"जैमिनीयं ब्राह्मणम्/काण्डम् १/०५१-०६०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ६४:
 
 
तद् आहुर् यद् एतस्य दीर्घसत्त्रिणो ऽग्निहोत्रं जुह्वतो ऽग्निहोत्रीवत्सो नश्येत् किं तत्र कर्म का प्रायश्चित्तिर् इति। तद् होवाचारुणिर् द्यौर् वा अग्निहोत्री तस्या आदित्य एव वत्स इयम् एवाग्निहोत्रस्थाली। न ह वा एवंविदो ऽग्निहोत्रीवत्सो नष्यति।नश्यति। क्व ह्य् एष नश्येत्। नो वा एवंविदो ऽग्निहोत्रं दुह्यमानं स्कन्दति। अस्यां ह्य् एवं प्रतितिष्ठति। नो वा एवंविदो ऽग्निहोत्री दुह्यमानोपविशति। यदा वा एषा सुस्पृष्टं वर्षत्य अभिनिपद्य एव बतावर्षीद् इत्य् एनाम् आहुः॥
 
अथो खल्व् आहुर् यद् एषा लोहितं दुहीत किं तत्र कर्म का प्रायश्चित्तिर् इति। अवृत्तिं वा एषा यजमानस्य पाप्मानं प्रतिदृश्य दुहे या लोहितं दुहे। स व्युत्क्रामते ऽत्युक्त्वान्वाहार्यपचनं परिच्छादयितवै ब्रूयात्। तद् अधिश्रित्य मेक्षणं कृत्वा श्रपयेत्। तत्तद् एव तूष्णीं निनयेत्॥