अष्टाध्यायी ७ |७. २. ३४]] ) ॥ “अरिष्टनेमिम् अहिंसितरथम् । यद्वा । नेमिर्नमनशीलमायुधम् । अहिंसितायुधम् । अथवा । उपचाराज्जनके जन्यशब्दः । अरिष्टनेमेर्मम जनकम् । “पृतनाजं पृतनानां शत्रुसेनानां प्राजितारं प्रगमयितारं जेतारं वा ।' अज गतिक्षेपणयोः' । अस्मात्क्विप् । ‘बलादावार्धधातुके विकल्प इष्यते' ( का. २. ४. ५६. २) इति वचनाद्वीभावाभावः । जयतेर्वा डप्रत्ययः । "आशुं शीघ्रगामिनम् ॥
 
 
पङ्क्तिः ६६:
सहस्रऽसाः । शतऽसाः । अस्य । रंहिः । न । स्म । वरन्ते । युवतिम् । न । शर्याम् ॥३
 
“यः "चित् योऽपि तार्क्ष्यः "सद्यः शीघ्रं "शवसा आत्मीयेन बलेन "अपः उदकानि अमृतलक्षणानि “ततान विस्तारितवान् "सूर्यइव यथा सूर्यः सर्वस्य प्रेरक आदित्यः "ज्योतिषा आत्मीयेन तेजसा वर्षर्तौ अपो विस्तारयति तद्वत् । कृष्टयो मनुष्याः । "पञ्च "कृष्टीः पञ्चविधान् कृष्टीन् मनुष्यान् प्रति । निषादपञ्चमांश्चतुरो वर्णनित्यर्थः । "अस्य तार्क्ष्यस्य "रंहिः गतिः "सहस्रसाः सहस्रसंख्यस्य धनस्य दात्री संभक्त्री वा भवति । तथा “शतसाः शतस्य च दात्री संभक्त्री वा भवति ॥ सनतेः सनोतेर्वा 'जनसनखन' इति विट् । ‘विड्वनोरनुनासिकस्यात्' इत्यात्वम् । “न "स्म न खल्वीदृशीं तार्क्ष्यस्य ते गतिं "वरन्ते के चन वारयन्ति । तत्र दृष्टान्तः । “शर्यां शरकाण्डमयीमिषुं धनुषो मुक्तां “युवतिं "न लक्ष्येण मिश्रीभवन्तीमिव । सा यथा दुर्निवारा तथैषा कैश्चिदपि वारयितुमशक्येत्यर्थः। अत्र निरुक्तं - सद्योऽपि यः शवसा बलेन तनोत्यपः सूर्यइव ज्योतिषा पञ्च मनुष्यजातानि सहस्रसानिनी शतसानिन्यस्य सा गतिर्न स्मैनां वारयन्ति प्रयुवतीमिव शरमयीमिषुम्' (निरु. [[निरुक्तशास्त्रम्/दशमोध्यायः|१० २९]] ) इति ॥ ॥ ३६ ॥
}}
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१७८" इत्यस्माद् प्रतिप्राप्तम्