"ऐतरेय ब्राह्मणम्/पञ्चिका ४ (चतुर्थ पञ्चिका)" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १०४:
769
 
प्रजापतिरकामयत प्रजायेय भूयान्स्यामिति स तपोऽतप्यत स तपस्तप्त्वेमं द्वादशाहमप्श्यदात्मन एवाङ्गेषु च प्राणेषु च तमात्मन एवाङ्गेभ्यश्च प्राणेभ्यश्च द्वादशधा निरमिमीत तमाहरत्तेनायजत ततो वै सोऽभवदात्मना प्र प्रजया पशुभिरजायत भवत्यात्मना प्र प्रजया पशुभिर्जायते य एवं वेद सोऽकामयत कथं नु गायत्र्या सर्वतो द्वादशाहम्परिभूय सर्वामृद्धिमृध्नुयामिति तं वै तेजसैव पुरस्तात्पर्यभवच्छन्दोभिर्मध्यतोऽक्षरैरुपरिष्टाद्गायत्र्या सर्वतो द्वादशाहम्परिभूय सर्वामृद्धिमार्ध्नोत्सर्वामृद्धिमृध्नोति य एवं वेद यो वै गायत्रीं पक्षिणीं चक्षुष्मतीं ज्योतिष्मतीम्भास्वतीं वेद गायत्र्या पक्षिण्या चक्षुष्मत्या ज्योतिष्मत्या भास्वत्या स्वर्गं लोकमेत्येषा वै गायत्री पक्षिणी चक्षुष्मती ज्योतिष्मती भास्वती यद्द्वादशाहस्तस्य यावभितोऽतिरात्रौ तौ पक्षौ यावन्तराग्निष्टोमौ ते चक्षुषी येऽष्टौ मध्य उक्थ्याः स आत्मा गाय त्र्?यागायत्र्या पक्षिण्या चक्षुष्मत्या ज्योतिष्मत्या भास्वत्या स्वर्गं लोकमेति य एवं वेद॥4.23॥
 
 
774
 
त्रयश्च वा एते त्र्?यहात्र्यहा आ दशममहरा द्वावतिरात्रौ यद्द्वादशाहो द्वादशाहानि दीक्षितो भवति यज्ञिय एव तैर्भवति द्वादश रात्रीरुपसद उपैति शरीरमेव ताभिर्धूनुते द्वादशाहम्प्रसुतो भूत्वा शरीरं धूत्वा शुद्धः पूतो देवता अप्येति य एवं वेद षट्त्रिंशदहो वा एष यद्द्वादशाहः षट्त्रिंशदक्षरा वै बृहती बृहत्या वा एतदयनं यद्द्वादशाहो बृहत्या वै देवा इमाँ ल्लोकानाश्नुवत ते वै दशभिरेवाक्षरैरिमं लोकमाश्नुवत दशभिरन्तरिक्षम्दशभिर्दिवं चतुर्भिश्चतस्रो दिशो द्वाभ्यामेवास्मिँ ल्लोके प्रत्यतिष्ठन्प्रतितिष्ठति य एवं वेद तदाहुर्यदन्यानि छन्दांसि वर्षीयांसि भूयोऽक्षरतराण्यथ कस्मादेताम्बृहतीत्याचक्षत इत्येतया हि देवा इमाँ ल्लोकानाश्नुवत ते वै दशभिरेवाक्षरैरिमं लोकमाश्नुवत दशभिरन्तरिक्षंशभिर्दिवं चतुर्भिश्चतस्रो दिशो द्वाभ्यामेवास्मिँ ल्लोके प्रत्यतिष्ठंस्तस्मादेतां बृहतीत्याचक्षते। अश्नुते यद्यत्कामयते य एवं वेद॥4.24॥