"मत्स्यपुराणम्/अध्यायः ४९" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem>
 
पूरुवंशवर्णनम्।
 
पूरोः पुत्रो महातेजा राजा स जनमेजयः।
प्राची ततः सुतस्तस्य यः प्राचीमकरोद्दिशम्।। ४९.१ ।।
 
प्राचीत तस्य तनयो मनस्युश्च तथा भवत्।
राजा पीतायुधो नाम मनस्योरभवत् सुतः।। ४९.२ ।।
 
दायादस्तस्य चाप्यासीद् धुन्धुर्नाम महीपतिः।
धुन्धोर्बहुविधः पुत्रः सम्पातिस्तस्य चात्मजः।। ४९.३ ।।
 
सम्पातेस्तु रहं वर्चा भद्राश्वस्तस्य चात्मजः।
भद्राश्वस्य घृताया तु दशाप्सरसि सूनवः।। ४९.४ ।।
 
औचेयुश्च हृषेयुश्च पुण्येयु श्चेति ते दश।
घृतेयुश्च विनेयुश्च स्थलेयुश्चैव सत्तमः।। ४९.५ ।।
 
धर्मेयुः सन्नतेयुश्च पुण्येयु श्चेति ते दश।
औचयो र्ज्वलना नाम भार्या वै तक्षकात्मजा।। ४९.६ ।।
 
तस्यां स जनयामास अन्तिनारं महीपतिम्।
अन्तिनारो मनस्विन्यां पुत्रान् जज्ञे परान् शुभान्।। ४९.७ ।।
 
अमूर्तरयसंवीरं त्रिवनञ्चैव धार्मिकम्।
गौरी कन्या तृतीया च मान्धातुर्जननी शुभा।। ४९.८ ।।
 
इलिना तु यमस्यासीत् कन्याया जनयत् सुतान्।
ब्रह्मवाद पराक्रान्तां श्छुम्भदा त्विलिना ह्यभूत्।। ४९.९ ।।
 
उपदानवी सुतान् लेभे चतुरस्त्विलिनात्मजात्।
ऋष्यन्तमथ दुष्यन्तं प्रवीरमनघं तथा।। ४९.१० ।।
 
चक्रवर्त्ती ततो जज्ञे दुष्यन्तात् समितिञ्जयः।
शकुन्तलायां भरतो यस्य नाम्ना च भारताः।। ४९.११ ।।
 
दौष्यन्तिं प्रति राजानं वागूचे चाशरीरिणी।
माता भस्त्रा पितुः पुत्रो येन जातः स एव सः।। ४९.१२ ।।
 
भर स्वपुत्रं दुष्यन्त! मावमंस्थाः शकुन्तलाम्।
रेतोधां नयते पुत्रः परेतं यमसादनात्।।
त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला।। ४९.१३ ।।
 
भरतस्य विनष्टेषु तनयेषु पुरा किल।
पुत्राणां मातृकात् कोपात् सुमहान् संक्षयः कृतः।। ४९.१४ ।।
 
ततो मरुद्भिरानीय पुत्रः स तु बृहस्पतेः।
संक्रामितो भरद्वाजो मरुद्बिर्भरतस्य तु।। ४९.१५ ।।
 
ऋषय ऊचुः।
भरतस्य भरद्वाजः पुत्रार्थं मारुतैः कथम्।
संक्रामितो महातेजास्तन्नो ब्रूहि यथातथम्।। ४९.१६ ।।
 
सूत उवाच।
पत्न्यामापन्नसत्वायामुशिजः सः स्थितो भुवि।
भ्रातुर्भार्य्यां सद्रृष्ट्वा तु बृहस्पतिरुवाच ह।। ४९.१७ ।।
 
उपतिष्ठ स्वलङ्कृत्य मैथुनाय च मां शुभे!।
एव मुक्ताऽब्रवीदेनं स्वयमेव बृहस्पतिम्।। ४९.१८ ।।
 
गर्भः परिणतश्चायं ब्रह्म व्याहरते गिरा।
अमोघरेतास्त्वञ्चापि धर्मञ्चैवं विगर्हितम्।। ४९.१९ ।।
 
एवमुक्तोऽब्रवीदेनां स्वयमेव बृहस्पतिः।
नोपदेष्टव्यो विनयस्त्वया मे वरवर्णिनि!।। ४९.२० ।।
 
धर्षमाणः प्रसह्यैनां मैथुनायोपचक्रमे।
ततो बृहस्पतिं गर्भो धर्षमाणमुवाच ह।। ४९.२१ ।।
 
सन्निविष्टो ह्यहं पूर्वमिह नाम बृहस्पते!।
अमोघरेताश्च भवान् नावकाश इह द्वयोः।। ४९.२२ ।।
 
एवमुक्तः स गर्भेण कुपितः प्रत्युवाच ह।
यस्मात्त्वमीद्रृशे काले सर्वभूतेप्सिते सति।।
अभिषेधसि तस्मात्त्वं तमो दीर्घं प्रवेक्ष्यसि।। ४९.२३ ।।
 
ततः कामं सन्निवर्त्य तस्यानन्दाद् बृहस्पतेः।
तद्रेतस्त्वपतद् भूमौ निवृत्तं शिशुकोऽभवत्।। ४९.२४ ।।
 
सद्यो जातं कुमारं तु द्रृष्ट्वा तं ममताऽब्रवीत्।
गमिष्यामि गृहं स्वं वै भरस्वैनं बृहस्पते।। ४९.२५ ।।
 
एवमुक्त्वागता सा तु गतायां सोऽपि तं त्यजन्।
मातापितृभ्यां त्यक्तन्तु द्रृष्ट्वा तं मारुतः शिशुम्
जगृहुस्तं भरद्वाजं मरुतः कृपया स्थिताः।। ४९.२६ ।।
 
तस्मिन् काले तु भरतो बहुभिः ऋतुभि र्विभुः।
पुत्रनैमित्तिकैर्यज्ञैरयजत् पुत्रलिप्सया।। ४९.२७ ।।
 
यदा स यजमानस्तु पुत्रं नासादयत् प्रभुः।
ततः क्रतुं मरुत्सोमं पुत्रार्थे समुपाहरत्।। ४९.२८ ।।
 
तेन ते मरुतस्तस्य मरुत्सोमेन तुष्टुवुः।
उपनिन्युर्भरद्वाजं पुत्रार्थं भरताय वै।। ४९.२९ ।।
 
दायादोऽङ्गिरसः सूनो रौरसस्तु बृहस्पतेः।
संक्रामितो भरद्वाजो मरुद्भिर्मरुतं प्रति।। ४९.३० ।।
 
भरतस्तु भरद्वाजं पुत्रं प्राप्य विभुरब्रवीत्।
आदावात्महितायः त्वं कृतार्थोऽहं त्वया विभो।। ४९.३१ ।।
 
पूर्वं तु वितथो तस्मिन् कृते वै पुत्रजन्मनि।
ततस्तु वितथो नाम भरद्वाजो नृपोऽभवत्।। ४९.३२ ।।
 
तस्मादपि भरद्वाजाद् ब्राह्मणाः क्षत्रिया भुवि।
द्व्यामुष्यायणकौलीनाः स्मृतास्ते द्विविधेन च।। ४९.३३ ।।
 
ततो जाते हि वितथे भरतश्च दिवं ययौ।
भरद्वाजो दिवं यातो ह्यभिषिच्यसुतं ऋषिः।। ४९.३४ ।।
 
दायादो वितथस्यासीद् भुवमन्युर्महायशाः।
महाभूतोपमाः पुत्रा श्चत्वारो भुवमन्यवः।। ४९.३५ ।।
 
बृहत् क्षेत्रो महावीर्यः नरो गर्गश्च वीर्य्यवान्।
नरस्य संकृतिः पुत्रस्तस्य पुत्रो महायशाः।। ४९.३६ ।।
 
गुरुधीरन्तिदेवश्च सत्कृत्यान्तावुभौ स्मृतौ।
गर्गस्य चैव दायादः शिबिर्विद्वानजायत।। ४९.३७ ।।
 
स्मृताः शैव्यास्ततो गर्गाः क्षत्रोपेता द्विजातयः।
आहार्यतनयश्चैव धीमानासीदुरुक्षवः।। ४९.३८ ।।
 
तस्य भार्या विशाला तु सुषुवे पुत्रकत्रयम्।
त्रयूषपं पुष्करिं चैव कविं चैव महायशाः।। ४९.३९ ।।
 
उरुक्षवाः स्मृता ह्येते सर्वे ब्राह्मणताङ्गताः।
काव्यानान्तु वरा ह्येते त्रयः प्रोक्ता महर्षयः।। ४९.४० ।।
 
गर्गाः संकृतयः काव्याः क्षत्रोपेताद्विजातयः।
संभृताङ्गिरसो दक्षाः बृहत् क्षत्रस्य च क्षितिः।। ४९.४१ ।।
 
बृहत् क्षत्रस्य दायादो हस्ति नामा बभूव ह।
तेनेदं निर्मितं पूर्वं पुरन्तु गजसाह्वयम्।। ४९.४२ ।।
 
हस्तिनश्चैव दायादा स्त्रयः परमकीर्त्तयः।
अजमीढो द्विमीढश्च पुरुमीढस्तथैव च।। ४९.४३ ।।
 
अजमीढस्य पत्न्यस्तु तिस्त्रः कुरुकुलोद्वहाः।
नीलिनी धूमिनीचैव केशिनी चैव विश्रुताः।। ४९.४४ ।।
 
स तासु जनयामास पुत्रान् वै देववर्चसः।
तपसोऽन्ते महातेजा जाता वृद्धस्य धार्मिकाः।। ४९.४५ ।।
 
भारद्वाजप्रसादेन विस्तरं तेषु मे श्रृणु।
अजमीढस्य केशिन्यां कण्वः समभवत् किल।। ४९.४६ ।।
 
मेधातिथिः सुतस्तस्य तस्मात् काण्वायना द्विजाः।
अजमीढस्य भूमिन्यां जज्ञे बृहदनुर्नृपः।। ४९.४७ ।।
 
बृहदनोर्बृहन्तोऽथ बृहन्तस्य बृहन् मनाः।
बृहन्मनः सुतश्चापि बृहद्धनुरिति श्रुतः।। ४९.४८ ।।
 
बृहद्धनोर्बृहदिषुः पुत्रस्तस्य जयद्रथः।
अश्वजित् तनयस्तस्य सेनजित् तस्य चात्मजः।। ४९.४९ ।।
 
अथ सेनजितः पुत्रा श्चत्वारो लोकविश्रुताः।
रुचिराश्वश्च काव्यश्च राजा द्रृढरथस्तथा।। ४९.५० ।।
 
वत्सश्चावर्तको राजा यस्यैते परिवत्सकाः।
रुचिराश्वस्य दायादः पृथुसेनो महायशाः।। ४९.५१ ।।
 
पृथुसेनस्य पौरस्तु पौरान्नीपोऽथ जज्ञिवान्।
नीपस्यैक शतं त्वासीत् पुत्राणाममितौजसाम्।। ४९.५२ ।।
 
नीपा इति समाख्याताः राजानः सर्व एव ते।
तेषां वंशकरः श्रीमान् नीपानां कीर्त्तिवर्द्धनः।। ४९.५३ ।।
 
काव्याच्च समरो नाम सदेष्टसमरोऽभवत्।
समरस्य पारसम्पारौ सदश्व इति ते त्रयः।। ४९.५४ ।।
 
पुत्राः सर्वगुणोपेता जाता वै विश्रुता भुवि।
पारपुत्रः पृथुर्जातः पृथोस्तु सुकृतोऽभवत्।। ४९.५५ ।।
 
जज्ञे सर्वगुणोपेतो विभ्राजस्तस्य चात्मजः।
विभ्राजस्य तु दायाद स्त्वणुहो नाम वीर्य्यवान्।। ४९.५६ ।।
 
बभूव शुकजामाता कृत्वी भर्ता महायशाः।
अणुहस्य तु दायादो ब्रह्मदत्तो महीपतिः।। ४९.५७ ।।
 
युगदत्तः सुतस्तस्य विष्वक्सेनो महायशाः।
विभ्राजः पुनराजातो सुकृतेनेह कर्मणा।। ४९.५८ ।।
 
विष्वक्सेनस्य पुत्रस्तु उदक्सोनो बभूव ह।
भल्लाटस्तस्य पुत्रस्तु तस्यासीज्जनमेजयः।
उग्रायुधेन तस्यार्थे सर्वे नीपाः प्रणाशिताः।। ४९.५९ ।।
 
ऋषय ऊचुः।
उग्रायुधः कस्य सुतः कस्य वंशे स कथ्यते।
किमर्थं तेन ते नीपाः सर्वे चैव प्रणाशिताः।। ४९.६० ।।
 
सूत उवाच।
उग्रायुधः सूर्य्यवंश्य स्तपस्तेपे वराश्रमे।
स्थाणुभूतोऽष्टसाहस्रं तं भेजे जनमेजयः।। ४९.६१ ।।
 
तस्य राज्यं प्रतिश्रुत्य नीपानाजघ्निवान् प्रभुः।
उवाच सान्त्वं विविधं जघ्नुस्ते वै ह्युभावपि।। ४९.६२ ।।
 
हन्यमाना गतानूचे यस्माद्धेतोर्न मे वचः।
शरणागतरक्षार्थं तस्मादेवं शपामि वः।। ४९.६३ ।।
 
यदि मेऽस्ति तपस्तप्तं सर्वान्नयतु वो यमः।
ततस्तान् कृष्यमाणांस्तु यमेन पुरतः स तु।। ४९.६४ ।।
 
कृपया परयाविष्टो जनमेजयमूचिवान्।
गतानेतानिमान् वीरांस्त्वं मे रक्षितुमर्हसि।। ४९.६५ ।।
 
अरे पापा! दुराचारा! भवितारोऽस्य किङ्कराः।
तथेत्युक्तस्ततो राजा यमेन युयुधे चिरम्।। ४९.६६ ।।
 
व्याधिभिर्नारकैर्घोरैर्यमेन सह तान् बलात्।
विजित्य मुनये प्रादात् तदद्भुतमिवाऽभवत्।। ४९.६७।।
 
यमस्तुष्टस्ततस्तस्मै मुक्ति ज्ञानं ददौ परम्।
सर्वे यथोचितं कृत्वा जग्मुस्ते कृष्णमव्ययम्।। ४९.६८ ।।
 
येषान्तु चरितं गृह्य हन्यन्ते नापमृत्युभिः।
इह लोके परे चैव सुखमक्षय्यमश्नुते।। ४९.६९ ।।
 
अजमीढस्य धूमिन्यां विद्वाञ्जज्ञे यवीनरः।
धृतिमांस्तस्य पुत्रस्तु तस्य सत्यधृतिस्मृतः।।
अथ सत्यधृतेः पुत्रो द्रृढनेमिः प्रतापवान्।। ४९.७० ।।
 
दृढनेमि सुतश्चापि सुधर्मा नाम पार्थिवः।
आसीन् सुधर्मतनयः सार्वभौमः प्रतापवान्।। ४९.७१ ।।
 
सार्वभौमेति विख्यातः पृथिव्यामेकारड् बभौ।
तस्यान्ववाये महति महापौरवनन्दनः।। ४९.७२ ।।
 
महापौरवपुत्रस्तु राजा रुक्मरथः स्मृतः।
अथ रुक्मरथस्यासीत् सुपार्श्वो नामपार्थिवः।। ४९.७३ ।।
 
सुपार्श्वतनयश्चापि सुमतिर्नाम धार्मिकः।
सुमतेरपि धर्मात्मा राजा सन्नतिमानपि।। ४९.७४ ।।
 
तस्यासीत् सन्नतिमतः कृतो नाम सुतो महान्।
हिरण्यनाभिनः शिष्यः कौसल्यस्य महात्मनः।। ४९.७५ ।।
 
चतुर्विंशतिधा येन प्रोक्ता वै साम संहिताः।
स्मृतास्ते प्राच्य सामानः कार्तानामेह सामगाः।। ४९.७६ ।।
 
कार्तिरुग्रायुधः सो वै महापौरववर्द्धनः।
बभूव येन विक्रम्य पृथुकस्य पिता हतः।। ४९.७७ ।।
 
नीलो नाम महाराजः पञ्चालाधिपतिर्वशी।
उग्रायुधस्य दायादः क्षेमो नाम महायशाः।। ४९.७८ ।।
 
क्षेमात् सुनीथः संजज्ञे सुनीथस्य नृपञ्जयः।
नृपञ्जयाच्च विरथ इत्येते पौरवाः स्मृताः।। ४९.७९ ।।
 
</poem>
"https://sa.wikisource.org/wiki/मत्स्यपुराणम्/अध्यायः_४९" इत्यस्माद् प्रतिप्राप्तम्