"पृष्ठम्:वाग्व्यवहारादर्शः.djvu/७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः ५: पङ्क्तिः ५:
च परमं. समादृत आचार्यः स्वेन कृतामनुशिष्टिमपि नाद्रियते । '''तदर्हम्'''
च परमं. समादृत आचार्यः स्वेन कृतामनुशिष्टिमपि नाद्रियते । '''तदर्हम्'''
(५।१।११७ ) इति सूत्रे कृद्योगलक्षणां षष्ठीमनादृत्य व्यवहारानुगां तदितिद्वितीयां प्रयुङ्क्ते, न च चिन्तयते शास्त्रैकपक्षपातिनो मामधिक्षेप्स्यन्त्यन्यदयमुपदिशत्यन्यच्चाचरतीति । परं परं ह्यस्य व्यवहारे पारवश्यम् । तच्छीलनवासनावासितान्तःकरणस्तत्र भवान् कथङ्कारं तमतीयात् । द्वितीयाव्यवहारश्चार्हशब्दयोगे तथा प्रत्यष्ठाद्यथा वश्यवाचां प्राचां मुनीनां कृतिषु यत्र तत्रायत्नतः
(५।१।११७ ) इति सूत्रे कृद्योगलक्षणां षष्ठीमनादृत्य व्यवहारानुगां तदितिद्वितीयां प्रयुङ्क्ते, न च चिन्तयते शास्त्रैकपक्षपातिनो मामधिक्षेप्स्यन्त्यन्यदयमुपदिशत्यन्यच्चाचरतीति । परं परं ह्यस्य व्यवहारे पारवश्यम् । तच्छीलनवासनावासितान्तःकरणस्तत्र भवान् कथङ्कारं तमतीयात् । द्वितीयाव्यवहारश्चार्हशब्दयोगे तथा प्रत्यष्ठाद्यथा वश्यवाचां प्राचां मुनीनां कृतिषु यत्र तत्रायत्नतः
कुतो लभ्यते । इमांस्तु प्रदेशान् स्थूलोच्चयेन निर्दिशामः -{{bold|न परित्यागमहेंयं मत्सकाशादरिन्दमेति श्रीरामायणे (१।५३।१२)। पृथ्वीराज्यमर्होऽयं नाङ्गराज्यं नरेश्वरेति भारते (आदि० १९।१२)। इन्द्रत्वमर्हो राजाऽयं तपसेत्यनुचिन्त्य वै इति च तत्रैव ( आदिं० ६३|४ ). वृथामरणमर्हस्त्वं वृथाद्य न भविष्यसीति
कुतो लभ्यते । इमांस्तु प्रदेशान् स्थूलोच्चयेन निर्दिशामः -{{bold|न परित्यागमर्हेयं मत्सकाशादरिन्दमेति श्रीरामायणे (१।५३।१२)। पृथ्वीराज्यमर्होऽयं नाङ्गराज्यं नरेश्वरेति भारते (आदि० १९।१२)। इन्द्रत्वमर्हो राजाऽयं तपसेत्यनुचिन्त्य वै इति च तत्रैव (आदिं० ६३|४ ) वृथामरणमर्हस्त्वं वृथाद्य न भविष्यसीति
चं तत्रैव (आदि० १५४/२६) विद्ध्यौशनसि भद्रं ते न स्वामर्होऽस्मि
तत्रैव (आदि० १५४/२६) विद्ध्यौशनसि भद्रं ते न स्वामर्होऽस्मि
भाविनीति च तत्रैव ( आदि० ८१/१८)। अर्हः पूरुरिदं राज्यं यः सुतः
भाविनीति च तत्रैव ( आदि० ८१/१८)। अर्हः पूरुरिदं राज्यं यः सुतः
प्रियकृत्तवेति च तत्रैव ( आदि० ८५।३१ )। अर्हंस्त्वमसि धर्मज्ञ राजसूयं
प्रियकृत्तवेति च तत्रैव ( आदि० ८५।३१ )। अर्हस्त्वमसि धर्मज्ञ राजसूयं
महाक्रतुम् इति च तत्रैव (सभा० १३।३२)। त्वमेव राजशार्दूल सम्राढर्हो
महाक्रतुम् इति च तत्रैव (सभा० १३।३२)। त्वमेव राजशार्दूल सम्राढर्हो
महाक्रतुम् (सभा० ३३।२३) इति च । तस्मात्प्रवारणं पूर्वमर्हः पार्थो धनञ्जय इति च तत्रैव ( उद्योग० ७।१७ ) । सुधन्वन्न त्वमर्होसि मया सह समासनम् ( ३५।१५) इति च । अर्हस्त्वमसि कल्याणं वार्ष्णेयं शृणु यत्परम् इति च तत्रैव (शां० २१०।१३)। तदा विसर्गमर्हाः स्युरितीदं धातृशासनम् इति च तत्रैव ( शां० २६७।१५ )। लोकानर्हो यानहं तान्विधत्स्वेत्ति तत्रैव ( अनुशा० ७१।१७ )। गtत्रं हि ते लोहितचन्दनार्हं काषायसंश्लेषमनर्हमेतद् इति बुद्धचरिते (१०।२४ ) । न स प्रमाणतामर्हो विवादजननो हि स इति च (१६२।२५)। नैवार्हः पैतृकं रिक्थम् इति च मानवे धर्मशास्त्रे ( ९।१४४)।}}
महाक्रतुम् (सभा० ३३।२३) इति च । तस्मात्प्रवारणं पूर्वमर्हः पार्थो धनञ्जय इति च तत्रैव ( उद्योग० ७।१७ ) । सुधन्वन्न त्वमर्होसि मया सह समासनम् ( ३५।१५) इति च । अर्हस्त्वमसि कल्याणं वार्ष्णेयं शृणु यत्परम् इति च तत्रैव (शां० २१०।१३)। तदा विसर्गमर्हाः स्युरितीदं धातृशासनम् इति च तत्रैव ( शां० २६७।१५ )। लोकानर्हो यानहं तान्विधत्स्वेत्ति तत्रैव ( अनुशा० ७१।१७ )। गात्रं हि ते लोहितचन्दनार्हं काषायसंश्लेषमनर्हमेतद् इति बुद्धचरिते (१०।२४ ) । न स प्रमाणतामर्हो विवादजननो हि स इति च (१६२।२५)। नैवार्हः पैतृकं रिक्थम् इति च मानवे धर्मशास्त्रे ( ९।१४४)।}}


{{gap}}अस्य व्यवहारस्य व्यभिचारोऽपि दृश्यत आश्चर्यमिव । तथां च मनौ (३।१५०) '''तान् हव्यकव्ययोर्विप्राननर्हान्मनुरब्रवी'''दित्यत्र यथाप्राप्तं षष्ठयाः प्रयोगः।
{{gap}}अस्य व्यवहारस्य व्यभिचारोऽपि दृश्यत आश्चर्यमिव । तथां च मनौ (३।१५०) '''तान् हव्यकव्ययोर्विप्राननर्हान्मनुरब्रवी'''दित्यत्र यथाप्राप्तं षष्ठ्याः प्रयोगः।


{{c|'''वांक्ये क्रियापदपरिहारः'''}}
{{c|'''वांक्ये क्रियापदपरिहारः'''}}
{{gap}}यद्यप्यन्वयबन्त्यर्थवन्ति च पदानि वाक्यं भवति तथापि तत्रैकेन तिङन्तेन भवितव्यमिति नियम्यते । तच्च तिडन्तं पदं न सर्वत्र श्रूयते, क्वचिद् गम्यते चापि । क्व चेदमनुक्तमपि गंस्यते । क्वास्य परिहारो न केवलं वाक्यदुष्टये न भविष्यत्युपस्कृतये चापीति शिष्टशैलीत एव शक्यमध्यवसातुम् ।
{{gap}}यद्यप्यन्वयवन्त्यर्थवन्ति च पदानि वाक्यं भवति तथापि तत्रैकेन तिङन्तेन भवितव्यमिति नियम्यते । तच्च तिडन्तं पदं न सर्वत्र श्रूयते, क्वचिद् गम्यते चापि । क्व चेदमनुक्तमपि गंस्यते । क्वास्य परिहारो न केवलं वाक्यदुष्टये न भविष्यत्युपस्कृतये चापीति शिष्टशैलीत एव शक्यमध्यवसातुम् ।
"https://sa.wikisource.org/wiki/पृष्ठम्:वाग्व्यवहारादर्शः.djvu/७" इत्यस्माद् प्रतिप्राप्तम्