"ऋग्वेदः सूक्तं १०.२२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ७४:
मित्रः । न । यः । जनेषु । आ । यशः । चक्रे । असामि । आ ॥२
 
“इह अस्मिन् यज्ञे “इन्द्रः श्रुतः प्रख्यातः। अद्य अस्मिन्दिवसे “अस्मे अस्माभिः स्तवे स्तूयते । कीदृशः । वज्री वज्रवान् ऋचीषमः । यद्याव इन्द्र ते शतं शतं भूमीरुत स्युः न स्वात्वा वज्रिन्' ( ऋ. सं. [[ऋग्वेदः सूक्तं ८.७०|८. ७०. ५]]) इत्यादिकया स्तुत्या समानगुण इत्यर्थः । यः इन्द्रः “मित्रो “न सूर्य इव स्निग्ध इव वा “जनेषु स्तोतृजनेषु “यशः अन्नं कीर्तिं वा “चक्रे करोति । कीदृशम् । “असामि असाधारणम् । स इन्द्रोऽस्माभिः स्तूयत इति पूर्वेण संबन्धः ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.२२" इत्यस्माद् प्रतिप्राप्तम्