"अग्निपुराणम्/अध्यायः ८७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २:
 
===शान्तिशोधनकथनम्===
<poem><span style="font-size: 14pt; line-height: 170200%">ईश्वर उवाच
ईश्वर उवाच
सन्दध्यादधुना विद्यां शान्त्या सार्द्धं यथाविधि।
शान्तौ तत्त्वद्वयं लीनं भावेश्वरसदाशिवौ ।।।।
 
हकारश्च क्षकारश्च द्वौ वर्णौ परिकीर्त्तितौ।
रुद्राः समाननामानो भुवनैः सह तद्यथा ।।।।
 
प्रभवः समयः क्षुद्रो विमलः शिव इत्यपि।
घनौ निरञ्जनाकारौ स्वशिवौ दीप्तिकारणौ ।।।।
 
त्रिदशेश्वरनामा च त्रिदशः कालसञ्ज्ञकः।
सूक्ष्माम्बुजेश्वरश्चेति रुद्राः शान्तौ प्रतिष्ठिताः ।।।।
 
व्योमव्यापिने व्योमव्याप्यरूपायसर्वव्यापिने
शिवाय अनन्ताय अनाथाय अनाश्रिताय ध्रुवाय
शाश्वताय योगपीठसंस्थिताय नित्ययोगिने ध्यानाहारायेति द्वादशपदानि।
पुरुषः कवचौ मन्त्रौ वीजेबीजे विन्दूपकारकौ।बिन्दूपकारकौ।
अलम्बुषायसानाड्यौ वायू कृकरकूर्म्मकौ ।।।।
 
इन्द्रिये त्वक्कारावस्या स्पर्शस्तु विषयो मतः।
गुणौ स्पर्शनिनादौ द्वावेकः कारणमीश्वरः ।।।।
 
तुर्य्यावस्थेति शान्तिस्थं सम्भाव्य भुवनादिकं।
विदध्यात्ताडनं भेदं प्रवेशञ्च वियोजनं ।।।।
 
आकृष्य ग्रहणं कुर्य्याच्छान्तेवेदनसूत्रतः।
आत्मन्यारोप्य सङ्‌गृह्य कलां कुण्डे निवेशयेत् ।।।।
 
ईश तवाधिकारेऽस्मिन् मुमुक्षुं दीक्षयाम्यहं।
भव्यं त्वयाऽनुकूलेन कुर्य्यात् विज्ञापनामिति ।।।।
 
आवाहनादिकं पित्रोः शिष्यस्य ताडनादिकं।
विधायादाय चैतन्यं विधिनाऽऽत्मनि योजयेत् ।। १० ।।
 
पूर्ववत् पितृसंयोगं भावयित्वोद्भवाख्या।
हृत्सम्पुटात्मवीजेन हेवीगर्भे नियोजयेत् ।। ११ ।।
 
देहोत्पत्तौ हृदा पञ्च शिरसा जन्महतवे।
शिखया वाऽधिकाराय भोगाय कवचाणुना ।। १२ ।।
 
लयाय शस्त्रमन्त्रेण श्रोतः शुद्धौ शिवेन च।
तत्त्वशुद्धौ हृदा ह्येव गर्ब्भाधानादि पूर्ववत् ।। १३ ।।
 
वर्म्मणा पाशशैथिल्यं निष्कृत्यैवं शतं जपेत्।
मलशक्तितिरोधाने शस्त्रेणाहुतिपञ्चकं ।। १४ ।।
 
एवं पाशवियोगेऽपि ततः सप्ताश्त्रजप्तया।
छिन्द्यादस्त्रेण कर्त्तर्य्या पाशान्वीजवता यथा ।। १५ ।।
 
ओं हौं शान्तिकलापाशाय हः हूं फट्।
विसृज्य वर्त्तुलीकृत्य पाशमस्रेण पूर्ववत्।
घृत पूर्णे श्रुवे दत्वा कलास्त्रेणैव होमयेत् ।। १६ ।।
 
अस्त्रेण जुहुयात् पञ्च पाशाङ्कुशनिवृत्तये।
प्रायश्चित्तनिषेधाय दद्यादष्टाहुतीरथ ।। १७ ।।
 
ओं हः अस्त्राय हूं फट्।
हृदेश्वरं समावाह्य कृत्वा पूजनतर्पणे।
विदधीत विधानेन तस्मै शुल्कसमर्पणं ।। १८ ।।
 
ओं हां ईश्वर बुद्ध्यहङ्कारौ शुल्कं गृहाण स्वाहा।
निः शेषदग्धपाशस्य पशोरस्येश्वर त्वया।
न स्थेयं बन्धकत्वेन शिवाज्ञां श्रावयेदिति ।। १९ ।।
 
विसृजेदीश्वरन्देवं रौद्रात्मानं नियोजयेत्।
ईषच्चन्द्रमिवात्मानं विधिनाऽऽत्मनि योजयेत् ।। २० ।।
 
सूत्रे संयोजयंदेनं शुद्धयोद्भवमुद्रया।
दद्यात् मूलेन शिष्यस्य शिरस्यमृतविन्दुकं ।। २१ ।।
 
विसृज्य पितरौ वह्नेः पूजितौ कुसुमादिभिः।
दद्यात् पूर्णां विधानज्ञो निः शेषविधिपूरणीं ।। २२ ।।
 
अस्यामपि विधातव्यं पूर्ववत्ताडनादिकं।
स्ववीजन्तु विशेषः स्चाच्छुद्धिः शान्तेरपीडिता ।। २३ ।।
इत्यादिमहापुराणे आग्नेये निर्वाणदीक्षायां शान्तिशोधनं नाम सप्ताशीतितमोऽध्यायः।
 
इत्यादिमहापुराणे आग्नेये निर्वाणदीक्षायां शान्तिशोधनं नाम सप्ताशीतितमोऽध्यायः।
 
</span></poem>
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_८७" इत्यस्माद् प्रतिप्राप्तम्