"ऋग्वेदः सूक्तं १.१०५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३२०:
उत् । जिहीते। निऽचाय्य । तष्टाऽइव । पृष्टिऽआमयी। वित्तम् । मे। अस्य । रोदसी इति ॥ १८॥
 
अरुणवर्णः लोहितवर्णः ."वृकः अरण्यश्वा "सकृत् एकवारं “पथा “यन्तं मार्गेण गच्छन्तं मां “ददर्श “हि दृष्टवान् । हिः पादपूरणः। “निचाय्य दृष्ट्वा च मां जिघृक्षुः सन् उज्जिहीते उद्गच्छति स्म। तत्र दृष्टान्तः । “तष्टेव “पृष्ट्यामयी। यथा तक्षणजनितपृष्ठक्लेशः तष्टा वर्धकिः तदपनोदनाय ऊर्ध्वाभिमुखो भवति तद्वत् । हे द्यावापृथिव्यौ मदीयमिदं दुःखं “वित्तं जानीतम् । यद्वा । वृक इति विवृतज्योतिष्कः चन्द्रमाः उच्यते । अरुणः आरोचमानः कृत्स्नस्य जगतः प्रकाशकः मासकृत् मासार्धमासर्त्वयनसंवत्सरादीन् कालविशेषान् कुर्वन् । तिथिविभागज्ञानस्य चन्द्रगत्यधीनत्वात् । स चन्द्रमाः आकाशमार्गे यन्तं गच्छन्तं नक्षत्रगणं ददर्श । हिरवधारणे। नक्षत्रगणमेव ददर्श न कूपपतितं मामित्यनादरो द्योत्यते । यदि मां पश्येत् उद्धरेत् कूपात् । निचाय्य नक्षत्रगणं दृष्ट्वा चोज्जिहीते । येन नक्षत्रेण संयुज्यते तेन सहोद्गच्छति । न मामभिगच्छतीत्यर्थः । अन्यत् पूर्ववत् । अत्र मासकृत् इति यास्कः एकं पदं मन्यते शाकल्यस्तु पदद्वयम् । तस्मिन्पक्षेऽयमर्थः । दक्षप्रजापतेर्दुहितृभूताः स्वभार्याः अश्विन्याद्यास्तारकाः पुनःपुनर्ददर्श। मां सकृदेव पश्यतीति सकृद्दृष्ट्वा चोज्जिहीते। ताराभिः सहोर्ध्वमेव गच्छति । न मां कूपादुत्तारयति । अत इदमनुचितम् । हे द्यावापृथिव्यौ मदीयमिमं वृत्तान्तं जानीतम् ॥ अत्र निरुक्तं-' वृकश्चन्द्रमा भवति विवृतज्योतिष्को वा विकृतज्योतिष्को वा विक्रान्तज्योतिष्को वा । अरुण आरोचन: मासकृन्मासानां चार्धमासानां च कर्ता भवति चन्द्रमा वृकः पथा यन्तं ददर्श नक्षत्रगणमभिजिहीते निचाय्य येन येन योक्ष्यमाणो भवति चन्द्रमास्तक्ष्णुवन्निव पृष्ठरोगी' (निरु. [[निरुक्तशास्त्रम्/पञ्चमोध्यायः|५. २०]]-२१) इति । सकृत् । एकस्य सकृञ्च' ( पा. सू. ५. ४.१९) इति क्रियाभ्यावृत्तिगणने निपातितः । वृकः । वृञ् वरणे'। सृवृभूशुचिमुषिभ्यः कित् ' ( उ. सू. ३. ३२१ ) इति कप्रत्ययः । जिहीते । “ओहाङ गतौ ' । जौहोत्यादिकः । ‘भृञामित्' इति अभ्यासस्य इत्वम् । निचाय्य । 'चायृ पूजानिशामनयोः । अत्र दर्शनार्थो धातूनामनेकार्थत्वात् । समासेऽनम्पूर्वे क्त्वो ल्यप्'। पृष्टयामयी। ‘स्पृश संस्पर्शने। 'स्पृश्यतेऽनेनेति स्पृष्टिः । छान्दसो वर्णलोपः । पृष्टावामयः पृष्ट्यामयः । तद्वान् पृष्ट्यामयी।।
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१०५" इत्यस्माद् प्रतिप्राप्तम्