"तैत्तिरीयब्राह्मणम् (विस्वरपाठः)/काण्डः १/प्रपाठकः ०६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ९८:
देवासुराः संयत्ता आसन् । सोऽग्निरब्रवीत् । ममेयमनीकवती तनूः । तां प्रीणीत । अथासुरानभिभविष्यथेति । ते देवा अग्नयेऽनीकवते पुरोडाशमष्टा-कपालं निरवपन् । सोऽग्निरनीकवान्स्वेन भागधेयेन प्रीतः । चतुर्धानीकान्यजनयत । ततो देवा अभवन् । परासुराः १
 
यदग्नयेऽनीकवते पुरोडाशमष्टाकपालं निर्वपति । अग्निमेवानीकवन्तꣳ स्वेन भगधेयेनभागधेयेन प्रीणाति । सोऽग्निरनीकवान्स्वेन भागधेयेन प्रीतः । चतुर्धानीकानि जनयते । असौ वा आदित्योऽग्निरनीकवान् । तस्य रश्मयोऽनीकानि । साकꣳ सूर्येणोद्यता निर्वपति । साक्षादेवास्मा अनीकानि जनयति । तेऽसुराः पराजिता यन्तः । द्यावापृथिवी उपाश्रयन् २
 
ते देवा मरुद्भ्यः सांतपनेभ्यश्चरुं निरवपन् । तां द्यावापृथिवीभ्यामेवोभयतः समतपन् । यन्मरुद्भ्यः सांतपनेभ्यश्चरुं निर्वपति । द्यावापृथिवीभ्यामेव तदुभ-यतो यजमानो भ्रातृव्यान्संतपति । मध्यंदिने निर्वपति । तर्हि हितेऽक्ष्निष्ठं तपति । चरुर्भवति । सर्वत एवैनान्संतपति । ते देवाः श्वोविजयिनः सन्तः । सर्वासां दुग्धे गृहमेधीयं चरुं निरवपन् ३