"मत्स्यपुराणम्/अध्यायः ४२" इत्यस्य संस्करणे भेदः

सम्पादनसारांशरहितः
(<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती)
 
<poem>
 
ययात्यष्टकसम्वादकथनम्।
 
वसुमानुवाच।
पृच्छाम्यहं वसुमानौषदश्विर्यद्यस्ति लोको दिवि मह्यं नरेन्द्र!।
यद्यन्तरिक्षे प्रथितो महात्मन् क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये।। ४२.१ ।।
 
ययातिरुवाच।
यदन्तरिक्षं पृथिवी दिशश्च यत्तेजसा तपते भानुमांश्च।
लोकास्तावन्तो दिवि संस्थिता वै ते त्वां भवन्तं प्रतिपालयन्ति।। ४२.२ ।।
 
वसुमानुवाच।
तांस्ते ददामि पतमाप्रपातं ये मे लोकास्तव ते वै भवन्तु।
क्रीणीष्वैनां स्तृणकेनापि राजन् प्रतिग्रहस्ते यदि सम्यक् प्रदुष्टः।। ४२.३ ।।
 
ययातिरुवाच।
न मिथ्याहं विक्रियं वै स्मरामि मया कृतं शिशुभावेऽपि राजन्।
कुर्य्याञ्चैवाकृतपूर्वमन्यैर्विवित्समानो वसुमन्न साधु।। ४२.४ ।।
 
वसुमानुवाच।
तांस्त्वं लोकान् प्रतिपद्यस्व राजन्! मया दत्तान् यदि नेष्टः क्रयस्ते।
नाहन्तान् वै प्रतिगन्ता नरेद्र सर्वे लोकास्तावका वै भवन्तु। ४२.५ ।।
 
शिबिरुवाच।
पृच्छामि त्वां शिबिरौशीनरोऽहं ममापि लोका यदि सन्ति तात!
यद्यन्तरिक्षे यदि वा दिवि श्रिताः क्षेत्रक्षं त्वां तस्य धर्मस्य मन्ये।। ४२.६ ।।
 
ययातिरुवाच।
न त्वं वाचा हृदयेनापि राजन्! परीप्समानो मावमंस्था नरेन्द्र।
तेनानन्ता दिवि लोकाः स्थिता वै विद्युद्रूपाः स्वनवन्तो महान्तः।। ४२.७ ।।
 
शिबिरुवाच।
तांस्त्वं लोकान् प्रतिपद्यस्व राजन् मया दत्तान् यदि नेष्टः क्रयस्ते।
न चाह तान् प्रतिपद्य दत्त्वा यत्र त्वं तात गन्तासि लोके।। ४२.८ ।।
 
ययातिरुवाच।
यथा त्वमिन्द्रप्रतिमप्रभावस्ते चाप्यनन्ता नरदेवलोकाः।
तथाद्य लोके न रमेऽन्यदत्ते तस्माच्छिवेनाभिनन्दामि वाचम्।। ४२.९ ।।
 
अष्टक उवाच।
न चेदेकैकशो राजन्! लोकान्नः प्रतिनन्दसि।
सर्वे प्रदाय तान् लोकान् गन्तारो नरकं वयम्।। ४२.१० ।।
 
ययातिरुवाच।
यदर्हास्तद्वदध्वं वः सन्तः सत्यादि दर्शिनः।
अहन्तु नाभिगृह्णामि यत्कृतं न मया पुरा।। ४२.११ ।।
 
अलिप्समानस्य तु मे यदुक्तं न तत्तथास्तीह नरेन्द्रसिंह!।
अस्य प्रदानस्य यदेव युक्तं तस्यैव चानन्तफलं भविष्यम्।। ४२.१२ ।।
 
अष्टक उवाच।
कस्यैते प्रतिदृश्यन्ते रथाः पञ्च हिरण्मयाः।
उच्चैः सन्तः प्रकाशन्ते ज्वलन्तोऽग्नि शिखा इव।। ४२.१३ ।।
 
ययातिरुवाच।
भवतां मम चैवैते रथा भान्ति हिरण्मयाः।
आरुह्यैतेषु गन्तव्यं भवद्भिश्च मया सह।। ४२.१४ ।।
 
आतिष्ठस्व रथं राजन् विक्रमस्य विहायसा।
वयमप्यनुयास्यामो यदाकालो भविष्यति।। ४२.१५ ।।
 
ययातिरुवाच।
सर्वैरिदानीं गन्तव्यं सह स्वर्गो जितो यतः।
एष वो विरजाः पन्था दृश्यते देवसद्मगः।। ४२.१६ ।।
 
शौनक उवाच।
तेऽभिरुह्य रथं सर्वे प्रयाता नृपते नृपाः।
आक्रमन्तो दिवं भान्ति धर्मेणावृत्य रोदसी।। ४२.१७ ।।
 
अष्टक उवाच।
अहं मन्ये पूर्वमेकोऽभिगन्ता सखा चेन्द्रः सर्वधा मे महात्मा।
कस्मादेवं शिबिरौशीनरोऽयमेकोऽत्ययात् सर्ववेगेन वाहान्।। ४२.१८ ।।
 
ययातिरुवाच।
अददाद्देवयानाय यावद्वित्तमनिन्दितः।
उशीनरस्य पुत्रोऽयं तस्मात् श्रेष्ठो हि वः शिबिः।। ४२.१९ ।।
 
दानं शौचं सत्यमथो ह्यहिंसा ह्रीः श्रीस्तितिक्षा समता नृशंस्यम्।
राज्यन्त्येतान्यथ सर्वाणि राज्ञि शिवौ स्थितान्यप्रतिमे सुबुद्ध्या।।
एवं वृत्तं ह्री निषेवो बिभर्ति तस्माच्छिबिरभिगन्ता रथेन।। ४२.२० ।।
 
शौनक उवाच।
अथाष्टकः पुनरेवान्वपृच्छन् मातामहं कौतुकादिन्द्रकल्पम्।
पृच्छामि त्वां नृपते ब्रूहि सत्यं कुतश्च कश्चासि कथं त्वमागाः।।
कृतं त्वया यद्धि न तस्य कर्ता लोके त्वदन्यो ब्राह्मणः क्षत्रियो वा।। ४२.२१ ।।
 
ययातिरुवाच।
ययातिरस्मि नहुषस्य पुत्रो पूरोः पिता सार्वभौमं त्विहासम्।
गुह्यं मन्त्रं मा केभ्यो ब्रवीमि मातामहो भवतां सुप्रकाशः।। ४२.२२ ।।
 
सर्वामिमां पृथिवीं निर्जिगाय समृद्धां महीमददं ब्राह्मणेभ्यः।
मेध्यानश्वान्नेकशस्तान् सुरूपान् तदा देवाः पुण्यभाजो भवन्ति।। ४२.२३ ।।
 
अदामहं पृथिवीं ब्राह्मणेभ्यः पूर्णामिमामखिलान्नैः प्रशस्ताम्।
गोभिः सुवर्णैश्च धनैश्च मुख्यैरश्वाः सनागाः शतशस्त्वर्बुदानि।। ४२.२४ ।।
 
सत्येन मे द्यौश्च वसुन्धरा च तथैवाग्निर्ज्वलते मानुषेषु।
न मे वृथा व्याहृतमेव वाक्यं सत्यं हि सन्तः प्रतिपूजयन्ति।। ४२.२५ ।।
 
साध्वष्टक प्रब्रवीमीह सत्यं प्रतर्दनं वसुमन्तं शिबिञ्च।
सर्वे देवा मुनयश्च लोकाः सत्येन पूज्या इति मे मनोगतम्।। ४२.२६ ।।
 
यो नः सर्गजितं सर्वं यथा वृत्तं निवेदयेत्।
अनसूयुर्द्विजाग्रेभ्यः स भजेत् स लोकताम्।। ४२.२७ ।।
 
शौनक उवाच।
एवं राजन् स महात्मा ययातिः स्वदौहित्रेस्तारितो मित्रवर्यैः।
त्यक्त्वा महीं परमोदारकर्म स्वर्गं गतः कर्मभिर्व्याप्य पृथ्वीम्।। ४२.२८ ।।
 
एवं सर्वं विस्तरतौ यथावदाख्यातं ते चरितन्नाहुषस्य।
वंशो यस्य प्रथितः कौरवे यो यस्मिन् जातस्त्वं मनुजेन्द्रकल्पः।। ४२.२९ ।।
 
</poem>
२६७

सम्पादन

"https://sa.wikisource.org/wiki/विशेषः:MobileDiff/22229" इत्यस्माद् पुनः प्राप्तिः