"मत्स्यपुराणम्/अध्यायः ४०" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem>
ययात्यष्टकसम्वादवर्णनम्।
 
अष्टक उवाच।
चरन् गृहस्थः कथमेति देवान् कथं भिक्षः कथमाचार्य्यकर्म्मा।
वानप्रस्थः सत्पथे सन्निविष्टो बहून्यस्मिन् संप्रति वेदयन्ति।। ४०.१ ।।
 
ययातिरुवाच।
आहूताध्यायी गुरुकर्मसु चोद्यतः पूर्वोत्थायी चरमञ्चाथशायी।
मृदुर्दान्तो धृतिमानप्रमत्तः स्वाध्यायशीलः सिद्ध्यति ब्रह्मचारी।। ४०.२ ।।
 
धर्मागतं प्राप्य धनं यजेत दद्यात्सदैवातिथीन् भोजयेच्च।
अनाददानश्च परैरदत्तं सैषा गृहस्थोपनिषत् पुराणी।। ४०.३ ।।
 
स्ववीर्य्यजीवी वृजिनान्निवृत्तो दाता परेभ्यो न परोपतापी।
ताद्रृङ्मुनिः सिद्धिमुपैति मुख्या वसन्नरण्ये नियताहारचेष्टः।। ४०.४ ।।
 
अशिल्पजीवी विगृहश्च नित्यं जितेन्द्रियः सर्वतो विप्रमुक्तः।
अनोकशायी लघु लिप्समान श्चरन् देशामेकाम्वरः स भिक्षुः।। ४०.५ ।।
 
रात्र्या यया चाभिरताश्च लोका भवन्ति कामाभिजिताः सुखेन च।
तामेव रात्रिं प्रयतेत विद्वानरण्यसंस्थो भवितुं यतात्मा।। ४०.६ ।।
 
दशैव पूर्वान् दश चापरांस्तु ज्ञातींस्तथात्मानमथैकविंशम्।
अरण्यवासी सुकृतं दधाति मुक्त्वा त्वरण्ये स्वशरीरधातून्।। ४०.७ ।।
 
अष्टक उवाच।
कतिस्विद्देवमुनयो मौनानि कति चाप्युत।
भवन्तीति तदाचक्ष्व श्रोतुमिच्छामहे वयम्।। ४०.८ ।।
 
ययातिरुवाच।
अरण्ये वसतो यस्य ग्रामो भवति पृष्ठतः।
ग्रामे वा वसतोऽरण्यं स मुनिः स्याज्जनाधिप।। ४०.९ ।।
 
अष्टक उवाच।
कथं स्विद्वसतोऽरण्ये ग्रामो भवति पृष्ठतः।
ग्रामे वा वसतोऽरण्यं कथं भवति पृष्ठतः।। ४०.१० ।।
 
ययातिरुवाच।
न ग्राम्यमुपयुञ्जीत य आरण्यो मुनिर्भवेत्।
तथास्य वसतोऽरण्ये ग्रामो भवति पृष्ठतः।। ४०.११ ।।
 
अनग्निरनिकेतश्चाप्यगोत्रचरणो मुनिः।
कौपीनाच्छादनं यावत्तावदिच्छेच्च चीवरम्।। ४०.१२ ।।
 
यावत्प्राणाधिसन्धानं तावदिच्छेच्च भोजनम्।
तदास्य वसतो ग्रामेऽरण्यं भवति पृष्ठतः।। ४०.१३ ।।
 
यस्तुकामान् परित्यज्य त्यक्तकर्मा जितेन्द्रियः।
आतिष्ठेत मुनिर्मौनं सलोके सिद्धिमाप्नुयात्।। ४०.१४ ।।
 
धौतदन्तं कृत्तनखं सदा स्नातमलङ्कृतम्।
असितं सितकर्मस्थं कस्तन्नार्चितुमर्हति।। ४०.१५ ।।
 
तपसाकर्शितः क्षामः क्षीण मांसास्थिशोणितः।
यदा भवति निर्द्वन्द्वो मुनिमौनं समास्थितः।। ४०.१६ ।।
 
अथलोकमिमं जित्वा लोकञ्चापि जयेत्परम्।
आस्येन तु यदाहारं गोवन्मृगयते मुनिः ।
अथास्य लोकः सर्वो यः सोऽमृतत्वाय कल्पते।। ४०.१७ ।।
 
</poem>
"https://sa.wikisource.org/wiki/मत्स्यपुराणम्/अध्यायः_४०" इत्यस्माद् प्रतिप्राप्तम्