"जैमिनीयं ब्राह्मणम्/काण्डम् २/०३१-०४०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३६:
--बार्हतो विषुवान्, बार्हतो वासाव् आदित्यः। बृहत्याम् एष एतद् अध्यूढस् तपति। तस्माद् बृहतीष्व् एव बृहत् पृष्ठं कार्यम् इति।
 
अथ हैके बृहतीष्व् एव दिवाकीर्त्यं पृष्ठं कुर्वन्ति। बृहत्यायतनानि पृष्ठानि। इदं वा अन्तरिक्षं बृहती। तस्याम् अयं वायुर् अन्तः पवते। तत् पृष्ठं, तस्या उ एव यद् द्वादशाक्षरं पदं तेन, जगतीषु कृतं भवति। एवं तृतीयसवनम् अयातयाम क्रियत इति। तद् उ होवाच शाट्यायनिर् जागतो विषुवान्। जागतम् एतत् साम। जागतो ऽसाव् आदित्यः। यदा ह्य् एवएष उदेत्य् अथ जगद् एतस्यैव प्रयाणम् अनु प्रैति। तस्माज् जगतीष्व् एव दिवाकीर्त्यं पृष्ठं कार्यम् इति। ततो यास् तिस्रो जगत्यश् चतस्रस् ता बृहत्यः। तेन बृहतीषु कृतं भवति। तास् संस्तुता अष्टाविंशतिर् बृहत्यस् संपद्यन्ते। तेनो एव बृहत्य् अन्तरिता भवति। अथो हैतत् प्राणस्यैव रेतो निर्मितं यद् दिवाकीर्त्यम्। प्रजननं जगती। सो ऽसाव् आदित्यः। तद् यज् जगतीषु दिवाकीर्त्यं पृष्ठं कुर्वन्ति स्वेनैवैनं तद् आयतनेन समृद्धयन्ति। तेनैभ्यस् समृद्धेन स्वायां जनतायाम् ऋधुकं भवति॥2.36॥