"अग्निपुराणम्/अध्यायः १७३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः २:
अथ त्रिसप्तत्यधिकशततमोऽध्यायः
 
<poem><span style="font-size: 14pt; line-height: 200%">प्रायश्चित्तं
 
<poem><span style="font-size: 14pt; line-height: 200%">अग्निरुवाच
प्रायश्चित्तं ब्रह्मणोक्तं वक्ष्ये पापोपशान्तिदं ।१७३.००१।०१
स्यात्प्राणवियोगफलो व्यापारो हननं स्मृतं ॥१७३.००१॥०१
रागाद्द्वेषात्प्रमादाच्च स्वतः परत एव वा ।१७३.००२।०२
ब्राह्मणं घातयेद्यस्तु स भवेद्ब्रह्मघातकः ॥१७३.००२॥०२
बहूनामेककार्याणां सर्वेषां शस्त्रधारिणां ।१७३.००३।०३
यद्येको घातकस्तत्र सर्वे ते घातकाः स्मृताः ॥१७३.००३॥०३
आक्रोशितस्ताडितो वा धनैव्वा परिपीडितः ।१७३.००४।०४
<small><small>टिप्पणी
१ ततः कर्माणीति ख.. , ग.. , घ.. , छ.. च</small></small>
यमुद्दिश्य त्यजेत्प्राणांस्तमाहुर्ब्रह्मघातकं ॥१७३.००४॥०४
औषधाद्युपकारे तु न पापं स्यात्कृते मृते ।१७३.००५।०५
पुत्रं शिष्यन्तथा भार्यां शासते न मृते ह्यघं ॥१७३.००५॥०५
देशं कालञ्च यः शक्तिं पापञ्चावेक्ष्य यत्नतः ।१७३.००६।०६
प्रायश्चित्तं प्रकल्प्यं स्याद्यत्र चोक्ता न निष्कृतिः(१) ॥१७३.००६॥०६
गवार्थे ब्राह्मणार्थे वा सद्यः प्राणान् परित्यजेत् ।१७३.००७।०७
प्रास्येदात्मानमग्नौ वा मुच्यते ब्रह्महत्यया ॥१७३.००७॥०७
शिरःकपाली ध्वजवान् भैक्षाशी कर्म वेदयन् ।१७३.००८।०८
ब्रह्महा द्वादशाब्दानि मितभुक्शुद्धिमाप्नुयात् ॥१७३.००८॥०८
षड्भिर्वर्षैः शुद्धचारी ब्रह्महा पूयते नरः ।१७३.००९।०९
विहितं यदकामा मां कामात्तु द्विगुणं स्मृतं ॥१७३.००९॥०९
प्रायश्चित्तं प्रवृत्तस्य वधे स्यात्तु(२) त्रिवार्षिकं ।१७३.०१०।१०
ब्रह्मघ्नि क्षत्रे द्विगुणं विट्च्छूद्रे द्विगुणं त्रिधा ॥१७३.०१०॥१०
अन्यत्र विप्रे सकलं पादोनं क्षत्रिये मतं ।१७३.०११।११
वैश्येऽर्धपादं क्षत्रे स्याद्वृद्धस्त्रीबालरोगिषु ॥१७३.०११॥११
तुरीयो ब्रह्महत्यायाः क्षत्रियस्य बधे स्मृतं ।१७३.०१२।१२
वैश्येऽष्टमांशो वृत्तस्थे शूद्रे ज्ञेयस्तु षोडशः ॥१७३.०१२॥१२
अप्रदुष्टां स्त्रियं हत्वा शूद्रहत्याव्रतं चरेत् ।१७३.०१३।१३
पञ्चगव्यं पिवेद्गोघ्नो मासमासीत संयतः ॥१७३.०१३॥१३
गोष्ठे शयो गोऽनुगामी गोप्रदानेन शुद्ध्यति ।१७३.०१४।१४
कृच्छ्रञ्चैवातिकृच्छ्रं वा पादह्रासो नृपादिषु ॥१७३.०१४॥१४
अतिवृद्धामतिकृशामतिबालाञ्च रोगिणीं ।१७३.०१५।१५
<small><small>टिप्पणी
१ न संस्कृतिरिति छ..
२ बधेऽस्य तु इति छ..</small></small>
हत्वा पूर्वविधानेन चरेदर्धव्रतं द्विजः ॥१७३.०१५॥१५
ब्राह्मणान् भोजयेच्छक्त्या दद्याद्धेमतिलदिकं ।१७३.०१६।१६
मुष्टिचपेटकीलेन तथा शृङ्गादिमोटने ॥१७३.०१६॥१६
लगुडादिप्रहारेण गोवधं तत्र निर्दिशेत् ।१७३.०१७।१७
दमेन दामने चैव शकटादौ च योजने ॥१७३.०१७॥१७
स्तम्भशृङ्खलपाशैर्वा मृते पादोनमाचरेत् ।१७३.०१८।१८
काष्ठे शान्तपनं कुर्यात्प्राजापत्यन्तु लोष्ठके ॥१७३.०१८॥१८
तप्तकृच्छ्रन्तु पाषाणे शस्त्रे चाप्यतिकृच्छ्रकं ।१७३.०१९।१९
मार्जारगोधानकुलमण्डूकश्वपतत्रिणः ॥१७३.०१९॥१९
हत्वा त्र्यहं पिवेत्क्षीरं कृच्छ्रं चान्द्रायणं चरेत् ।१७३.०२०।२०
व्रतं रहस्ये रहसि प्रकाशेऽपि प्रकाशकं ॥१७३.०२०॥२०
प्राणायामशतं कार्यं सर्वपापापनुत्तये ।१७३.०२१।२१
पानकं द्राक्षमधुकं खार्जरन्तालमैक्षवं ॥१७३.०२१॥२१
मध्वीकं टङ्कमाध्वीकं मैरेयं(?) नारिकेलजं ।१७३.०२२।२२
न मद्यान्यपि मद्यानि पैष्टी मुख्या सुरा स्मृता ॥१७३.०२२॥२२
त्रैवर्णस्य निषिद्धानि पीत्वा तप्त्वाप्यपः शुचिः ।१७३.०२३।२३
कणान् वा भक्षयेदब्दं पिण्याकं वा सकृन्निशि ॥१७३.०२३॥२३
सुरापाणापनुत्यर्थं बालवामा जटी ध्वजी ।१७३.०२४।२४
अज्ञानात्प्राश्य विण्मूत्रं सुरासंस्पृष्टमेव च ॥१७३.०२४॥२४
पुनः संस्कारमर्हन्ति त्रयो वर्णा द्विजातयः ।१७३.०२५।२५
मद्यमाण्डस्थिता आपः पीत्वा सप्तदिनं व्रती ॥१७३.०२५॥२५
चाण्डालस्य तु पानीयं पीत्वा स्यात्षड्दिनं व्रती ।१७३.०२६।२६
चण्डालकूपभाण्डेषु पीत्वा शान्तपनं चरेत् ॥१७३.०२६॥२६
पञ्चगव्यं त्रिरान्ते पीत्वा चान्त्यजलं द्विजः ।१७३.०२७।२७
मत्स्यकण्टकशम्बूकशङ्खशुक्तिकपर्दकान् ॥१७३.०२७॥२७
पीत्वा नवोदकं चैव पञ्चगव्येन शुद्ध्यति ।१७३.०२८।२८
शवकूपोदकं पीत्वा त्रिरात्रेण विशुद्ध्यति ॥१७३.०२८॥२८
अन्त्यावसायिनामन्नं भुक्त्वा चान्द्रायणं चरेत् ।१७३.०२९।२९
आपत्काले शूद्रगृहे मनस्तापेन शुद्ध्यति ॥१७३.०२९॥२९
शूद्रभाजनभुक्विप्रः पञ्चगव्यादुपोषितः ।१७३.०३०।३०
कन्दुपक्वं स्नेहपक्वं स्नेहं च दधिशक्तवः ॥१७३.०३०॥३०
शूद्रादनिन्द्यान्येतानि गुडक्षीररसादिकं ।१७३.०३१।३१
अस्नातभुक्चोपवासी दिनान्ते तु जपाच्छुचिः ॥१७३.०३१॥३१
मूत्रोच्चार्यशुचिर्भुक्त्वा त्रिरात्रेण विशुद्ध्यति ।१७३.०३२।३२
केशकीटावपन्नं च पादस्पृष्टञ्च कामतः ॥१७३.०३२॥३२
भ्रूणघ्नावेक्षित्तं चैव सस्पृष्टं वाप्युदक्यया ।१७३.०३३।३३
काकाद्यैरवलीढं च शुनासंस्पृष्टमेव च ॥१७३.०३३॥३३
गवाद्यैरन्नमाघ्रातं भुक्त्वा त्र्यहमुपावसेत् ।१७३.०३४।३४
रेतोविण्मूत्रभक्षी तु प्राजापत्यं समाचरेत् ॥१७३.०३४॥३४
चान्द्रायण नवश्राद्धे पराको मासिके मतः ।१७३.०३५।३५
पक्षत्रयेऽतिकृच्छ्रं स्यात्षण्मासे कृच्छ्रमेव च ॥१७३.०३५॥३५
आब्दिके पादकृच्छ्रं स्यादेकाहः पुनराव्दिके ।१७३.०३६।३६
पूर्वेद्युर्वार्षिकं श्राद्धं परेद्युः पुनराव्दिकं ॥१७३.०३६॥३६
निषिद्धभक्षणे भुक्ते प्रायश्चित्तमुपोषणं ।१७३.०३७।३७
भूस्तृणं लशुनं भुक्त्वा(१) शिशुकं कृच्छ्रमाचरेत्(२) ॥१७३.०३७॥३७
<small><small>टिप्पणी
१ लशुनं गृञ्जनं भुक्त्वेति ङ..
२ शिशुकृच्छ्रं समाचरेदिति ख..</small></small>
अभोज्यानान्तु भुक्त्वान्नं स्त्रीशूद्रोच्छिष्टमेव च ।१७३.०३८।३८
जग्ध्वा मांसमभक्ष्यञ्च सप्तरात्रं पयः पिवेत् ॥१७३.०३८॥३८
मधु मांसञ्च योऽश्नीयाच्छावं सूतकमेव वा ।१७३.०३९।३९
प्राजापत्यं चरेत्कृच्छ्रं ब्रह्मचारी यतिर्व्रती ॥१७३.०३९॥३९
अन्ययेन परस्वापहरणं स्तेयमुच्यते ।१७३.०४०।४०
मुसलेन हतो राज्ञा स्वर्णस्तेयी विशुद्ध्यति ॥१७३.०४०॥४०
अधःशायी जटाधारी पर्णमूलफलाशनः ।१७३.०४१।४१
एककालं समश्नानो द्वादशाब्दे विशुद्ध्यति ॥१७३.०४१॥४१
रुक्मस्तेयी सुरापश्च ब्रह्महा गुरुतल्पगः ।१७३.०४२।४२
स्तेयं कृत्वा सुरां पीत्वा कृच्छ्रञ्चाब्दं चरेन्नरः ॥१७३.०४२॥४२
मणिमुक्ताप्रवालानां ताम्रस्य रजतस्य च ।१७३.०४३।४३
अयस्कांस्योपलानाञ्च द्वादशाहं कणान्नभुक् ॥१७३.०४३॥४३
मनुष्याणान्तु हरणे स्त्रीणां क्षेत्रगृहस्य च ।१७३.०४४।४४
वापीकूपतडागानां शुद्धिश्चान्द्रायणं स्मृतं ॥१७३.०४४॥४४
भक्ष्यभोज्यापहरणे यानशय्यासनस्य च ।१७३.०४५।४५
पुष्पमूलफलानाञ्च पञ्चगव्यं विशोधनं ॥१७३.०४५॥४५
तृणकाष्ठद्रुमाणाञ्च शुष्कान्नस्य गुडस्य च ।१७३.०४७।४७
चेलचर्मामिषाणाञ्च त्रिरात्रं स्यादभोजनं ॥१७३.०४७॥४७
पितुः पत्नीञ्च भगिनीमाचार्यतनयान्तथा ।१७३.०४८।४८
आचार्याणीं सुतां स्वाञ्च गच्छंश्च गुरुतल्पगः ॥१७३.०४८॥४८
गुरुतल्पेऽभिभाष्यैनस्तप्ते पच्यादयोमये ।१७३.०४९।४९
शूमीं ज्वलन्तीञ्चाश्लिष्य मृतुना स विशुद्ध्यति ॥१७३.०४९॥४९
चान्द्रायणान् वा त्रीन्मासानभ्यस्य गुरुतल्पगः ।१७३.०५०।५०
एवमेव विधिं कुर्याद्योषित्सु पतितास्वपि ॥१७३.०५०॥५०
यत्पुंसः परदारेषु तच्चैनां कारयेद्व्रतं ।१७३.०५१।५१
रेतः सिक्त्वा कुमारीषु चाण्डालीषु सुतासु च ॥१७३.०५१॥५१
सपिण्डापत्यदारेषु प्राणत्यागो विधीयते ।१७३.०५२।५२
यत्करोत्येकरात्रेण वृषलीसेवनं द्विजः ॥१७३.०५२॥५२
तद्भैक्ष्यभुग्(१) जपन्नित्यं त्रिभिर्वर्षैर्व्यपोहति ।१७३.०५३।५३
पितृव्यदारगमने भ्रातृभार्यागमे(२) तथा ॥१७३.०५३॥५३
चाण्डालीं पुक्कसीं वापि स्नुषाञ्च भगिनीं सखीं ।१७३.०५४।५४
मातुः पितुः स्वसारञ्च निक्षिप्तां शरणागतां ॥१७३.०५४॥५४
मातुलानीं स्वसारञ्च सगोत्रामन्यमिच्छतीं ।१७३.०५५।५५
शिष्यभार्यां गुरोर्भार्यां गत्वा चान्द्रायणञ्चरेत् ॥१७३.०५५॥५५
<small><small>टिप्पणी
१ हविष्यभुगिति ग.. ,ट.. च
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_१७३" इत्यस्माद् प्रतिप्राप्तम्