"अग्निपुराणम्/अध्यायः १२६" इत्यस्य संस्करणे भेदः
Content deleted Content added
No edit summary |
No edit summary |
||
पङ्क्तिः २:
<poem><span style="font-size: 14pt; line-height: 200%">ईश्वर उवाच
वक्ष्याम्यृक्षात्मकं पिण्डं शुभाशुभविबुद्धये
यस्मिन्नृक्षे भवेत्सूर्यस्तदादौ त्रीणि मूर्धनि(१)
एकम्मुखे द्वयन्नेत्रे हस्तपादे चतुष्टयं
हृदि पञ्च सुते जानौ आयुर्बुद्धिं विचिन्तयेत्
शिरस्थे तु भवेद्राज्यं पिण्डतो वक्त्रयोगतः
नेत्रयोः कान्तसौभाग्यं हृदये द्रव्यसङ्ग्रहः
हस्ते धृतं तस्करत्वङ्गतासुरध्वगः(२) पदे
कुम्भाष्तके भानि लिख्य(३) सूर्यकुम्भस्तु रिक्तकः
अशुभः सूर्यकुम्भः स्याच्छुभः पूर्वादिसंस्थितः
फणिराहुं(४) प्रवक्ष्यामि जयाजयविवेकदं
अष्टाविंशांल्लिखेद्विन्दून् पुनर्भाज्यस्त्रिभ्स्त्रिभिः
अथ ऋक्षाणि चत्वारि रेखास्तत्रैव दापयेत्
यस्मिन्नृक्षे स्थितो राहुस्तदृक्षं फणिमूर्धनि(५)
तदादि विन्यसेद्भानि सप्तविंशक्रमेण तु
वक्त्रे सप्तगते ऋक्षे म्रियते सर्व आहवे
१ त्रीणि मस्तके इति ज..
२ गतायुरध्वगः पदे इति ख..
३ भानि लिखेदिति घ.. , ज.. च
४ कालराहुमिति ङ..
५ कालमूर्धनीति ङ.. , ज, च}}</
<poem><span style="font-size: 14pt; line-height: 200%">स्कन्धे भङ्गं विजानीयात्सप्तमेषु च मध्यतः
उदरस्थेन(१) पूजा च जयश्चैवात्मनस्तथा
कटिदेशे स्थिते योधे आहवे हरते परान्
पुच्छस्थितेन कीर्तिः स्याद्राहुदृष्टे च भे मृतिः
पुनरन्यं प्रवक्ष्यामि रविराहुबलन्तव
रविः शुक्रो बुधश्चैव सोमः सौरिर्गुरुस्तथा(२)
लोहितः संहिकश्चैव एते यामार्धभागिनः
सौरिं रविञ्च राहुञ्च कृत्वा यत्नेन पृष्ठतः
स जयेत्सैन्यसङ्घातं द्यूतमध्वानमाहवं
रोहिणी चोत्तरास्तिस्रो मृगः पञ्च स्थिराणि हि
अश्विनी रेवती स्वाती धनिष्ठा शततारका
क्षिप्राणि पञ्चभान्येव यात्रार्थी चैव(३) योजयेत्
अनुराधाहस्तमूलं मृगः पुष्यं पुनर्वसुः
सर्वकार्येषु चैतानि ज्येष्ठा चित्रा विशाखया
पुर्वास्तिस्रोऽग्निर्भरणी मघार्द्राश्लेषादारुणाः
स्थावरेषु स्थिरं ह्यृक्षं यात्रायां क्षिप्रमुत्तमं
सौभाग्यार्थे मृदून्येव उग्रेषूग्रन्तु कारयेत्
दारुणे दारुणं कुर्याद्वक्ष्ये चाधोमुखादिकं
कृत्रिका भरण्यश्लेषा विशाखा पितृनैर्ऋतम्
१ उदरस्थे चेति ख..
२ कटिदेश इत्यादिः, सौरिर्गुरुस्तथेत्यन्तः पाठः घ.. पुस्तके नास्ति
३ यात्राध्वनि चेति ख.. , घ.. च}}</
<poem><span style="font-size: 14pt; line-height: 200%">पूर्वात्रयमधोवक्त्रं कर्म चाधोमुखञ्चरेत्(१)
एषु कूपतडागादि विद्याकर्म भिषक्क्रिया
स्थापनन्नौकाभूपादिविधानं(२) खननन्तथा
रेवती चाश्विनी चित्रा हस्ता स्वाती पुनर्वसुः
अनुराधा मृगो ज्येष्ठा नव वै पार्श्वतोमुखाः
एषु राज्याभिषेकञ्च पट्टबन्धङ्गजाश्वयोः
आरामगृहप्रासादं प्राकारं क्षेत्रतोरणं
ध्वजचिह्नपताकाश्च(३) सर्वानेतांश्च कारयेत्
द्वादशी सूर्यदग्धा तु चन्द्रेणैकदशी तथा
भौमेन दशमी दग्धा तृतीया वै बुधेन च
षष्टी च गुरुणा दग्धा द्वितीया भृगुणा तथा
सप्तमी सूर्यपुत्रेण त्रिपुष्करमथो वदे
द्वितीया द्वादशी चैव सप्तमी वै तृतीयया(४)
रविर्भौमस्तथा(५) शौरिः षडेतास्तु त्रिपुष्कराः(६)
विशाखा कृत्तिका चैव उत्तरे द्वे पुनर्वसुः
पूर्वभाद्रपदा चैव षडेते तु त्रिपुष्कराः
लाभो हानिर्जयो वृद्धिः पुत्रजन्म तथैव च
नष्टं भ्रष्टं विनष्टं वा तत्सर्वन्त्रिगुणं(७) भवेत्
१ चाधोमुखं भवेदिति ख..
२ नौकाद्यूतादिविधानमिति ग.. , घ.. , ङ.. च
पङ्क्तिः ७१:
५ गुरुर्भौमस्तथेति क.. , ग.. , घ.. , ङ.. च
६ षडेतास्त्रिषु पुष्करा इति क.. , ख.. , ङ.. , छ.. च
७ तत्सर्वं द्विगुणमिति ख.. , छ.. च}}</
<poem><span style="font-size: 14pt; line-height: 200%">अश्विनी भरणी चैव अश्लेषा पुष्यमेव च
खातिश्चैव विशाखा च श्रवणं सप्तमं पुनः
एतानि दृढचक्षूंषि पश्यनति च दिशो दश
यात्रासु दूरगस्यापि आगमः पुण्यगोचरे
आषाढे रेवती चित्रा केकराणि पुनर्वसुः
एषु पञ्चसु ऋक्षेषु(१) निर्गतस्यागमो भवेत्
कृत्तिका रोहिणी सौम्यं फल्गुनी च मघा तथा
मूलं ज्येष्ठानुराधा च धनिष्ठा शततारकाः
पूर्वभाद्रपदा चैव चिपिटानि च तानि हि(२)
अध्वानं व्रजमानस्य पुनरेवागमो भवेत्
हस्त उत्तरभाद्रश्च आर्द्राषाढा तथैव च
नष्टार्थाश्चैव दृश्यन्ते सङ्ग्रामो नैव विद्यते
पुनर्वक्ष्यामि गण्डान्तमृक्षमध्ये यथा स्थितम्
रेवत्यन्ते चतुर्नाडी(३) अश्विन्यादिचतुष्टयम्
उभयोर्याममात्रन्तु वर्जयेत्तत्प्रयत्नतः
अश्लेषान्ते मघादौ तु घटिकानां चतुष्टयम्
द्वितीयं गण्डमाख्यातं तृतीयं भैरवि शृणु
ज्येष्ठाभमूलयोर्मध्ये उग्ररूपन्तु यामकम्
१ केकरेषु च ऋक्षेषु इति छ..
२ चिपिटानि च भानि हि इति क.. , छ.. च
३ रेवत्यन्ते चतुष्कन्तु इति ख.. , ग.. , घ.. , ङ.. , छ.. , ज.. च}}</
<poem><span style="font-size: 14pt; line-height: 200%">न कुर्याच्छुभकर्माणि यदीच्छेदात्मजीवितं
दारके जातकाले च(१) म्रियेते पितृमातरो
१ जातके चापीति ख..}}</
इत्याग्नेये महापुराणे नक्षत्रनिर्णयो नाम षड्विंशत्यधिकशततमोऽध्यायः ॥
|