"ऋग्वेदः सूक्तं १०.९४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५८:
यत् । अद्रयः । पर्वताः । साकम् । आशवः । श्लोकम् । घोषम् । भरथ । इन्द्राय । सोमिनः ॥१॥
 
एते ग्रावाण उपलाः प्र वदन्तु अभिषवशब्दं कुर्वन्तु । vवयं"वयं यजमानाः vवदद्भ्यः"वदद्भ्यः अभिषवशब्दं कुर्वद्भ्यः vग्रावभ्यः"ग्रावभ्यः ग्राव्णामर्थाय vवाचं"वाचं vप्र"प्र vवदाम"वदाम । किंच हे ऋत्विजो यूयमपि स्तुतिलक्षणां वाचं वदत पठत । यत् यदा अद्रयः आदरणीया दृढाः आशवः सोमाभिषवार्थं क्षिप्रकारिणः पर्वताः ग्रावाणः सर्वे यूयं साकं सह इन्द्राय इन्द्रार्थं श्लोकं श्रोतव्यं vघोषम्"घोषम् अभिषवशब्दं भरथ पोषयथ तदानीं सोमिनः सोमवन्तः सोमेन तृप्ता भवथ ॥ ।
 
 
पङ्क्तिः ७३:
विष्ट्वी । ग्रावाणः । सुऽकृतः । सुऽकृत्यया । होतुः । चित् । पूर्वे । हविःऽअद्यम्। आशत ॥२॥
 
vशतवत्सहस्रवत्"शतवत्सहस्रवत् यथा शतं मनुष्याः सहस्रवदपरिमिता मनुष्याश्च वदन्ति तद्वत् एते ग्रावाणः vवदन्ति"वदन्ति शब्दं कुर्वन्ति । किंच हरितेभिः सोमसंसर्गाद्धरितवर्णैः vआसभिः"आसभिः आस्यैः अभि vक्रन्दन्ति"क्रन्दन्ति । सोममभिलक्ष्य देवानाह्वयन्तीत्यर्थः। किंच vसुकृतः"सुकृतः शोभनकर्माणः vग्रावाणः"ग्रावाणः vविष्ट्वी"विष्ट्वी यज्ञं प्राप्य होतुः देवानामाह्वातुरग्नेः पूर्वे चित् पूर्वमेव अद्यं भक्षणीयं हविः आशत प्राप्नुवन्ति ।।
 
 
पङ्क्तिः ८८:
वृक्षस्य । शाखाम् । अरुणस्य । बप्सतः । ते। सूभर्वाः । वृषभाः । प्र । ईम् । अराविषुः ॥३॥
 
vअरुणस्य"अरुणस्य अरुणवर्णस्य वृक्षस्य शाखां vबप्सतः"बप्सतः भक्षयन्तः vते"ते vसूभर्वाः"सूभर्वाः शोभनभक्षाः vवृषभाः"वृषभाः प्रेमराविषुः प्ररुवन्ति । यथा vपक्वे"पक्वे vआमिषि"आमिषि vअधि"अधि आमिषे क्रव्यादो मांसभक्षकाश्च मांसविषये यथा न्यूङ्खयन्ते शब्दविशेषं कुर्वन्ति तद्वत् एते ग्रावाणः वदन्ति शब्दं कुर्वन्ति । किंच vमधु"मधु मदकरं सोमम् vअना"अना आस्येन vअविदन्"अविदन् लभन्ते ॥
 
 
पङ्क्तिः १०३:
सम्ऽरभ्य । धीराः । स्वसृऽभिः । अनर्तिषुः । आऽघोषयन्तः । पृथिवीम् । उपब्दिऽभिः॥४॥
 
vमदिरेण"मदिरेण मदकरेण मन्दिना अभिषूयमाणेन सोमेन इन्द्रं क्रोशन्तः आह्वयन्त एते ग्रावाणः बृहत् अत्यन्तं वदन्ति शब्दायन्ते । किंच vअना"अना आस्येन vमधु"मधु मदकरं सोमम् vअविदन्"अविदन् अलभन्त । किंच vसंरभ्य"संरभ्य संरब्धा भूत्वा vधीराः"धीराः धृष्टाः सन्तः उपब्दिभिः शब्दैः पृथिवीम् vआघोषयन्तः"आघोषयन्तः पूरयन्तः स्वसृभिः अङ्गुलिभिः सह अनर्तिषुः नृत्यन्ति ।
 
 
पङ्क्तिः ११८:
न्य॑क् । नि । यन्ति । उपरस्य । निःऽकृतम् । पुरु । रेतः । दधिरे । सूर्यऽश्वित: ॥ ५ ।।
 
vसुपर्णाः"सुपर्णाः सुपतना ग्रावाणः उप उपलक्ष्य समीपे द्यवि अन्तरिक्षे vवाचम्"वाचम् अभिषवशब्दम् vअक्रत"अक्रत कुर्वन्ति । किंच आखरे । मृगाणां व्रज आखरः । तस्मिन् vइषिराः"इषिराः गमनशीलाः कृष्णाः कृष्णमृगा इव सूर्यश्वितः सूर्यवच्छ्वेतवर्णा द्रप्साः अनर्तिषुः नृत्यन्ति । निष्कृतं ग्रावभि: पीडितं सत् उपरस्य उपलस्य vन्यक्"न्यक् अधोमुखं सोमं vनि"नि vयन्ति"यन्ति निगमयन्ति । किंच vपुर"पुर बहु vरेतः"रेतः सोमलक्षणमुदकं दधिरे धारयन्ति ॥ ॥ २९ ॥
 
 
पङ्क्तिः १३३:
यत् । श्वसन्तः । जग्रसानाः । अराविषुः । शृण्वे । एषाम् । प्रोथथः । अर्वताम्ऽइव ।। ६ ।।
 
vवृषणः"वृषणः । फलं वर्षतीति वृषा यज्ञः। तस्य vधुरः"धुरः धुरं भारं vबिभ्रतः"बिभ्रतः धारयन्त एते ग्रावाणः । vसाकं"साकं सोमेन सह vयुक्ताः"युक्ताः सन्तः प्रवहन्तः रथं प्रकर्षेण वोढारः vउग्राः"उग्राः उद्गूर्णा अश्वाः vइव"इव vसमायमुः"समायमुः समायच्छन्ति । आयता भवन्तीत्यर्थः । यत् यदा vश्वसन्तः"श्वसन्तः अभिषवसमय उत्पतननिपतनव्यापारजनितेन वायुना श्वसन्त इव स्थिता ग्रावाणः vजग्रसानाः"जग्रसानाः सोमं ग्रसमानाः अराविषुः शब्दायन्ते तदानीम् vएषां"एषां ग्राव्णां संबन्धी vप्रोथथः"प्रोथथः मुखाच्छब्दः शृण्वे श्रूयते । तत्र इष्टान्तः । vअर्वतामिव"अर्वतामिव । अश्वानां संबन्धिनो मुखाद्धेषाशब्दो यथा तद्वदित्यर्थः ॥
 
 
पङ्क्तिः १४८:
दशाभीशुऽभ्यः । अर्चत । अजरेभ्यः । दश । धुरः । दश । युक्ताः । वहत्ऽभ्यः ।। ७ ।।
 
दशावनिभ्यः । कर्माण्यवन्ति गच्छन्तीत्यवनयः । दशावनयोऽङ्गुलयो येषां ग्राहकत्वेन संबन्धिनस्ते दशावनयः । तान् ग्राव्णः। द्वितीयार्थे चतुर्थी । दशकक्ष्येभ्यः। कक्ष्याः प्रकाशका अङ्गुलयो येषां ते दशकक्ष्याः । तान् । दशयोक्त्रेभ्यः । योक्त्रवद्बन्धनसाधनभूता दशाङ्गुलयो येषां तान् । दशयोजनेभ्यः । सोमेन सह योजने साधनभूता दशाङ्गुलयो येषां तान्। vदशाभीशुभ्यः"दशाभीशुभ्यः । कर्माण्यभितो व्याप्नुवन्तीत्यभीशवोऽङ्गुलयो दश येषां तान् । अजरेभ्यः जराविवर्जितान् vदश"दश दशभिः vधुरः"धुरः धूर्भिः हिंसितृभिः । तृतीयार्थे प्रथमा । vयुक्ताः"युक्ताः युक्तान्। द्वितीयार्थे प्रथमा । vवहद्भ्यः"वहद्भ्यः वहतोऽभिषवाख्ये कर्मणि व्याप्रियमाणान् vअर्चत"अर्चत स्तुत । हे ऋत्विज इति शेषः । अत्र
यास्कः-* अवनयोऽङ्गुलयो भवन्त्यवन्ति कर्माणि । कक्ष्याः प्रकाशयन्ति कर्माणि । योक्त्राणि योजनानीति व्याख्यातमभीशवोऽभ्यनुवते कर्माणि । दश धुरो दश युक्ता वहद्भ्यः । धूर्धूर्वतेर्वधकर्मण इयमपीतरा धूरेतस्मादेव विहन्ति वहं धारयतेर्वा ' (निरु. ३. ९) इति ।
 
पङ्क्तिः १६४:
ते । ऊँ इति । सुतस्य । सोम्यस्य । अन्धसः । अंशोः । पीयूषम् । प्रथमस्य । भेजिरे ॥ ८ ॥
 
अद्रयः आदरणीयाः आशवः क्षिप्रकारिणः vते"ते एते प्रकृता ग्रावाणः दशयन्त्रासः दशयन्त्राः । तेषाम् एषां ग्राव्णां संबन्धि यत् vआधानं"आधानं प्रक्षेपणमभिषवकर्म हर्यतं स्पृहणीयं vपर्येति"पर्येति परितो गच्छति । ते एते ग्रावाण एव सुतस्य अभिषुतस्य सोम्यस्य सोमस्य संबन्धिनः अंशोः खण्डस्वरूपस्य vअन्धसः"अन्धसः अन्नस्य पीयूषम् अमृतं प्रथमं भेजिरे ॥
 
 
पङ्क्तिः १७९:
तेभिः । दुग्धम्। पपिऽवान् । सोम्यम् । मधु । इन्द्रः । वर्धते । प्रथते । वृषऽयते ॥ ९ ॥
 
सोमादः सोमस्यात्तारः ते प्रकृता एते ग्रावाणः इन्द्रस्य हरी अश्वौ vनिंसते"निंसते निक्षन्ति चुम्बन्ति । प्राप्नुवन्तीत्यर्थः । किंच vगवि"गवि अधिषवणचर्मणि अंशु सोमं दुहन्तः vआसते।"आसते। किंच vइन्द्रः"इन्द्रः vतेभिः"तेभिः तैः दुग्धं सोम्यं सोममयं मधु अमृतं vपपिवान्"पपिवान् पीतवान् vवर्धते"वर्धते वृद्धशरीरो भवति । vप्रथते"प्रथते विस्तीर्णशरीरश्च भवति । वृषायते वृषेवाचरति ॥
 
 
पङ्क्तिः १९४:
रैवत्याऽइव । महसा । चारवः । स्थन । यस्य । ग्रावाणः । अजुषध्वम् । अध्वरम् ॥ १० ॥
अंशुः सोमः वः युष्माकं वृषा यज्ञे वर्षिता भविष्यति । यूयमपि न रिषाथन किल न vरिष्यथ"रिष्यथ न शीर्णा भवथ किल । किंच vइळावन्तः"इळावन्तः अन्नवन्त इव यूयं सदमित् सदैव आशिताः भोजिताः स्थन भवथ। किंच रैवत्येव यथा रेवन्तस्तेजसा युक्ता भवन्ति तद्वत् महसा तेजसा युक्ताः vचारवः"चारवः कल्याणाः स्थन भवथ । हे vग्रावाणः"ग्रावाणः यूयं यस्य यजमानस्य vअध्वरं"अध्वरं यज्ञम् vअजुषध्वम्"अजुषध्वम् असेवध्वम् ॥ ॥ ३० ॥
 
 
पङ्क्तिः २०९:
अनातुराः । अजराः । स्थ । अमविष्णवः । सुऽपीवसः । अतृषिताः । अतृष्णऽजः ॥११॥
 
vअश्रमणाः"अश्रमणाः श्रमणवर्जिताः अशृथिताः अन्यैरशिथिलीकृताः vअमृत्यवः"अमृत्यवः अमारिताः vअनातुराः"अनातुराः अरोगाः vअजराः"अजराः जरारहिताः vस्थ"स्थ भवथ । किंच अमविष्णवः उत्क्षेपणावक्षेपणगत्युपेता हे ग्रावाणः vतृदिलाः"तृदिलाः अन्येषां भेदकाः vअतृदिलासः"अतृदिलासः स्वयमन्येनाभिन्नाः सुपीवसः सुबलाः vअतृषिताः"अतृषिताः तृष्णारहिताः vअतृष्णजः"अतृष्णजः निःस्पृहा भवथ ॥
 
 
पङ्क्तिः २२४:
अजुर्यासः । हरिऽसाचः । हरिद्रवः । आ । द्याम् । रवेण । पृथिवीम् । अशुश्रवुः ॥ १२ ॥
 
हे ग्रावाणः vयुगेयुगे"युगेयुगे सर्वेषु युगेषु vधुवा"धुवा vएव"एव निश्चला एव vवः"वः युष्माकं पितरः पितृभूताः पर्वताः vक्षेमकामासः"क्षेमकामासः क्षेमकामाः सदसः सदांसि आत्मना न vयुञ्जते"युञ्जते न संयोजयन्ति। vअजुर्यासः"अजुर्यासः जरारहिताः हरिषाचः सोमस्य संभक्तारः vहरिद्रवः"हरिद्रवः सोमसंसर्गाद्धरितवर्णाः द्यां दिवं पृथिवीं च रवेण अभिषवशब्देन vअशुश्रवुः"अशुश्रवुः श्रावयन्ति ।
 
 
पङ्क्तिः २३९:
वपन्तः । बीजम्ऽइव । धान्यऽकृतः । पृञ्चन्ति । सोमम्। न । मिनन्ति । बप्सतः ।। १३ ॥
 
vअद्रयः"अद्रयः आदरणीया ग्रावाणः यामन् यामनि गमने अञ्जस्पाः । अञ्जसा पान्ति रक्षन्तीत्यञ्जस्पाः। तेषां रथानाम् इव उपब्दिभिः vतदित्"तदित् तदेवाभिषवकर्म विमोचने vघेत्"घेत् तत् सोमरसविमोचनवेलायामपि vवदन्ति"वदन्ति प्रकाशयन्ति । किंच vबप्सतः"बप्सतः सोमं भक्षयन्त ग्रावाण: vवपन्तः"वपन्तः
vधान्याकृतः"धान्याकृतः कृषीवला: vबीजमिव"बीजमिव यथा पृञ्चन्ति तद्वत् vसोमं"सोमं पृञ्चन्ति । संपर्चयन्तीत्यर्थः । न एनं vमिनन्ति"मिनन्ति । न हिंसन्तीत्यर्थः ॥
 
 
पङ्क्तिः २५५:
वि । सु । मुञ्च । सुसुऽवुषः । मनीषाम् । वि । वर्तन्ताम् । अद्रयः । चायमानाः ।। १४ ।।
 
vचायमानाः"चायमानाः पूज्यमानाः अद्रयः आदरणीया ग्रावाणः अध्वरेऽधि यज्ञे vसुते"सुते सोमेऽभिषुते vमातरं"मातरं तुदन्तः हस्तेन ताडयन्तः vआ"आ vक्रीळयो"क्रीळयो vन"न आक्रीडकाः कुमाराः शब्दं यथा कुर्वन्ति तथा vवाचं"वाचं शब्दम् vअक्रत"अक्रत कृण्वन्ति । vसुषुवुषः"सुषुवुषः सोममभिषुतवतः ग्राव्णः vमनीषां"मनीषां स्तुतिं vवि"वि vमुञ्च"मुञ्च विशेषेण मुञ्च । किंच अद्रयः वि vवर्तन्ताम्"वर्तन्ताम् अभिषवशब्दं विमुञ्चन्तु ॥ ॥ ३१ ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.९४" इत्यस्माद् प्रतिप्राप्तम्