"ब्रह्मपुराणम्/अध्यायः ३९" इत्यस्य संस्करणे भेदः

ब्रह्मपुराणम् using AWB
No edit summary

पङ्क्तिः ९:

{{ब्रह्मपुराणम्}}
<poem>'''दक्षयज्ञविध्वंसनम्
<poem>
'''दक्षयज्ञविध्वंसनम्
'''ऋषय ऊचुः '''
प्राचेतस्य दक्षस्य कथं वैवस्वतेऽन्तरे।
विनाशमगमद् ब्रह्मन् हयमेधः प्रजापतेः॥ ३९.१ ॥

देव्या मन्युकृतं बुद्‌ध्वा क्रुद्धः सर्वात्मकः प्रभुः।
कथं विनाशितो यज्ञो दक्षस्यामिततेजसः।
महादेवेन रोषाद्धै तन्नः प्रब्रूहि विस्तरात्॥ ३९.२ ॥

वर्णयिष्यामि वो विप्रा महादेवेन वै यथा।
क्रोधाद्विध्वंसितो यज्ञो देव्याः प्रियचिकीर्षया॥ ३९.३ ॥

पुरा मेरोर्द्विजश्रेष्ठाः श्रृङ्गं त्रैलोक्यपूजितम्।
ज्योतिः स्थलं नाम चित्रं सर्वरत्नविभूषितम्॥ ३९.४ ॥

अप्रमेयमनाधृष्यं सर्वलोकनमस्कृतम्।
तत्र देवो गिरितटे सर्वधातुविचित्रिते॥ ३९.५ ॥

पर्य्यङ्क इव विस्तीर्ण उपवुष्टो बभूव ह।
शैलराजसुता चास्य नित्यं पार्श्वस्थिताऽभवत्॥ ३९.६ ॥

आदित्याश्च महात्मानो वसवश्च महौजसः।
तथैव च महात्मानावश्विनौ भिषजां वरौ॥ ३९.७ ॥

नथा वैश्रवणो राजा गुह्यकैः परिवारितः।
यक्षाणामीश्वरः श्रीमान् कैलासनिलयः प्रभुः॥ ३९.८ ॥

उपासते महात्मानमुशना च महामुनिः।
सनत्कुमारप्रमुखास्तथैव परमर्षयः॥ ३९.९ ॥

अङ्गिरःप्रमुखाश्चैव तथा देवर्षयोऽपि च।
विश्वावसुस्च गन्धर्वस्तथा नारदपर्वतौ॥ ३९.१० ॥

अप्सरोगणसङ्घाश्च समाजग्मुरनेकशः।
ववौ सुखाशवो वायुर्नानागन्धवहः शुचिः॥ ३९.११ ॥

सर्वर्त्तुकुसुमोपेतः पुष्पवन्तोऽभवन्द्रुमाः।
तथा विद्याधराः साध्याः सिद्धाश्चैव तपोधनाः॥ ३९.१२ ॥

महादेवं पशुपतिं पर्य्युपासत तत्र वै।
भूतानि च तथाऽन्यानि नानारूपधराण्यथ॥ ३९.१३ ॥

राक्षसास्व महारौद्राः पिशाचाश्च महाबलाः।
बहुरूपधरा धृष्टा नानाप्रहरणायुधाः॥ ३९.१४ ॥

देवस्यानु चरास्तत्र तस्थुर्वैश्वानरोपमाः।
नन्दीश्वरश्च भगवान् देवस्यानुमते स्थितः॥ ३९.१५ ॥

मगृह्य ज्वलितं दीप्यमानं स्वतेजसा।
गङ्गा च सरितां श्रेष्ठा सर्वतीर्थजलोद्भवा॥ ३९.१६ ॥

पर्युपासत तं देवं रूपिणी द्विजसत्तमाः।
एवं स भगवांस्तत्र पूज्यमानः सुरर्षिभिः॥ ३९.१७ ॥

देवैस्च सुमहाभागैर्महादेवो व्यतिष्ठत।
कस्यचित्त्वय कालस्य दक्षो नाम प्रजापतिः॥ ३९.१८ ॥

पूर्व्वोक्तेन विधानेन यक्ष्यमाणोऽभ्यपद्यत।
ततस्तस्य मखे देवाः सर्वै शक्रपुरागमाः॥ ३९.१९ ॥

स्वर्गस्थानादथाऽऽगम्य दक्षमापेदिरे सथा।
ते विमानैर्महास्मानो ज्वलद्भिर्ज्वलनप्रभा॥ ३९.२० ॥

देवस्यानुमतेऽगच्छन् गह्गाद्वारमिति श्रुतिः।
गन्धर्वाप्सरसाकीर्ण नानाद्रुमलतावृतम्॥ ३९.२१ ॥

ऋषिसिद्धैः परिवृतं दक्षं धर्म्मभृतां वरम्।
पुथिव्यामन्तरिक्षे च ये च स्वर्लोकवासिनः॥ ३९.२२ ॥

सर्वे प्राञ्जलयो भूत्वा उपतस्थुः प्रजापतिम्।
आदित्या वसवो रुद्राः साध्याः सर्वेमरुद्‌गणाः॥ ३९.२३ ॥

विष्णुना सहिताः सर्व आगता यज्ञभागिनः।
ऊष्मपा धूमपाश्चैव आज्यपाः सोमपास्तथा॥ ३९.२४ ॥

अश्विनौ मरुतश्चैव नानादेवगणैः सह।
एते चान्ये च बहवो भूतग्रामास्तथैव च॥ ३९.२५ ॥

जरायुजाण्डजाश्चैव तथव स्वेदजोजिद्भदः।
आगताः सत्रिमः सर्वेदेवाः स्त्रीभिः सहर्षिभिः॥ ३९.२६ ॥

विराजन्ते विमानस्था दीप्यमानाइवाग्नयः।
तान् दृष्ट्वा मन्युनाऽऽविष्टो दधीचिर्वाक्यमब्रवीत्॥ ३९.२७ ॥

अपूज्यपूजने चैव पूज्यानां चाप्यपूजने।
नरः पापमवाप्नोति महद्वै नात्र संशयः॥ ३९.२८ ॥

'''ब्रह्मोवाच '''
एवमुक्त्वा तु विप्रर्षिः पुनर्दक्षमभाषत॥ ३९.२९ ॥

'''दधीचिरुवाच '''
पुज्यञ्च पशुभर्त्तारं कस्मान्नार्च्चयसे प्रभुम्॥ ३९.३० ॥

'''दक्ष उवाच '''
सन्ति मे बहवो रुद्राः शूलहस्ताः कपर्द्दिनः।
एकादशस्थानगता नान्यं विद्‌मो महेश्वरम्॥ ३९.३१ ॥

'''दधीचिरुवाच '''
सर्वेषामन्त्रोऽयं ममेशो न निमन्त्रितः।
यथाऽहं शङ्करादूर्ध्वं नान्यं पश्यामि दैवतम्।
तथा दक्षस्य विपुलो यज्ञोऽयं न भविष्यति॥ ३९.३२ ॥

'''दक्ष उवाच '''
विष्णोश्च भागा विविधाः प्रदत्तास्तथा च रुद्रेभ्य उत प्रदत्ताः।
अन्येऽपि देवानिजभागयुक्ता, ददामि भागं न तु शङ्कराय॥ ३९.३३ ॥

गतास्तु देवता ज्ञात्वा शेलराजसुता तदा।
उवाच वचनं शर्वं देवं पशुपतिं पतिम्॥ ३९.३४ ॥

'''उमोवाच '''
भगवन् कुत्र यान्त्येते देवाः शक्रपुरोगमाः।
ब्रूहि तत्त्वेन तत्त्वज्ञ संशयो मे महानयम्॥ ३९.३५ ॥

'''महेश्वर उवाच '''
दक्षो नाम महाभागे प्रजानां पतिरुत्तमः।
हयमेधेन यजते तत्र यान्ति दिवौकसः॥ ३९.३६ ॥

'''देव्युवाच '''
यज्ञमेतं महाभाग किमिर्थं नानुगच्छसि।
केन वा प्रतिषेधेन गमनं ते न विद्यते॥ ३९.३७ ॥

'''महेश्वर उवाच '''
सुरैरेव महाभागे सर्वमेतदनुष्ठितम्।
यज्ञेषु मम सर्वेषु न भाग उपकल्पितः॥ ३९.३८ ॥

पूर्वागतेन गन्तव्यं मार्गेण वरवर्णिनि।
न मे सुराः प्रयच्छन्ति भागं यज्ञस्य धर्म्मतः॥ ३९.३९ ॥

'''उमोवाच '''
भगवन् सर्वदेवेषु प्रभावाभ्यधिको गुणैः।
अजेयश्चाप्यधृष्यश्च तेजसा यशसा श्रिया॥ ३९.४० ॥

अनेन तु महाभाग प्रतिषेधेन भागतः।
अतीव दुःखमापन्ना वेपथुश्च महानयम्॥ ३९.४१ ॥

किं नाम दानं नियमं तपो वा, कुर्यामहं येन पतिर्ममाद्य।
लभेत भागं भगवानचिन्त्यो, यज्ञस्य चेन्द्राद्यमरैर्विचित्र(भक्त)म्॥ ३९.४२ ॥

'''ब्रह्मोवाच '''
एवं ब्रुवाणां भगवान् विचिन्त्य, पत्नीं प्रहृष्टः क्षुभितामुवाच।
'''महेश्वर उवाच '''
न वेत्सि मां देवि कृशोदराङ्गि, किं नाम युक्तं वचनं तवेदम्॥ ३९.४३ ॥

अहं विजानामि विशालनेत्रे, ध्यानेन सर्वे च विदन्ति सन्तः।
तवाद्य मोहेन सहेन्द्रदेवा, लोकत्रयं सर्वमतो विनष्टम्॥ ३९.४४ ॥

मामध्वरेशं नितरां स्तुवन्ति, रथन्तरं साम गायन्ति महय्म्।
मां ब्राह्मणा ब्रह्ममन्त्रैर्यजन्ति, ममाध्वर्य्यवः कल्पयन्ते च भागम्॥ ३९.४५ ॥

'''देव्युवाच '''
विकत्थसे प्राकृतवत् सर्वस्त्रीजनसंसदि।
स्तौषि गर्वायसे चापि स्वमात्मानं न संशयः॥ ३९.४६ ॥

'''भगवानुवाच '''
नाऽऽत्मानं स्तौमि देवेशि यथा त्वमनुगच्छसि।
संस्रक्ष्यामि वरारोहे भागार्थे वरवर्णिनि॥ ३९.४७ ॥

'''ब्रह्मोवाच '''
इत्युक्त्वा भगत्वान् पत्नीमुमां प्राणैरपि प्रियाम्।
सोऽसृजद्भगवान् वक्त्राद्‌भूतं क्रोधाग्निसम्भवम्॥ ३९.४८ ॥

तमुवाच मखं गच्छ दक्षस्य त्वं महेश्वर।
नाशयाऽऽशु क्रतुं तस्य दक्षस्य मदनुज्ञया॥ ३९.४९ ॥

'''ब्रह्मोवाच '''
ततो रुद्रप्रयुक्तेन सिंहवेषेम लीलया।
देव्या मन्युकृतं ज्ञात्वा हतो दक्षस्य स क्रतुः॥ ३९.५० ॥

मन्युना च महाभीमा भद्रकाली महेश्वरी।
आत्मनः कर्म्मसाक्षित्वे तेन सार्द्धं सहानुगा॥ ३९.५१ ॥

स एष भगवान् क्रोधः प्रेतावासकृतालयः।
वीरभद्रेति विख्यातो देव्या मन्युप्रमार्जकः॥ ३९.५२ ॥

सोऽसृजद्रोमकूपेभ्य आत्मनैव गणेश्वरान्।
रुद्रानुगान्‌गणान्‌रौद्रान्‌वीर्यपराक्रमान्॥ ३९.५३ ॥

रुद्रस्यानुचराः सर्वे सर्वे रुद्रपराक्रमाः।
ते निपेतुस्ततस्तूर्णं शतशोऽथ सहस्त्रशः॥ ३९.५४ ॥

ततः किलकिलाशब्द आकाशं पूरयन्निव।
समभूत् सुमहान् विप्राः सर्वरुद्रगणैः कृतः॥ ३९.५५ ॥

तेन शब्देन महता त्रस्ताः सर्वे दिवौकसः।
पर्व्वताश्च व्यशीर्य्यन्त चकम्पे च वसुन्धरा। ३९.५६ ॥

मरुतश्च ववुः क्रूराश्चुक्षुभे वरुणालयः।
अग्नयो वै न दीप्यन्ते न देवा न च दानवाः॥ ३९.५७ ॥

ग्रहा नैव प्रकाशन्ते नक्षत्राणि न तारकाः।
ऋषयो न प्रभासन्ते न देवा न च दानवाः॥ ३९.५८ ॥

एवं चहि तिमिरीभूते निर्हन्ति गणेश्वराः।
प्रभञ्जन्त्यपरे यूपान् घोरानुत्पाटयन्ति च॥ ३९.५९ ॥

प्रणदन्ति तथा चानये विकुर्वन्ति तथा परे।
त्वरितं वै प्रधावन्ति वायुवेगा मनोजवाः॥ ३९.६० ॥

चूर्ण्यन्ते यज्ञपात्राणि यज्ञस्यायतनानि।
शीर्यमाणान्यदृस्यन्त तारा इव नभस्तलात्॥ ३९.६१ ॥

दिवय्यान्नपानभक्ष्याणां राशयः पर्व्वतोपमाः।
क्षीरनद्यस्तथा चान्या घृतपायसकद्‌र्दमाः॥ ३९.६२ ॥

मधुमण्डोदका दिव्याः खण्डशर्करबालुकाः।
षड्‌रसान्निवहन्त्यन्या गुडकुल्या मनोरमाः॥ ३९.६३ ॥

उच्चावचानि मांसानि भक्ष्यानि विविधानि च।
यानि कानि च दिव्यानि लेह्यचोष्वाणि यानि च॥ ३९.६४ ॥

भुञ्जन्ति विविधैर्वक्त्रैर्विलुम्पन्ति क्षिपन्ति च।
रुद्रकोपा महाकोपाः कालाग्निसदृशोपमाः॥ ३९.६५ ॥

भक्षयन्तोऽथ शैलाभा भीषयन्तश्च सर्वतः।
क्रीडन्ति विविधकाराश्चिक्षिपुः सुरयोषितः॥ ३९.६६ ॥

एवं गणाश्च तैर्युक्तो वीरभद्रः प्रतापवान्।
रुद्रकोपप्रयुक्तश्च सर्वदेवैः सुरक्षितम्॥ ३९.६७ ॥

तं यज्ञमदहच्छीघ्रं भद्रकाल्याः समीपतः।
चक्रुरन्ये तथा नादान् सर्वबूतभयङ्करान्॥ ३९.६८ ॥

छित्त्वा शिरोऽन्ये यज्ञस्य व्यनदन्त भयङ्करम्।
ततः शक्रादयो देवा दक्षश्चैव प्रजापतिः॥
ऊचुः प्राञ्जलयो भूत्वा कथ्यतां को भवानिति॥ ३९.६९ ॥

'''वीरभद्र उवाच '''
नाहं न दैत्यो वा न च भोक्तुमिहागतः।
नैव द्रष्टुञ्च देवेन्द्रा न च कौतूहलान्वितः॥ ३९.७० ॥

दक्षयज्ञविनाशार्थं सम्प्राप्तोऽहं सुरोत्तमाः।
वीरभद्रेति विख्यातो रुद्रकोपाद्‌विनिःसुतः॥ ३९.७१ ॥

भद्रकाली च विख्याता देव्याः क्रोधाद्विनिर्गता।
प्रेषिता देवदेवेन यज्ञान्तिकमुपागता॥ ३९.७२ ॥

शरणं गच्छ राजेन्द्र देवदेवमुमापतिम्।
वरं क्रोधोऽपि देवस्य न वरः परिचारकैः॥ ३९.७३ ॥

'''ब्रह्मोवाच '''
निखातोत्पाटितैर्यूंपैरपविद्धैस्ततस्ततः।
उत्पतद्भिः पतद्भिश्च गृध्रैरामिषगृध्नुभिः॥ ३९.७४ ॥

पक्षवातविनिर्धूतैः शिवारुतविनादितैः।
स तस्य यज्ञो नृपतेबध्यिमानस्तदा गणैः॥ ३९.७५ ॥

आस्थाय मृगरूपं वै खमेवाभ्यपतत्तदा।
तन्तु यज्ञं तथारूपं गच्छन्तमुपलभ्य सः॥ ३९.७६ ॥

धनुरादाय बाणञ्च तदर्थमगमत् प्रभुः।
ततस्तस्य गणेशस्य क्रोधादमिततैजसः॥ ३९.७७ ॥

ललाटात्प्रसृतो घोरः स्वेदविन्दुर्बभूव ह।
तस्मिन्पतितमात्रे च स्वेदविन्दौ तदा भुवि॥ ३९.७८ ॥

प्रादुर्भुंतो महानग्निर्ज्वलत्कालानलोपमः।
तत्रोदपद्यत तदा पुरुषो द्विजसत्तमाः॥ ३९.७९ ॥

ह्रस्वोऽतिमात्रो रक्ताक्षो हरिच्छ्‌मश्रुर्विभीषणः।
ऊर्ध्वकेशोऽतिरोमाङ्गः शोण्कर्णस्तथैव च॥ ३९.८० ॥

करालकृष्णवर्णश्च रक्तवासास्तथैव च।
तं यज्ञं स महासत्त्वोऽदहत्कक्षमिवानलः॥ ३९.८१ ॥

देवाश्च प्रद्रुताः सर्वे गता भीता दिशो दश।
तेन तस्मिन्विचरता विक्रमेम तदा तु वै। ३९.८२ ॥

पृथिवी व्यचलत्सर्वा सप्तद्वीपा समन्ततः।
महाभूते प्रवृत्ते तु देवलोकभयंकरे॥ ३९.८३ ॥

तदा चाहं महादेवमब्रवं प्रतिपूजयन्।
भवतेऽपि सुराः सर्वे भागं दारवन्ति वै प्रभो॥ ३९.८४ ॥

क्रियतां प्रतिसंहारः सर्वदेवेश्वर त्वया।
इमाश्च देवताः सर्वा ऋषयश्च सहस्रशः॥ ३९.८५ ॥

तव क्रोधान्महादेव न शान्तिमुपलेभिरे।
यश्चैष पुरुषो जातः स्वेदजस्ते सुरर्षभः॥ ३९.८६ ॥

ज्वरो नामैष धर्मज्ञ लोकेषु प्रचरिष्यति।
एकीभूतस्य न ह्यस्य धारणे तेनसः प्रभोः॥ ३९.८७ ॥

समर्था सकला पृथ्वी बहुधा सृज्यतामयम्।
इत्युक्तः स मया देवो भागे चापि प्रकल्पिते॥ ३९.८८ ॥

भगवान्मां तथेत्याह देवदेवः पिनाकधृक्।
परां च प्रीतिमगमत्स स्वयं भागे चापि प्रकल्पिते॥ ३९.८९ ॥

दक्षिऽपि मनसा देवं भवं शरणमन्वगात्।
प्राणापानौ समारुध्य चक्षुःस्थाने प्रयचत्नतः॥ ३९.९० ॥

वाधार्य सर्वते दृष्टिं बहुदृष्टिरमत्रजित्।
स्मितं कृत्वाऽब्रवीद्वाक्यं ब्रहिं किं करवाणि ते॥ ३९.९१ ॥

श्राविते च महाख्याने देवानां पितृभिः सह।
तमुवाचाञ्जलिं कृत्वा दक्षो देवं प्रजापति॥
भीतः शङ्किर्ताचत्तस्तु सबाष्पवदनेक्षणः॥ ३९.९२ ॥

'''दक्ष उवाच '''
यदि प्रसन्नो भगवान्यदि वाऽहं तव प्रियः।
यदि चाहमनुग्राह्ये यदि देयो वरो मम॥ ३९.९३ ॥

यद्भक्ष्यं भक्षितं पीतं त्रासितं यच्च नाशितम्।
चूर्णीतापविद्धं च यज्ञसंभारमीदृशम्॥ ३९.९४ ॥

दीर्घकालेन महताः प्रयत्नेन च संचितम्।
न च मिथ्या भवेन्मह्यं त्वत्प्रसादान्महेश्वर॥ ३९.९५ ॥

तथाऽस्त्वित्याह भगवान्भगनेत्रहरो हरः।
धर्माध्यक्षं महादेवं ञ्यम्बकं च प्रजापतिः॥ ३९.९६ ॥

जानुभ्यामवनीं गत्वा दक्षो लब्ध्वा भवाद्वरम्।
नाम्नां चाष्टसहस्रेण स्तुतवान्वृषभध्वजम्॥ ३९.९७ ॥

इति श्रीमहापुराणे आदिब्राह्मे स्वयंभुऋषिसंवादे दक्षयज्ञविध्वंसनं नामैकोनचत्वारिंशो शोऽध्यायः॥ ३९ ॥

</poem>

[[वर्गः:ब्रह्मपुराणम्]]
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_३९" इत्यस्माद् प्रतिप्राप्तम्