"नारदपुराणम्- पूर्वार्धः/अध्यायः २७" इत्यस्य संस्करणे भेदः

नारदपुराणम्- पूर्वार्धः using AWB
No edit summary
पङ्क्तिः १:
{{नारदपुराणम्- पूर्वार्धः}}
 
<poem><span style="font-size: 14pt; line-height: 200%">सनक उवाच ।।
<poem>
सनक उवाच ।।
गृहस्थस्य सदाचारं वक्ष्यामि मुनिसत्तम ।।
यद्रूतां सर्वपापानि नश्यंत्येव न संशयः ।। २७-१ ।।
 
ब्राह्मे मुहूर्ते चोत्थाय पुरुषार्थाविरोधिनीम् ।।
वृत्तिं संचिंतयेद्विप्र कृतकेशप्रसाधनः ।। २७-२ ।।
 
दिवासंध्यासु कर्णस्थब्रह्मसूत्र उदड्मुखः ।।
कुर्यान्मूत्रपुरीषे तु रात्रौ चेद्दक्षिणामुखः ।। २७-३ ।।
 
शिरः प्रावृत्य वस्त्रेण ह्यंतर्द्धाय तृणैर्महीम् ।।
वहन्काष्टं करेणैकं तावन्मौनी भवेद्द्विजः ।। २७-४ ।।
 
पथि गोष्टे नदीतीरे तडागगृहसन्निधौ ।।
तथा वृक्षस्य च्छायायां कांतारे वह्निसन्निधौ ।। २७-५ ।।
 
देवालये तथोद्याने कृष्टभूमौ चतुष्पथे ।।
ब्राह्मणानां समीपे च तथा गोगुरुयोषिताम् ।। २७-६ ।।
 
तुषांगारकपालेषु जलमध्ये तथैव च ।।
एवमादिषु देशेषु मलमूत्रं न कारयेत् ।। २७-७ ।।
 
शौचे यत्नः सदा कार्यः शौचमूलो द्विजः स्मृतः ।।
शौचाचारविहीनस्य समस्तं कर्म निष्फलम् ।। २७-८ ।।
 
शौचं तु द्विविधं प्रोक्तं ब्राह्ममाभ्यंतरं तथा ।।
मृज्जलाभ्यां बहिः शुद्धिर्भावशुद्धिस्तथांतरम् ।। २७-९ ।।
गृहीतशिश्रश्चोत्थाय शौचार्थं मृदमाहरेत् ।.
 
गृहीतशिश्रश्चोत्थाय शौचार्थं मृदमाहरेत् ।.
न मूषकादिखनितां फालोत्कृष्टां तथैव च ।। २७-१० ।।
 
वापीकूपतडागेभ्यो नाहरेदपि मृत्तिकाम् ।।
शौचं कुर्यात्प्रयत्नेन समादाय शुभां मृदम् ।। २७-११ ।।
 
लिंगे मृदेका दातव्या तिस्रो वा मेढ्रयोर्द्वयोः ।।
एतन्मूत्रमुत्सर्गे शौचमाहूर्मनीषिणः ।। २७-१२ ।।
 
एका लिंगे गुदे पंच दश वामे तथोभयोः ।।
सप्त तिस्रः प्रदातव्याः पादयोर्मृत्तिकाः पृथक् ।। २७-१३ ।।
 
एतच्छौचं विडुत्सर्गे गंधलेपापनुत्तये ।।
एतच्छौचं गृहस्थस्य द्विगुणं ब्रह्मचारिणाम् ।। २७-१४ ।।
 
त्रिगुणां तु वनस्थानां यतीनां तच्चर्गुणम् ।।
स्वस्थाने पूर्णशौचं स्यात्पथ्यर्द्धं मुनिसत्तम ।। २७-१५ ।।
 
आतुरे नियमो नास्ति महापदि तथैव च ।।
गंधलेपक्षयकरं शौर्चं कुर्याद्विचक्षणः ।। २७-१६ ।।
 
स्त्रीणामनुपनीतानां गंधलेपक्षयावधि ।।
व्रतस्थानां तु सर्वेषां यतिवच्छौचमिष्यते ।। २७-१७ ।।
 
विधवानां च विप्रेंद्र एतदेव निगद्यते ।।
एवं शौचं तु निर्वर्त्य पश्चाद्वै सुसमाहितः ।। २७-१८ ।।
 
प्रागास्य उदगास्यो वाप्याचामेत्प्रयर्तेंद्रियः ।।
त्रिश्चतुर्धा पिबेदापो गंधफेनादिवर्जिताः ।। २७-१९ ।।
 
द्विर्मार्जयेत्कपोलं च तलेनोष्ठौ च सत्तम ।।
तर्जन्यंगुष्ठयोगेन नासारंध्रद्वयं स्पृशेत् ।। २७-२० ।।
 
अगुंष्टानामिकाभ्यां च चक्षुः श्रोत्रे यथाक्रमम् ।।
कनिष्टांगुष्टयोगेन नाभिदेशे स्पृशेद्द्विजः ।। २७-२१ ।।
 
तलेनोरःस्थलं चैव अंगुल्यग्रैः शिरः स्पृशेत् ।।
तलेन चांगुलाग्रैर्वा स्पृशेदंसौ विचक्षणः ।। २७-२२ ।।
 
एवमाचम्य विप्रेंद्र शुद्धिमाप्नोत्यनुत्तमाम् ।।
दंतकाष्टं ततः खादेत्सत्वचं शस्तवृक्षजम् ।। २७-२३ ।।
 
बिल्वासनापामार्गणां निम्बान्मार्कादिशाखिनाम् ।।
प्रक्षाल्य वारिणा चैव मंत्रेणाप्यभिमंत्रितम् ।। २७-२४ ।।
 
आयुर्बलं यशो वर्चः प्रजाः पशुवसूनि च ।।
ब्रह्म प्रज्ञां च मेधां च त्वन्नो धेहि वनस्पते ।। २७-२५ ।।
 
कनिष्टाग्रसमं स्थौल्ये विप्रः खादेद्दशांगुलम् ।।
नवांगुलं क्षत्रियश्च वैश्यश्चाष्टांगुलोन्मितम् ।। २७-२६ ।।
 
शूद्रो वेदांगुलमितं वनिता च मुनीश्वर ।।
अलाभे दैतकाष्टानां गंडूषैर्भानुसंमितैः ।। २७-२७ ।।
 
मुखशुद्धिर्विधीयेत तृणपत्रसमन्वितैः ।।
करेणादाय वामेन संचर्वेद्वामदंष्ट्रया ।। २७-२८ ।।
 
द्विजान्संघर्ष्य गोदोहं ततः प्रक्षाल्य पाटयेत् ।।
जिह्वामुल्लिख्य ताभ्यां तु दलाभ्यां नियतेंद्रियः ।। २७-२९ ।।
 
प्रक्षाल्य प्रक्षिपेदू दूरे भूयश्चाचम्य पूर्ववत् ।।
ततः स्नानं प्रकुर्वीत नद्यादौ विमले जले ।। २७-३० ।।
 
तटं प्रक्षाल्य दर्‌भाश्च विन्यस्य प्रविशेज्जलम् ।।
प्रणम्य तत्र तीर्थानि आवाह्य रविमंडलात् ।। २७-३१ ।।
 
गंधाद्यैर्मंडलं कृत्वा ध्यात्वा देवं जनार्दनम् ।।
स्नायान्मंत्रान्स्मरन्पुण्यांस्तीर्थानि च विरिंचिज ।। २७-३२ ।।
 
गंगे च यमुने चैव गोदावरि सरस्वति ।।
नर्मदे सिंधुकावेरि जलेऽस्मिन्सन्निधिं कुरु ।। २७-३३ ।।
 
पुष्कराद्यानि तीर्थानि गंगाद्याः सरितस्तथा ।।
आगच्छंतु महाभागाः स्नानकाले सदा मम ।। २७-३४ ।।
 
अयोध्या मथुरा माया काशीं कांची ह्यवंतिका ।।
पुरी द्वारावती ज्ञेया सप्तैता मोक्षदायिकाः ।। २७-३५ ।।
 
ततोऽधमर्षण जप्त्वा यतासुर्वारिसंप्लुतः ।।
स्नानांगं तर्पणं कृत्वाचम्यार्ध्यं भानवेऽर्पयेत् ।। २७-३६ ।।
 
ततो ध्यात्वा विवस्वंतं जलान्निर्गत्य नारद ।।
परिधायाहतं धौतं द्वितीयं परिवीय च ।। २७-३७ ।।
 
कुशासने समाविश्य संध्याकर्म समारभेत् ।।
ईशानाभिमुखो विप्र गायत्र्याचम्य वै द्विज ।। २७-३८ ।।
 
ऋतमित्यभिमंत्र्यार्थ पुनरेवाचमेद् बुधः ।।
ततस्तु वारिणात्मानं वेष्टयित्वा समुक्ष्य च ।। २७-३९ ।।
 
संकल्प्य प्रणवान्ते तु ऋषिच्छंदः सुरान्स्मरन् ।।
भूरादिभिर्व्याहृतिभिः सप्तभिः प्रोक्ष्य मस्तकम् ।। २७-४० ।।
 
न्यासं समाचरेन्मंत्री पृथगेव करांगयोः ।।
विन्यस्य हृदये तारं भूः शिरस्यथ विन्यसेत् ।। २७-४१ ।।
 
भुवः शिखायां स्वश्चैव कवये भूर्भुवोऽक्षिषु ।।
भूर्भुवः स्वस्तथात्रास्त्रं दिक्षु तालत्रयं न्यसेत् ।। २७-४२ ।।
तत आवाहयेत्संध्यां प्रातः कोकनदस्थिताम् ।।
 
तत आवाहयेत्संध्यां प्रातः कोकनस्थिताम् ।।
आगच्छ वरदे देवि त्र्यक्षरे ब्रह्मवादिनि ।। २७-४३ ।।
 
गायत्रि च्छंदसां मातर्ब्रह्मयोने नमोऽस्तु ते ।।
मध्याह्ने वृषभारुढां शुक्लांबरसमावृताम् ।। २७-४४ ।।
 
सावित्रीं रुद्रयोनिं चावाहयेद्रुद्रवादिनीम् ।।
सायं तु गरुडारुढां पीतांबरसमावृत्ताम् ।। २७-४५ ।।
 
सरस्वतीं विष्णुयोनिमाह्वयेद्विष्णुवादिनीम् ।।
तारं च व्याहृतीः सत्प त्रिपदां च समुच्चरन् ।। २७-४६ ।।
 
शिरः शिखां च संपूर्य कुभयित्वा विरेचयेत् ।।
वाममध्यात्परैर्वायुं क्रमेण प्राणसंयमे ।। २७-४७ ।।
 
द्विराचामेत्ततः पश्चात्प्रातः सूर्यश्चमेति च ।।
आपः पुनंतु मध्याह्ने सायमग्निश्चमेति च ।। २७-४८ ।।
 
आपो हिष्ठेति तिसृभिर्मार्जनं च ततश्चरेत् ।।
सुमुत्रिया न इत्युक्त्वा नासास्पृष्टजलेन च ।। २७-४९ ।।
 
द्विषद्वर्गं समुत्सार्य द्रुपदां शिरसि क्षिपेत् ।।
ऋतं च सत्यमेतेन कृत्वा चैवाधमर्षणम् ।। २७-५० ।।
 
अंतश्चरसि मंत्रेण सकृदेव पिबेदपः ।।
ततः सूर्याय विधिवद्गन्धं पुष्पं जलांजलिम् ।। २७-५१ ।।
 
क्षिप्त्वोपतिष्ठेद्देवर्षे भास्करं स्वस्तिकांजलिम् ।।
ऊर्द्धूबाहुरधोबाहुः क्रमात्कल्यादिके त्रिके ।। २७-५२ ।।
 
उहुत्यं चित्रं तच्चक्षुरित्येतात्र्रितयं जपेत् ।।
सौराञ्छैवान्वैष्णवांश्च मंत्रानन्यांश्च नारद ।। २७-५३ ।।
 
 
तेजोऽसि गायत्र्यसीति प्रार्थयेत्सवितुर्महः ।।
ततोऽङ्गानि त्रिरावर्त्य ध्यायेच्छक्तीस्तदात्मिकाः ।। २७-५४ ।।
 
ब्रह्मणी चतुराननाक्षवलया कुम्भं करैः स्रुक्स्रवौ बिभ्राणा त्वरुणेंदुकांतिवदना ऋग्रूपिणी बालिका ।।
हंसारोहणकेलिखण्खण्मणेर्बिबार्चिता भूषिता गायत्री परिभाविता भवतु नः संपत्समृद्ध्यै सदा ।। २७-५५ ।।
 
रुद्राणी नवयौवना त्रिनयना वैयाघ्नचर्मांबरा खट्वांगत्रघिशिखाक्षसूत्रवलयाऽभीतिश्रियै चास्तु नः ।।
विद्युद्दामजटाकलापविलसद्वार्लेदुमौलिर्मुदा सावित्री वृषवाहना सिततनुर्ध्येया यजूरूपिणी ।। २७-५६ ।।
 
ध्येया सा च सरस्वती भगवती पीतांबरालंकृता श्यामा श्यामतनुर्जरोपरिलसद्गात्रांचिता वैष्णवी ।।
तार्क्ष्यस्था मणिनूपुरांगदलसद्ग्रैवेयभूषोज्ज्वला हस्तालंकृतशंखचक्रसुगदापह्माश्रियै चास्तु नः ।। २७-५७ ।।
 
एवं ध्यात्वा जपेत्तिष्ठन्प्रातर्मध्याह्नके तथा ।।
सायंकाले समासीनो भक्त्या तद्गतमानसः ।। २७-५८ ।।
 
सहस्रपरमां देवीं शतमध्यां दशावराम् ।।
त्रिपदां प्रणवोपेतां भूर्भुवः स्वरुपक्रमाम् ।। २७-५९ ।।
 
षट्तारः संपुटो वापि व्रतिनश्च यतेर्जपः ।।
गृहस्थस्य सत्तारः स्याज्जप्य एवंविधो मुने ।। २७-६० ।।
 
ततो जप्त्वा यथाशक्ति सवित्रे विनिवेद्य च ।।
गायत्र्यै च सवित्रे च प्रक्षिपेदंजलिद्रूयम् ।। २७-६१ ।।
 
ततो विसृज्य तां विप्र उत्तरे इति मंत्रतः ।।
ब्रह्मणेशेन हरिणानुज्ञाता गच्छ सादरम् ।। २७-६२ ।।
 
दिरभ्यो दिग्देवताभ्यश्च नमस्कृत्य कृतांजलिः ।।
प्रातरादेः परं कर्म कुर्यादपि विधानतः ।। २७-६३ ।।
 
प्रातर्मध्यंदिने चैव गृहस्थः स्नानमाचरेत् ।।
वानप्रस्थश्च देवर्षे स्नायात्र्निषवणं यतिः ।। २७-६४ ।।
 
आतुराणां तु रोगद्यैः पांथानां च सकृन्मतम् ।।
ब्रह्मयज्ञं ततः कुर्याद्दर्भपाणिर्मुनीश्वर ।। २७-६५ ।।
 
दिवोदितानि कर्माणि प्रमादादकृतानि चेत् ।।
शर्वर्याः प्रथमे यामे तानि कुर्याद्यथाक्रमम् ।। २७-६६ ।।
 
नोपास्ते यो द्विजः संध्यां धूर्तबुद्धिरनापदि ।।
पाषंडः स हि विज्ञेयः सर्वधर्मबहिष्कृतः ।। २७-६७ ।।
 
यस्तु संध्यादिकर्माणि कूटयुक्तिविशारदः ।।
परित्यजति तं विद्यान्महापातकिनां वरम् ।। २७-६८ ।।
 
ये द्विजा अभिभाषंते त्यक्तसंध्यादिकर्मणः ।।
ते यांति नरकान्घोरान्यावच्चंद्रार्कतारकम् ।। २७-६९ ।।
 
देवार्चनं ततः कुर्याद्वैश्वदेवं यथाविधि ।।
तत्रात्यमतिथिं सम्यगन्नाद्यैश्च प्रपूजयेत् ।। २७-७० ।।
 
वक्तव्या मधुरा वाणी तेष्वप्यभ्यागतेषु तु ।।
जलान्नकंदमूलैर्वा गृहदानेन चार्चयेत् ।। २७-७१ ।।
 
अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तिते ।।
स तस्मैदुष्कृतं दत्त्वा पुण्यमादाय गच्छति ।। २७-७२ ।।
 
अज्ञातगोत्रनामानमन्यग्रामादुपागतम् ।।
विपश्चितोऽतिथिं प्राहुर्विष्णुवत्तं प्रपूजयेत् ।। २७-७३ ।।
 
स्वग्रामवासिनं त्वेकं श्रोत्रियं विष्णुतत्परम् ।।
अन्नाद्यैः प्रत्यहं विप्रपितॄनुद्दिश्य तर्पयेत् ।। २७-७४ ।।
 
पंचयज्ञपरित्यागी ब्रह्माहेत्युच्यते बुधैः ।।
कुर्यादहरहस्तस्मात्पंचयज्ञान्प्रयन्ततः ।। २७-७५ ।।
 
देवयज्ञो भूतयज्ञः पितृयज्ञस्तथैव च ।।
नृपज्ञो ब्रह्मयज्ञश्च पंचयज्ञान्प्रचक्षते ।। २७-७६ ।।
 
भृत्यमित्रादिसंयुक्तः स्वयं भुञ्जीत वाग्यतः ।।
द्विजानां भोज्यमश्रीयात्पात्रं नैव परित्यजेत् ।। २७-७७ ।।
 
संस्थाप्य स्वासमे पादौ वस्त्रार्द्धं परिधाय च ।।
मुखेन वमितं भुक्त्वा सुरापीत्युच्यते बुधैः ।। २७-७८ ।।
 
खादितार्द्धं पुनः खादेन्मोदकांश्च फलानि च ।।
प्रत्यक्षं लवणं चैव गोमांसशीति गद्यते ।। २७-७९ ।।
 
अपोशाने वाचमने अद्यद्रव्येषु च द्विजः ।।
शब्द न कारयेद्विप्रस्तं कुर्वन्नारकी भवेत् ।। २७-८० ।।
 
पथ्यमन्नं प्रभुञ्जीत वाग्यतोऽन्नमसुत्सयनम् ।।
अमृतोपस्तरणमसि अपोशानं भुजेः पुरः ।। २७-८१ ।।
 
अमृतापिधानमसि भोज्यान्तेऽपः सकृत्पिबेत् ।।
प्राणाद्या आहुतीर्दत्त्वाचम्य भोजनमाचरेत् ।। २७-८२ ।।
 
ततश्चाचम्य विप्रेंद्र शास्त्रचिंतापरो भवेत् ।।
रात्रावपि यथाशक्ति शयनासनभोजनैः ।। २७-८३ ।।
 
एवं गृही सदाचारं कुर्यात्प्रतिदिनं मुने ।।
यदाऽऽचारपरित्यागी प्रायश्चित्ती तदा भवेत् ।। २७-८४ ।।
 
दूषितां स्वतनुं दृष्ट्वा पालिताद्यैश्च सत्तम ।।
पुत्रेषु भार्यां निःक्षिप्य वनं गच्छेत्सहैव वा ।। २७-८५ ।।
 
भवेत्रिषवणस्नायी नखश्मश्रुजटाधरः ।।
अधः शायी ब्रह्मचारी पञ्चयज्ञपरायणः ।। २७-८६ ।।
 
फलमूलाशनो नित्यं स्वाध्यायनिरतास्तथा ।।
दयावान्सर्वभूतेषु नारायणपरायणः ।। २७-८७ ।।
 
वर्जयेद्ग्रामजातानि पुष्पाणि च फलानि च ।।
अष्टौ ग्रासांश्च भुञ्जीत न कुर्याद्रात्रिभोजनम् ।। २७-८८ ।।
 
अत्यन्तं वर्जयेत्तैलं वानप्रस्थसमाश्रमी ।।
व्यवायं वर्जयेच्चैव निद्रालस्ये तथैव च ।। २७-८९ ।।
 
शंखचक्रगदापाणिं नित्यं नारायणं स्मरेत् ।।
वानप्रस्थः प्रकुर्वीत तपश्चांद्रायणादिकम् ।। २७-९० ।।
 
सहेत शीततापादिवह्निं परिचरेत्सदा ।।
यदा मनसि वैराग्यं जातं सर्वेषु वस्तुषु ।। २७-९१ ।।
 
तदैव संन्यसेद्विप्र पतितस्त्वन्यथा भवेत् ।।
वेदांताभ्यासनिरतः शांतो दांतो जितेंद्रियः ।। २७-९२ ।।
 
निर्द्वेद्वो निरहंकारो निर्ममः सर्वदा भवेत् ।।
शमादिगुणसंयुक्तः कामक्रोधविवर्जितः ।। २७-९३ ।।
 
नग्नो वा जीर्णकौपीनौ भवेन्मुंडो यतिर्द्विजः ।।
समः शत्रौ च मित्रे च तथा मानापमानयोः ।। २७-९४ ।।
 
एकरात्रं वसेद्ग्रामे त्रिरात्रं नगरे तथा ।।
भैक्षेण वर्त्तयेन्नित्यं नैकान्नादीभवेद्यतिः ।। २७-९५ ।।
 
अनिंदितद्विजगृहे व्यंगारे भुक्तिवर्जिते ।।
विवादरहिते चैव भिक्षार्थं पर्यटेद्यतिः ।। २७-९६ ।।
 
भवेत्रिषवणस्नायी नारायणपरायणः ।।
जपेच्च प्रणवं नित्यं जितात्मा विजितेंद्रियः ।। २७-९७ ।।
 
एकान्नादी भवेद्यस्तु कदाचिल्लंपटो यतिः ।।
न तस्य निष्कृतिर्द्दष्टा प्रायश्चित्तायुतैरपि ।। २७-९८ ।।
 
लोभाद्यदि यतिर्विप्र तनुपोषपरो भवेत् ।।
स चंडालसमो ज्ञेयो वर्णाश्रमविगर्हितः ।। २७-९९ ।।
 
आत्मानां चिंतयेद्द्रेवं नारायणमनामयम् ।।
निर्द्वंद्रं निर्ममंशांतं मायातीतममत्सरम् ।। २७-१०० ।।
 
अव्ययं परिपूर्णं च सदानन्दैकविग्रहम् ।।
ज्ञानस्वरुपममलं परं ज्योतिः सनातनम् ।। २७-१०१ ।।
 
अविकारमनाद्यंतं जगच्चैतन्यकारणम् ।।
निर्गुणं परमं ध्‌यायेदात्मानं परतः परम् ।। २७-१०२ ।।
 
पठेदुपनिषद्वाक्यं वेदांतार्थांश्च चिंतयेत् ।।
सहस्त्रशीर्षं देवं च सदा ध्यायेज्जितेंद्रियः ।। २७-१०३ ।।
 
एवं ध्यानपरो यस्तु यतिर्विगतमत्सरः ।।
स याति परमानंदं परं ज्योतिः सनातनम् ।। २७-१०४ ।।
 
इत्येवमाश्रमाचारान्यः करोति द्विजः क्रमात् ।।
स याति परमं स्थानं यत्र गत्वा न शोचयति ।। २७-१०५ ।।
 
वर्णाश्रमाचाररताः सर्वपापविवर्जिताः ।।
नारायणपरा यांति तद्विष्णः परमं पदम् ।। २७-१०६ ।।
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे सदाचारेषु गृहस्थावानप्रस्थयतिधर्मनिरुपणं नाम सप्तविंशोऽध्यायः ।।
 
 
</span></poem>
 
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे सदाचारेषु गृहस्थावानप्रस्थयतिधर्मनिरुपणं नाम सप्तविंशोऽध्यायः ।।
 
</poem>
 
[[वर्गः:नारदपुराणम्- पूर्वार्धः]]