"शतपथब्राह्मणम्/काण्डम् १/अध्यायः ८/ब्राह्मण २" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २२:
स सम्मार्ष्टि । अग्ने वाजजिद्वाजं त्वा ससृवांसं वाजजितं सम्मार्ज्मीति सरिष्यन्तमिति वा अग्र आह सरिष्यन्निव हि तर्हि भवत्यथात्र ससृवांसमिति ससृवेव ह्यत्र भवति तस्मादाह ससृवांसमिति - १.८.२.[६]
 
अथानुयाजान्यजति । या वा एतेन यज्ञेन देवता ह्वयति याभ्य एष यज्ञस्तायते सर्वा वै तत्ता इष्टा भवन्ति तद्यत्तासु सर्वास्विष्टास्वथैतत्पश्चेवानुयजति तस्मादनुयाजा नाम - १.८.२.[७]
वै तत्ता इष्टा भवन्ति तद्यत्तासु सर्वास्विष्टास्वथैतत्पश्चेवानुयजति तस्मादनुयाजा
नाम - १.८.२.[७]
 
अथ यदनुयाजान्यजति । छन्दांसि वा अनुयाजाः पशवो वै देवानां छन्दांसि तद्यथेदं पशवो युक्ता मनुष्येभ्यो वहन्त्येवं छन्दांसि युक्तानि देवेभ्यो यज्ञं वहन्ति तद्यत्र छन्दांसि देवान्त्समतर्पयन्नथ छन्दांसि देवाः समतर्पयंस्तदतस्तत्प्रागभूद्यच्छन्दांसि युक्तानि देवेभ्यो यज्ञमवाक्षुर्यदेनान्त्समतीतृपन् - १.८.२.[८]
 
अथ यदनुयाजान्यजति । छन्दांसि वा अनुयाजाश्छन्दांस्येवैतत्संतर्पयति तस्मादनुयाजान्यजति तस्माद्येन वाहनेन धावयेत्तद्विमुच्य ब्रूयात्पाययतैनत्सुहितं कुरुतेत्येष उ वाहनस्यापह्नवः - १.८.२.[९]
ब्रूयात्पाययतैनत्सुहितं कुरुतेत्येष उ वाहनस्यापह्नवः - १.८.२.[९]
 
स वै खलु बर्हिः प्रथमं यजति । तद्वै कनिष्ठं छन्दः सद्गायत्री प्रथमा छन्दसां युज्यते तदु तद्वीर्येणैव यच्छ्येनो भूत्वा दिवः सोममाहरत्तदयथायथं मन्यन्ते यत्कनिष्ठं छन्दः सद्गायत्री प्रथमाच्छन्दसां युज्यतेऽथात्र यथायथं देवाश्छन्दांस्यकल्पयन्ननुयाजेषु नेत्पापवस्यसमसदिति - १.८.२.[१०]
Line ३७ ⟶ ३४:
अथ नराशंसं द्वितीयं यजति । अन्तरिक्षं वै नराशंसः प्रजा वै नरस्ता इमा अन्तरिक्षमनु वावद्यमानाः प्रजाश्चरन्ति यद्वै वदति शंसतीति वै तदाहुस्तस्मादन्तरिक्षं नराशंसोऽन्तरिक्षमु वै त्रिष्टुप्तत्त्रिष्टुभं द्वितीयामकुर्वन् - १.८.२.[१२]
 
अथाग्निरुत्तमः । गायत्री वा अग्निस्तद्गायत्रीमुत्तमामकुर्वन्नेवं यथायथेन कॢप्तेन छन्दांसि प्रत्यतिष्ठंस्तस्मादिदमपापवस्यसम् - १.८.२.[१३]
कॢप्तेन छन्दांसि प्रत्यतिष्ठंस्तस्मादिदमपापवस्यसम् - १.८.२.[१३]
 
देवान्यजेत्येवाध्वर्युराह । देवंदेवमिति सर्वेषु होता देवानां वै देवाः सन्ति छन्दांस्येव पशवो ह्येषां गृहा हि पशवः प्रतिष्ठो हि गृहाश्छन्दांसि वा अनुयाजास्तस्माद्देवान्यजेत्येवाध्वर्युराह देवं देवमिति सर्वेषु होता - १.८.२.[१४]