"अग्निपुराणम्/अध्यायः १९४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २:
{{अग्निपुराणम्}}
<poem><span style="font-size: 14pt; line-height: 200%">अशोकपूर्णिमादिव्रतं
 
अग्निरुवाच
अशोकपूर्णिमां वक्ष्ये भूधरं च भुवं यजेत् ।१९४.००१
फाल्गुन्यां सितपक्षायां वर्षं स्याद्भुक्तिमुक्तिभाक् ॥१९४.००१॥१
कार्त्तिक्यान्तु वृषोत्सर्गं कृत्वा नक्तं समाचरेत् ।१९४.००२
शैवं पदमवाप्नोति वृषव्रतमिदं परं ॥१९४.००२॥२
पित्र्या यामावसी तस्यां पितॄणां दत्तमक्ष्यं ।१९४.००३
उपोष्याब्दं पितॄनिष्ट्वा निष्पापः स्वर्गमाप्नुयात् ॥१९४.००३॥३
पञ्चदश्यां च माघस्य पूज्याजं सर्वमाप्नुयात् ।१९४.००४
वक्ष्ये सावित्र्यमावास्याम्भुक्तिमुक्तिकरीं शुभां ॥१९४.००४॥४
पञ्चदश्यां व्रती ज्यैष्ठे वटमूले महासतीं ।१९४.००५
त्रिरात्रोपोषिता नारी सप्तधान्यैः प्रपूजयेत् ॥१९४.००५॥५
प्ररूढैः कण्ठसूत्रैश्च रजन्यां कुङ्कुमादिभिः ।१९४.००६
वटावलम्बनं कृत्वा नृत्यगीतैः प्रभातके ॥१९४.००६॥६
नमः सावित्र्यै सत्यवते नैवेद्यं चार्पयेद्द्विजे ।१९४.००७
वेश्म गत्वा द्विजान् भोज्य स्वयं भुक्त्वा विसर्जयेत् ॥१९४.००७॥७
सावित्री प्रीयतां देवी सौभाग्यादिकमाप्नुयात् ॥८॥१९४.००८॥८॥८
 
इत्याग्नेये महापुराणे तिथिव्रतानि नाम चतुर्नवत्यधिकतशततमोऽध्यायः ॥
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_१९४" इत्यस्माद् प्रतिप्राप्तम्