"ऐतरेय ब्राह्मणम्/पञ्चिका १ (प्रथम पञ्चिका)" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ९:
 
 
पुनर्वा एतमृत्विजो गर्भं कुर्वन्ति यं दीक्षयन्ति। अद्भिरभिषिञ्चन्ति। रेतो वा आपः सरेतसमेवैनं तत्कृत्वा दीक्षयन्ति। नवनीतेनाभ्यञ्जन्ति। आज्यं वै देवानां सुरभि घृतं मनुष्याणामायुतं पितॄणां नवनीतं गर्भाणां तद्यन्नवनीतेनाभ्यञ्जन्ति स्वेनैवैनं तद्भागधेयेन समर्धयन्ति। आञ्जन्त्येनम्। तेजो वा एतदक्ष्योर्यदाञ्जनं सतेजसमेवैनं तत्कृत्वा दीक्षयन्ति। एकविंशत्या दर्भपिञ्चूलैः पावयन्ति। शुद्धमेवैनं तत्पूतं दीक्षयन्ति। दीक्षितविमितं प्रपादयन्ति। योनिर्वा एषा दीक्षितस्य यद्दीक्षितविमितं योनिमेवैनं तत्स्वां प्रपादयन्ति। तस्माद्ध्रुवाद्योनेरास्ते च चरति च। तस्माद्धरुवाद्योनेर्गर्भा धीयन्ते च प्र च जायन्ते। तस्माद्दीक्षितं नान्यत्र दीक्षितविमादादित्यो ऽभ्युदियाद्वा ऽभ्यस्तमियाद्वा ऽपि वा ऽभ्याश्रावयेयुः। वाससा प्रोर्णुवन्ति। उल्बं वा एतद्दीक्षितस्य यद्वास उल्बेनैवैनं तत्प्रोर्णुन्ति।तत्प्रोर्णुवन्ति। कृष्णाजिनमुत्तरं भवति। उत्त्तरं वा उल्बाज्जरायु जरायुणैवैनं तत्प्रोर्णुवन्ति। मुष्टी कुरुते। मुष्टी वै कृत्वा गर्भो ऽन्तः शेते मुष्टी कृत्वा कुमारो जायते तद्यन्मुष्टी कुरुते यज्ञं चैव तत्सर्वाश्च देवता मुष्ट्योः कुरुते। तदाहुर्न पूर्वदीक्षिणः संसवो ऽस्ति परिगृहीतो वा एतस्य यज्ञः परिगृहीता देवता नैतस्या ऽऽर्तिरस्त्यपरदीक्षिण एव यथा तथेति। उन्मुच्य कृष्णाजिनमवभृथमभ्यवैति तस्मान्मुक्ता गर्भा जरायोर्जायन्ते। सहैव वाससा ऽभ्यवैति तस्मात्सहैवोल्बेन कुमारो जायते। ॥1.3॥