"शतपथब्राह्मणम्/काण्डम् १/अध्यायः २/ब्राह्मण १" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ९:
तेन प्राचोऽङ्गारानुदूहति । अपाग्ने अग्निमामादं जहि निष्क्रव्यादं सेधेत्ययं वा आमाद्येनेदं मनुष्याः पक्त्वाश्नन्त्यथ येन पुरुषं दहन्ति स क्रव्यादेतावेवैतदुभावतोऽपहन्ति - १.२.१.[४]
 
अथाङ्गारमास्कौति । आ देवयजं वहेति यो देवयाट् तस्मिन् हवींषि श्रपयाम तस्मिन्यज्ञं तनवामहा इति तस्माद्वा आस्कौति - १.२.१.[५]
तस्मिन्यज्ञं तनवामहा इति तस्माद्वा आस्कौति - १.२.१.[५]
 
तं मध्यमेन कपालेनाभ्युपदधाति । देवा ह वै यज्ञं तन्वानास्तेऽसुररक्षसेभ्य आसङ्गाद्बिभयांचक्रुर्नेन्नोऽधस्तान्नाष्ट्रारक्षांस्युपोत्तिष्ठानित्यग्निर्हि रक्षसामपहन्ता तस्मादेवमुपदधाति तद्यदेष एव भवति नान्य एष हि यजुष्कृतो मेध्यस्तस्मान्मध्यमेन कपालेनाभ्युपदधाति - १.२.१.[६]
Line २६ ⟶ २५:
अथ यद्दक्षिणतस्तदुपपधाति । विश्वाभ्यस्त्वाशाभ्य उपदधामीति स यदिमांल्लोकानति चतुर्थमस्ति वा न वा तेनैवैतद्द्विषन्तम्भ्रातृव्यमवबाधतेऽनद्धा वै तद्यदिमांल्लोकानति चतुर्थमस्ति वा न वानद्धो तद्यद्विश्वा आशास्तस्मादाह विश्वाभ्यस्त्वाशाभ्य उपदधामीति तूष्णीं वै वेतराणि कपालान्युपदधाति चित स्थोर्ध्वचित इति वा - १.२.१.[१२]
 
अथाङ्गारैरभ्यूहति । भृगूणामङ्गिरसां तपसा तप्यध्वमित्येतद्वै तेजिष्ठं तेजो यद्भृग्वङ्गिरसां सुतप्तान्यसन्निति तस्मादेनमभ्यूहति - १.२.१.[१३]
यद्भृग्वङ्गिरसां सुतप्तान्यसन्निति तस्मादेनमभ्यूहति - १.२.१.[१३]
 
अथ यो दृषदुपले उपदधाति । स कृष्णाजिनमादत्ते शर्मासीति तदवधूनोत्यवधूतं रक्षोऽवधूता अरातय इति सोऽसावेव बन्धुस्तत्प्रतीचीनग्रीवमुपस्तृणात्यदित्यास्त्वगसि प्रति त्वादितिर्वेत्त्विति सोऽसावेव बन्धुः - १.२.१.[१४]